________________
श्रीअनन्तदेववन्दना - १४
चैत्यवन्दनम् श्रीअनन्तजगतीपते ! लसदनन्तगुणगेह ! । सौख्यमनन्तं देहि मे, श्येनाङ्कितवरदेह ! ॥१॥ निखिलनाकिरेन्द्रतो-उनन्तगुणाधिकरूप ! । सिंहसेनसुयशातनय !, शीतलशमजलकूप ! ॥२॥ नगरायोध्याभूपते ! ऽनन्तवीर्यबलपात्र ! अममधुरन्धर ! पाहि मां, चन्दनचर्चितगात्र ! ॥३॥
स्तवनम् राग- श्री अनंतजिनसुं करो साहेलडीयां.... प्रीतिमनन्तजिनेशितुः सखि शृणुया रे
____ कुर्वन्त्यविघटरङ्ग, हृदि तं वृणुया रे । स्वामी भुवनैतादृशः सखि शृणुया रे
नैव वर्ततेऽभङ्गं हृदि तं वृणुया रे ॥१॥ त्रिभुवनजनतामोहनं सखि, यस्यासमसौभाग्यं हृदि । मनुजदनुजदेवेशतः सखित, परमातुलसद्भाग्यं हृदि. ॥२॥ निरवधिसुषमासेवधिः सखि, यो जगदनुपमरूपः हृदि ।। पश्यन् दशशतचक्षुषा सखि., तृप्यति नहि सुरभूपः हृदि. ॥३॥
.
महाद० ।
.
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org