Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 56
________________ * आगमवाद-हेतवादव्यवस्थोपदर्शनम * परलोकविधौ - आमुष्मिकालोपदेशे मानं = स्वतन्त्रप्रमाणं वचनं = आगमः | तत् = वचनं अतीन्द्रियार्थदृशा : सर्वोन व्यक्तं = प्रतिपादितार्थ, अज्यस्याऽदृष्टार्थाभिधानशक्त्यभावात् । सर्वमिदं वचनं अनादि स्यात्. 'सर्वक्षेत्रापेक्षप्रवाहत: । कल्याणकन्दली आगमपुरस्सरं चिय करेइ तो सचकिच्चाई ।। --- [६९] इत्येवं धर्मरत्नप्रकरणे । आमुप्मिकफलोपदेशे = अतीन्द्रियपारलौकिकफल-तदवन्ध्योपायादिगोचरविधि-प्रतिषेधादी स्वतन्त्रप्रमाणं = अन्यप्रमाणानुपर्जीवि प्रमाणं आगम एव, न च तर्कस्यात्र स्वातन्त्र्येण सामर्थ्यम् । तदुक्तं मूलकारैरेव योगदृष्टिसमुच्चये --> अतीन्द्रियार्थसिद्धयर्थं यथाऽऽलोचितकारिणाम् । प्रयास: शुष्कतर्कस्य न चासौ गोचर: क्वचित् ।। गोचरस्त्वागमस्यैव ततस्तदुपलब्धित: <-- [यो.स.९८/९९ पूर्वार्ध:] इति । अत एवाउडसन्नभन्यस्य तत्रादरो महान, तदक्तं मूलकारैरेव योगविन्दी -> परलोकविधी शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान श्रद्धाधनसमन्वितः ।।२२।। --- इति । एतदनुवादरूपेण योगसारप्राभृते दिगम्बराऽमितगतिनापि ---> परलोकविधी शास्त्रं प्रमाणं प्रायशः परम् । यतोऽत्राऽऽसन्नभव्यानामादर: परमः ततः ।।--[८/६९] इति गदितम् । अन्यत्रापि-> जम्हा न मोक्खमग्गे, मोत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं तम्हा तत्थेव जइयत्वं ॥[ ] -- इत्युक्तम् । अत एवानुमानस्यापि स्वातन्त्र्येण सम्यगतीन्द्रियार्थनिश्चयार्थमवकाशो नैव । तदक्तं वाक्यपदीये भर्तृहरिणा --> यत्नेनानुमितोऽप्यर्थः, कुशलग्नुमातृभिः । अभियुक्ततररन्यैरन्यथैवोपपाद्यते ।। <-- [वा.प.कां.१/का.३४] इति । वादस्याऽप्यत्रा प्रचार एव । तदुक्तं पतञ्जलिना -> वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ ।। --- इति । अतीन्द्रियतत्त्वमित्यर्थमागमस्यैव स्वातन्त्र्यण सामर्थ्य , अतीन्द्रियार्थप्रतीत्यर्थश्चाऽध्यात्ममेव परम उपाय:, वादग्रन्थास्तूभयत्राऽकिञ्चित्कराः। तदुक्तं योगविन्दी ---> अध्यात्ममत्र परम उपाय: परिकीर्तितः । गती सन्मार्गगमनं यथैव ह्यप्रमादिनः ।। मुक्त्वाऽतो वादसघट्टमध्यात्ममनुचिन्त्यताम् । नाऽविधूते तमःस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ।। - [यो.बि.६८/६९] इति । इदमेवाभिप्रेत्य देशनाद्वात्रिंशिकायामपि -> परलोकविधी मानं बलवन्नाऽत्र दृश्यते -- २/१९] इत्युक्तम् । । इदश्चात्रावधेयम -> अतीन्द्रियार्थे आगममुपजीव्य लब्धात्मलाभस्याऽनुमानादेरपि प्रवृत्तियुज्यत एव, किन्तु तस्याउगममूलकतयेव प्रामाण्यं. न तु स्वातन्त्र्येण । अत एवातीन्द्रियार्थस्या गमवादविषयत्वव्यवस्थाऽप्यनाविला । तदुक्तं टीकाकृता स्याद्वादकल्पलतायां ---> यद्यप्यतीन्द्रियार्थे पूर्वमागमस्य प्रमाणान्तरानधिगतवस्तुप्रतिपादकत्वेना हेतुवादत्वं तथाप्यग्रे तदुपर्जाव्यप्रमाणप्रवृत्ती हेतुवादत्वेऽपि न व्यवस्थानुपपत्तिः, आद्यदशापेक्षयैव व्यवस्थाभिधानात् <-- [स्या.क.स्त.२/का.१३] इति । आगमगम्यस्याऽपि तदत्तरमनमानविषयत्वं योगविन्दी --> आत्माद्यतीन्द्रियं वस्तु योगिप्रत्यक्षभावतः । परोक्षमपि चान्येषां न हि युक्त्या न युज्यते ।। <--- [यो.चि.५१] इत्युक्त्योक्तमिति विभावनीयम् । परलोकविधावागमस्य स्वातन्त्र्येण प्रामाण्ये हेतुगर्भितमागमविशेषणमाहसर्वज्ञन प्रतिपादितार्थमिति. --> 'अत्थं भासइ अरहा' --- [आ.नि.९२ वि.भा.१११९] इति विशेपावश्यकभाष्यवचनात 'सर्व वाक्यं सावधारणमिटतोऽवधारणमिति न्यायाभ्यां व्यवच्छेद्यमाह- अन्यस्य = सर्वज्ञेतरस्य अदृष्टार्थाभिधानशक्त्ययोगात् = अतीन्द्रियार्थगोचरयथार्थाभिलापसामर्थ्याऽसम्भवात् । न च सर्वज्ञ एव नास्तीति सर्वमिदं फल्गुरिति शङ्कनीयम्, असम्भवद्भाधकप्रमाणत्वेन तसिद्भः । तदुक्तं ---> वीतरागोऽस्ति सर्वज्ञः, प्रमाणाऽबाधितत्वतः । सर्वदा विदितः सद्भिः सुखादिकमिव ध्रुवम् ।।१।। क्षीयते सर्वधा राग: क्यापि कारणहानितः । ज्वलनो हीयते किं न ? काष्ठादीनां वियोगत: ।।२।। प्रकर्षस्य प्रतिष्ठानं, ज्ञानं क्वापि प्रपठ्यते । परिमाणमिवान्कादो तारतम्योपलब्धितः ॥३॥ -- इत्यादि । अधिकं तु मत्कृत-जयलतायामवगन्तव्यम् [पृष्ठ-४५३] । सर्वं इदं सर्वज्ञादितं वचनं अनादि स्यात् । उपलक्षणादनन्तत्वमप्यस्यावसेयम् । यद्यपि अर्थतोऽनादित्वं शब्दात्मकद्धादशाग्या। सूत्रता द्वादशाझ्यास्तु पौरुषेयत्वेन सादित्वमेव तथापि सर्व क्षेत्रापेक्षप्रवाहतः = महाविदेहादिवांपक्षसमूहमाश्रित्य वचनस्वरूपद्वादशाङ्ग्या अयनादित्वमनपायम् । न च सूत्रात्मकद्वादशाझ्या अनादित्वेऽपौरुषेयत्वप्रसङ्ग इति शङ्कनीयम्, कर्मभूम्यन्तर्गते यस्मिन् कस्मिंश्चिदपि क्षेत्रे सर्वदा उपलभ्यमानाया द्वादशांग्याः सूत्रतो गणधरग्रथितत्वेन पौरुषेयत्वानपायात् । अतो नापौरुषेयागमवादिमीमांसकमतसाम्राज्यम् । न चैवमसर्वज्ञगणधरोदितत्वेन सूत्रात्मकद्वादशाङ्ग्या : प्रामाण्यमनुपपन्नमिति शङ्कनीयम्, द्वादशाङ्गार्थभाषकसर्वज्ञोदितवचनस्यैव स्वातन्त्र्येण प्रमाणत्वेऽपि तन्मूलकतया गणधरसन्दधद्वाददाग्या अपि प्रामाण्यानतिक्रमात् । एतेन સર્વજ્ઞ ભગવંતે બોલેલા અર્થથી ગર્ભિત વચનાત્મક હોય છે, કેમ કે અન્ય અસર્વજ્ઞ પાસે અતીન્દ્રિય અર્થને યથાર્થ રીતે જાણાવવાની બોલવાની સ્વતંત્ર શકિત જ નથી. આ સર્વ સર્વજ્ઞભાષિત આગમ સર્વ ક્ષેત્રની અપેક્ષાએ પ્રવાહથી અનાદિ છે. માટે ઉપલક દષ્ટિએ १. ह. पती . 'सर्वक्षत्रापक्ष प्रवाहतः' इति पाठः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240