Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 186
________________ १५३ 8 चैत्याययनपदलक्षणाविचार: 808 एवं = उवतन्यायेन ज्ञेयं इदं = जिनभवनं शीर्णोद्धारद्वारेण अजेकपुरुषसन्ताजाश्रितोपकारफलस्याऽवन्ध्यत्वात् वंशस्य सकलस्यैव तरकाण्डं = तरणकाष्ठं, एवं हि कुर्वता सकलोऽपि भाविपुरुषप्रवाह: संसारान्निस्तारितो भवति कल्याणकन्दली - निर्माप्यते । श्रीहरिभद्राचार्याभिप्रायेणापि नात्र कश्चिद्विरोधोऽवतरति । आर्यायामस्यां "तिष्ठन्ति ते यथा च तथा कार्यम्" इत्यस्यैव तावत्तः प्रतिपादितत्वात् । निर्मापयिता गृहस्थ एव स्वीयां सुविधामवलोक्य तदनुसारेण वसतिकां व्याख्यानशाला च जिनायतनसमीपस्थां तद्रस्थां वा निर्मापयेदित्यत्र तस्य स्वेच्छैव बलीयसी । शास्त्रे तु एतावन्मात्रमेवोक्तं यत् तेन सद्गृहस्थेनावश्यं मुनिवसतिका व्याख्यानशाला च निर्मापणीयेति । अन्यथा मुनीनामनागमत: सद्धर्मोपदेशालाभेन धर्माधर्मापरिज्ञानतः स्वयं लब्धमपि मानुष्यं जन्म निष्फलं भवेत् । धर्मविमर्शशून्या स्वजातिः धर्मज्ञानविवर्जितश्च स्ववंशोऽपि जायेत। अतो यत्र जिनालयसद्भावस्तत्र मुनीनामागमनमपि भवत्येव । अतस्तान् वस्तुं वसतिका तन्मुखारविन्दाच्च व्याख्यानश्रवणार्थं व्याख्यानशालाऽवश्यमेव निर्मापणीया । - इति वदन्ति । अधुनातना: श्रीराजशेखरसूरयस्तु --> पूर्वकाले चैत्यनिर्माणावसरे श्रावका: साध्ववस्थानाय स्वपौषधाद्यनुष्ठानार्थश्च जिनालयसंलग्नं तत्प्रतिबद्धं तत्समीपतरवर्ति वा श्रमणालयं निर्मापयन्ति स्म यदत्र आयतनपदात् चैत्यायतनपदाच्च व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायेन प्रतिपाद्यते । एतेन जिनगृहे कथं साधूनामवस्थानं कल्पते ? इति शङ्का परिहृता, 'गङ्गायां घोष' इतिवत् आयतनपदस्य चैत्यसम्बन्धिनि श्रमणायतने लक्षणामङ्गीकृत्य 'साधवः सबालवृद्धाः तत्राऽऽयतने = चैत्यायतनसम्बन्धिनि श्रमणायतने तिष्ठन्ति' इत्यस्याऽप्यर्थस्य सम्भवाच्चेति प्राहः । एतेन -> साधू चेइए वा पोसहं उवासेंतो उवासगो भवइ -[उद्दे.१४-भाग.३-पृ.४७३] इति निशीथचूर्णिवचनमपि व्याख्यातम. चैत्यसंलग्न-पौषधायतनोपभोगेन साधर्मिकोपष्टम्भसम्भवात् । -> चउसु ठाणेसु निअमा कायव्वं तं जहा [१] चेइयघरे [२] साहुमूले [३] घरे वा [४] पोसहसालाए वा आवस्सगं करितो त्ति -[] इति आवश्यकचूर्णिवचनमप्यत्रानुसन्धेयम् । चैत्यविरहे साध्यागमाभावात् तादृशक्षेने श्रावकाणामपि स्थातुं न कल्पते, तदुक्तं श्रावकप्रज्ञप्तौ श्वेताम्बरशिरोमणिभिः उमास्वातिवाचकैः -> निवसिज्ज तत्थ सड्ढो साहूणं जत्थ होइ संपाओ । चेइयघराइ जत्थ य तयन्नसाहम्मिया चेव ॥३३९।। - इति । श्रावकधर्मविधी मूलकारैरपि → निवसिज्ज तत्थ सड्ढो साहूणं जत्थ होइ संपाओ । चेइयहराइँ य जम्मि तयन्नसाहम्मिया चेव ।।१११।। - इत्युक्तम् । श्रावकाष्टकेऽपि > तत्र धाम्नि निवसेद् गृहमेधी संश्रयन्ति खलु यत्र मुनीन्द्राः । यत्र चैत्यगृहमस्ति जिनानां श्रावकाः परिवसन्ति च यत्र ।। - [४] इत्युक्तम् । आत्मप्रबोधेऽपि -> न चैत्यसाधर्मिकसाधुयोगो यत्रास्ति तद्ग्रामपुरादिकेषु । युतेष्वपि प्राज्यगुणैः परैश्च कदापि न श्राद्धजना बसन्ति ।। - [७५/२०] इत्युक्तम् । शीर्णोद्धारद्वारेण इति । जीर्ण-शीर्णजिनभवनोद्धारेण स्वात्मोद्धारः कृतो भवति । तदुक्तं श्राद्धदिनकृत्ये > जिणभवणाई जे उद्धरंति भत्तीइ सडियपडियाई । ते उद्धरंति अप्पाणं भीमाओ भवसमुद्दाओ ।। - [१००] इति । > जिन्नं विहडियसंधिं निन्नधयं च चेइयं दटुं । तमुवेक्खिऊण अन्नं कुसलेण न जुज्जए काउं । इहरा मग्गुच्छेओ न माणविजओ जिणे य न य भत्ती । तम्हा सय सामत्थे तमुद्धरंतो वरं कुज्जा ।। - [प्र.६७/गा.१२/१३] इति कथारत्नकोशगाथे प्रकृते दृढमवधेये । उपदेशतरङ्गिण्यां श्रीरत्नमन्दिरगणिभिरपि -> जीर्णोद्धारः कृतो येन विभवेन सुचारुणा । जिनाज्ञा पालिता तेन क्लेशकूपारपारदा ।। - [तरङ्ग.२/पृ.१०८] इत्युक्तम् । नवीनजिनालयनिर्मापणादप्यष्टगुणं फलं जीणोद्धारे स्यात्, यदक्तं धनेश्वरसूरिभिः शत्रुञ्जयमाहात्म्ये -> नूतनाहदरावासविधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं जीर्णोद्धारे विवेकिनाम् ॥[श.मा.५/४९२उपदेशतरङ्गिण्यां-तरङ्ग-२ पृ.१०६] इति । तरणकाष्ठमिति । जिनभवनवत् जिनपूजाया अपि तरणकाष्ठत्वमवसेयम् । यथोक्तं पूजाविंशिकायां -> तम्हा जिणाण पूया बुहेण सव्वायरेण कायव्वा । परमं तरंडमेसा जम्हा संसारजलहिम्मि ॥१९।। निस्तारितो भवति, -> 'मलिनारम्भानुबन्धस्य छिदा जिनप्रासादात्' इति कर्तव्यताऽनुसन्धाने सदारम्भाध्यवसायस्यैव प्राधान्यादितरस्याऽऽनुषङ्गिकत्वात्, तत्प्रवाहप्रवृत्त्यैव वंशतरणोपपत्तेः - [प्र.श.गा.३१ पृ.२१३] इति व्यक्तं प्रतिमाशतकवृत्तौ । अनुमोदनात् निजवंशस्येवान्येषामप्युद्धारस्स्याद्, यधोक्तं श्राद्धदिनकृत्ये -> अप्पा उद्धरिओ चिअ उद्धरिओ तह य तेहि निअवंसो । अन्ने अ भव्वसत्ता, अणुमोअंता उ जिणभवणं ॥१०१।। खविअं नीआगोअं उच्चागोअं च बंधिअं तेहिं । कुगइपहो निट्ठविओ सुगइपहो अज्जिओ तेण ॥१०२।। - इति । एतेन -> धर्मः श्रुतोऽपि दृष्टोऽपि कृतो वा कारितोऽपि वा । अनुमोदितोऽपि नियतं पुनात्यासप्तमं कुलं ।। - [८] इति आचारोपदेशकृतः चारित्रसुन्दरगणिनो वचनमपि व्याख्यातम, ફળ અવંધ્ય = અમોઘ છે. આ રીતે દેરાસર બનાવતા ગૃહસ્થ પોતાના બધાય વંશના પ્રવાહને સંસારથી તારી દીધેલ થાય છે. પોતાના For Private & Personal Use Only Jain Education Intemational www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240