Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 189
________________ १५६ षष्ठं षोडशकम् 8 यतनागर्भप्रवृत्तौ धर्मपरिणामस्फुरणम् यतला = रागद्वेषरहितः शास्त्राऽऽज्ञाशुद्धः प्रयत्नः, 'रागद्दोसविउत्तो जोगो असदस्स होइ जयणाओ' (जि.भा. ६६९६) इत्यागमात् । ततो न च = जैव हिंसा, जिनभवनविधाने यतनायां सत्यां भावहिंसाऽनुपपत्तेः । तस्या एव शास्त्रे | परिहर्तव्यत्वेन प्रतिपादनात् द्रव्यहिंसायास्तु सर्वथा साधुविहारादावपि दुःपरिहरत्वात् । द्रव्यहिंसामप्याश्रित्याह कल्याणकन्दली 'यतना' इति विधेयनिर्देशः, उद्देश्यमाह - रागद्वेपरहितः = राग-द्वेषाऽप्रयुक्तः शास्त्राज्ञाशुद्धः समुचितोत्सर्गापवाद | स्थानीयविधिनिषेधानुसारिपरिणामप्रयुक्तशुद्धिपरिपुष्टः प्रयत्नः । ततश्च न रागादियुक्ते छद्मस्थमात्रवृत्तिप्रयत्नविशेषे यतनात्वेनाऽभि| मतेऽव्याप्तिः रागाद्यप्रयुक्तत्वात्, न वा परस्थानीयोत्सर्गादिप्रवृत्तिजनके प्रयत्नेऽतिव्याप्तिः शास्त्राज्ञाशुद्धत्वाभावात् । स्वामिकृतया | स्वरूपप्रयुक्तया च शुद्धया युक्ता इयं हि बहुतरासत्प्रवृत्तिविनिवृत्तिसाधन्येव, अन्यथा तत्त्वहानेः । साम्प्रतं निशीथभाष्ये -> रागद्दोसविउत्तो जोगो असदस्स होति जयणा उ । रागद्दोसाणुगतो जो जोगो सा अजयणा उ || ६६९६ || <- इत्येवं गाथोपलभ्यते । < ततो जिनभवनविधाने नैव हिंसा = भावहिंसा सम्भवति, यतनायां सत्यां भावहिंसाऽनुपपत्तेः प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' [ तत्त्वा. सू. ७/८ ] इति निश्चयनयानुगृहीतव्यवहारनयसम्मतस्य भावहिंसालक्षणस्य विरहात्, परिशुद्धाज्ञायोगेन | प्रमादप्रच्यवात् विशेषणाभावप्रयुक्तविशिष्टाभावसाम्राज्यात् । 'सविशेषणौ हि विधि - निषेधौ विशेषणमुपसङ्क्रामत' इत्यादिन्यायेन | शुद्धनिश्चयनयसम्मतायाः प्रमादस्वरूपहिंसाया विरहस्तु स्पष्ट एव । अत्र व्यवहारतः परिणतोदकग्रहणादिरूपायां [प्र.श. वृ. पृ. ३८२ ] | | यतनायां सत्यां भावहिंसानुपपत्तेः = परिभाषान्तरेण हेत्वनुबन्धहिंसाऽसम्भवात्, यतनया तत्स्वरूपप्रच्यवात् । एतेन जिनभवनकारणे हिंसांशेन दूषणमित्यपि प्रत्याख्यातम्, भावपाणातिवाएण य जहा घणं कम्मं चिज्जति, ण तहा दव्वपाणातिवाएण - [ उद्दे. १५- भा. ३ - पृ. ५००] इति निशीथचूर्णिवचनेन स्वरूपहिंसायां दोषस्याऽबलवत्त्वात् उद्देश्यफलसाधनतयाऽनुबन्धतोऽदोष| त्वाद्वा । यथोक्तं प्रतिमाशतके गर्तादङ्गविघर्षणैरपि सुतं मातुर्यथाऽहेर्मुखात् कर्षन्त्या न हि दूषणं ननु तथा दुःखानलार्चिर्भृतात् । संसारादपि कर्षतो बहुजनान् द्रव्यस्तवोद्योगिनस्तीर्थस्फातिकृतो न किञ्चन मतं हिंसांशतो दूषणम् ||३८|| - इति । एतेन प्रथमजिनेन्द्रस्य विवाह-शिल्पादिनिरूपणस्य सदोषताऽपि प्रत्यस्ता, अधिकदोषेभ्यः सत्त्वानां रक्षणात्, यथोक्तं स्तवपरिज्ञायां -> एत्तो च्चिय गिद्दो सिपाइविहाणमो जिनिंदस्स । लेसेण सदोपि हु बहुदोसनिवारणत्तेत्ति ॥ [ १५७] इति । अल्पबाधया बहूनामुपकारादनुकम्पोपपत्तिः' ← [] इति । यथोक्तं स्तवपरिज्ञायां अप्पा य होइ एसा एत्थ जयणाई वट्टमाणस्स । जयगाउ धम्मसारो विन्नेया सव्वकज्जेसु || १५२ || जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तब्बुढिकरी जयणा एगंतसुहावहा | जयणा ||१५३।। [सम्बोधसप्तति-६७] जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धा-बोहाssसेवणभावेणाराहगो भणिओ ॥ १५४॥ <- - [ उपदेशपदगाथा ७६९-७७०] इति । निशीथभाष्येऽपि अप्पो बंधो जयाणं बहुणिज्जर तेण मोक्खो तु |<- [३३३५] इति प्रोक्तत्वात् विधि-यतनादिपरतायामात्मनः शुद्धिरनाविलेति हार्दम् । इदमेवाभिप्रेत्य पञ्चकल्पभाष्ये • विसुद्ध - भावो सुज्झति णियमा जिणमयंमि - [ १७२२] इत्युक्तम् । निशीथचूर्णौ अपि जयणाए धरेंतस्स जदि दोसा भवंति तहावि सुज्झति, आगमप्रामाण्यात् ← [नि. चू. ४१४८] इत्युक्तम् । ओघनिर्युक्तिप्रमुखेऽपि -> जा जयमाणस्स भवे विराहणा, | सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स । - [ओ.नि.७६० पिं.नि.६७१] इत्युक्तम् । एवं यतनाविरहे | सदोषताऽपि दृष्टव्या जो पुण जतणारहिओ गुणोऽवि दोसायते तस्स - [ ३१८१] इति बृहत्कल्पभाष्यवचनात् । इत्थञ्च प्रकृते द्रव्यस्तवेऽपि वस्तुतोऽनुकम्पैव बोद्धव्या, तदुक्तं पञ्चलिङ्गिकारेणापि અહીં એવી શંકા થઈ શકે છે કે --> ‘પૃથ્વી વગેરે જીવોને પીડા પહોંચાડ્યા વિના તો દેરાસર બનાવવાનું શક્ય જ નથી. અને પૃથ્વી વગેરે જીવોને પીડા પહોંચાડવામાં તો નિયમા હિંસા છે. તેથી જિનાલય નિર્માણ કરાવવાથી ધર્મવૃદ્ધિ કેવી રીતે થાય ?' <- પરંતુ આ શંકાના નિવારણ માટે મૂલકારથી જણાવે છે કે – ગાથાર્થ :- પતનાથી હિંસા લાગતી નથી. આનું કારણ એ છે કે યતના જ હિંસાનિવૃત્તિસ્વરૂપ ફળને આપે છે, કારણ કે યતનાકાલીન હિંસામાં વધુ પડતી હિંસાની નિવૃત્તિ રહેલી છે. જિનભવન શાસ્ત્રવિહિત છે. માટે સદોષ નથી. [૬/૧૬] મેં દેરાસર બનાવવામાં થતી હિંસા નિર્દોષ 8ઈ રીતે ? ) टीडार्थ :- રાગ-દ્વેષ વિનાનો શાસ્ત્રાજ્ઞાથી શુદ્ધ એવો પ્રયત્ન ” યતના છે, કારણ કે આગમમાં જણાવેલ છે કે ‘માયારહિત વ્યક્તિનો રાગ-દ્વેષરહિત યોગ એ જયણા છે'. માટે દેરાસર બનાવવામાં હિંસા છે જ નહિ; કારણ કે યતના હોય ત્યારે ભાવહિંસા ઘટી ન શકે. શાસ્ત્રમાં તો ભાવહિંસાને જ છોડવા યોગ્ય જણાવેલ છે. બાકી દ્રવ્યહિંસા તો સાધુને વિહાર વગેરેમાં પણ સર્વથા છોડવી મુશ્કેલ છે. દ્રવ્યહિંસાને આશ્રયીને મૂલકાર શ્રીમદ્જી જણાવે છે કે - યતના જ હિંસાની - દ્રવ્યહિંસાની નિવૃત્તિને આપનાર છે, કારણ કે યતનાકાલીન હિંસામાં Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240