Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 194
________________ लक्षणोपेतस्य वस्तुनो देवताधिष्ठितत्वम् सप्तमं जिनबिम्बषोडशकम् एवं जिनभवनकारणविधानमभिधाय तद्विम्बस्य कारयितव्यतां सङ्गमयति -> 'जिनेत्यादि । जिनभवने तद्विम्बं कारयितव्यं द्रुतं तु बुद्धिमता । साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद्भवति ॥७/१॥ जिनभवने तस्य = जिनस्य बिम्बं कारयितव्यं द्रुतं तु शीघ्रमेव बुद्धिमता = कार्यक्रमधीशालिना हि = यत एवं = जिनबिम्बकारणे तत् प्रस्तुतं भवनं साधिष्ठानं = अधिष्ठातृसहितं वृद्धिमत् भवति, तज्जजितपुण्यस्य तत्प्रवर्धकत्वात् ॥ ७ / १ || बिम्बकारणविधिमाह -> जिने'त्यादि । = = कल्याणकन्दली -> मूलग्रन्थे दण्डान्वयस्त्वेवम् बुद्धिमता जिनभवने तद्विम्बं द्रुतं तु कारयितव्यम् । एवं हि तत् भवनं साधिष्ठानं| [सत्] वृद्धिमद् भवति ॥ ७ / १ ॥ इयं कारिका धर्मसङ्ग्रहवृत्ति - श्राद्धविधिवृत्त्यादी [ध. सं.गा.६८ श्रा.वि.प्र. ६ पृ. ३६ ] समुद्भूता । मूलकारिकानुसारेण भक्तिद्वात्रिंशिकायां • जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक् तत्र कारयेद् बिम्बं साधिष्ठानं हि वृद्धिमत् ॥ - [ ५/१०] इत्युक्तम् । जिनस्य बिम्बं कारयितव्यमिति । तस्य गुरुधर्मत्वात् यथोक्तं श्रीधनेश्वरसूरिभिः | शत्रुञ्जयमाहात्म्ये मेरोर्गुरुर्गिरिर्नान्यः कल्पद्रोर्नापरो द्रुमः । धर्मो जिनबिम्बानां निर्मापणादपरो गुरुः ॥ ←← [५/ -> -> | ४९७] इति । एवं तस्य शक्रत्व राज्य स्वर्गापवर्गसाधकत्वमपि यथोक्तं आचारोपदेशे चारित्रसुन्दरगणिना -> • अङ्गुष्ठमात्रामपि यः प्रतिमां परमेष्ठिनः । कारयेदाप्य शक्रत्वं स लभेत्परमं पदम् ॥ <- [६/१३] । तदुक्तं शत्रुञ्जयमाहात्म्ये →> • एकाङ्गुलमिदं बिम्बं निर्मापयति योऽर्हतां । एकातपत्रसाम्राज्यं लभेत स भवान्तरे ।। [५ / ४९६] त्रैलोक्यसम्पदस्तेषां किङ्कर्यस्स्युर्गृहाङ्गणे । | निर्मापितानि बिम्बानि यैर्जिनानां गुरूक्तिभिः || ५ / ४९९ ] <- इति । तदुक्तं उपदेशसारे उपदेशतरङ्गिण्यां [२/५/पृ.१३१] च अङ्गुष्ठमानमपि यः प्रकरोति बिम्बं वीरावसानवृषभादिजिनेश्वराणाम् । स्वर्गे प्रधानविपुलर्द्धिसुखानि भुक्त्वा पश्चादनुत्तरगतिं समुपैति धीरः || ३५ ॥ - इति । यथोक्तमन्यत्रापि राग-द्वेष- मोहजितां प्रतिमां श्रीमदर्हताम् । यः कारयेत्तस्य हि स्यात् धर्मः स्वर्गापवर्गदः ॥ [ ] इति । अन्यत्रापि -> अङ्गुष्ठमात्रापि जिनेन्द्रमूर्त्तिः कारापिताऽनन्तशुभावहा हि । | चिन्तामणिः किं न किलाल्पकोऽपि सञ्चिन्तितं यच्छति वस्तुजातम् ॥ - [ ] इत्युक्तम् । जिनप्रतिमातो बोधिलाभोऽपि | सञ्जायते । तदुक्तं कुमारनन्दिदेवं प्रति नागिल श्रावकदेवेन -> • बोहिणिमित्तं जिणपडिमा अवतारणं करेहि . <— [नि.भा.३१८३ भाग. ३ पृ. १४१] इति व्यक्तं निशीथचूर्णी । अत एव ललितविस्तरायामपि कारयितव्या भगवत्प्रतिमाः - - [पृ. ११७] इत्युक्तम् । नित्यं पूज्यमानजिनबिम्बात् तन्निर्मापकस्य पुण्यसिद्धेः, यदुक्तं →> - पूइज्जइ जिणपडिमा निचं भावेहिं जेहिं कारविया । बढेइ तेसिं पुत्रं कलंतरेणेव धननिवहो ॥ - [ ] इति । जिनबिम्बविधापनात् परत्राऽपि सुलभबोधित्वादिसिद्धेः, तदुक्तं - -> 'जो कारवेइ पडिमं जिणाणं, जिअरागदोसमोहाणं । सो पावर अन्नभवे, सुहजम्मं [भवमहणं] धम्मवररयणं ॥ दारिद्दं दोहग्गं कुजाति-कुसरीर - कुमइ - कुगईओ । अवमाण-रोग-सोगा न हुंति जिणबिंबकारीणं ॥ <- [ ] इत्यादि । अन्यत्रापि -> न यान्ति दास्यं न दरिद्रभावं न प्रेष्यतां नैव च हीनभावम् । न चापि वैकल्यमिहेन्द्रियाणां ये कारयन्तीह जिनस्य बिम्बम् ॥ - [ ] इत्युक्तम् । प्रकृतोपयोगि मुख्यहेतुमाह -> भवनं अधिष्ठातृसहितं स्वनायकाधिष्ठितत्वेनैव सप्रभावं सत् तत् वृद्धिमत् भवतीति । तज्जनितपुण्यस्य विहितजिनबिम्बाधिष्ठानोत्पन्नस्य शुभकर्मणः तत्प्रवर्धकत्वात् = जिनभवने प्रवृद्धिकारकत्वात् । जिनबिम्बाsकारणे तु जिनगृहं व्यन्तरादिभिरधिष्ठीयेत यथोक्तं राज्यं भोज्यं च शय्या च वरवेश्म वराङ्गना । धनं चैतानि शून्यत्वेsधिष्ठीयन्ते ध्रुवं परैः ॥ <- [ ] इति । व्यवहारभाष्येऽपि सव्वं च लक्खणोवेयं समहिठंति देवया - [७ / १८६] →>> = १६१ * रतिहायिनी આ રીતે ૬ઠ્ઠા ષોડશકમાં જિનાલય બનાવવાનું વિધાન કરીને ‘જિનબિંબ કરાવવા યોગ્ય છે' આ વાતને મૂલકારશ્રી જોડે છે. ગાથાર્થ :- બુદ્ધિમાને જિનમંદિરમાં જિનિબંબ ઝડપથી કરાવવું જોઈએ. કારણ કે આ રીતે જિનમંદિર અધિષ્ઠિત થઈને वृद्धिवाणु जने छे. [७/१] रासरमां भिनप्रतिभा तरत पधराववी BE ટીડાર્થ :- દેરાસરસંલગ્ન કાર્યના ક્રમ સંબંધી બુદ્ધિ ધરાવનાર શ્રાવકે દેરાસરમાં જિનબિંબ તુરત જ બનાવવું જોઈએ. કારણ કે આ રીતે જિનબિંબ કરાવવામાં આવે તો પ્રસ્તુત દેરાસર અધિષ્ઠિત = માલિકયુક્ત બનીને વૃદ્ધિ પામે છે, કારણ કે જિનમંદિરને For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240