Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 205
________________ १७२ सप्तमं षोडशकम् 88 ॐकारस्वरूपविचारः 888 मन्त्रन्यासश्च तथा प्रणवनम: पूर्वकं च तत्राम । मन्त्रः परमो ज्ञेयो मननत्राणे ह्यतो नियमात् ॥७/११॥ तथा कारयितव्यतयाऽभिप्रेते जिनबिम्बे मन्त्रन्यासश्च विधेयः । 'कः पुनः स्वरूपेण मन्त्रः ?' इत्याह प्रणवः ॐ कारो जमः शब्दश्च तौ पूर्वौ = आदी यस्य तत् तथा तन्नाम् = क्रियमाणबिम्बर्षभादिनाम मन्त्रः परमः = प्रधान: ज्ञेय:, हि = यतः अतः = 'प्रणवनम: पूर्वकजिननाम्जो नियमात् = निश्चयात् 'मननत्राणे = ज्ञान-रक्षणे कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् → तथा च मन्त्रन्यासः । प्रणवनम: पूर्वकं च तन्नाम परमो मन्त्रो ज्ञेयः, हि अतो नियमात् मनन- त्राणे ॥७/ ११ ॥ इयं कारिका धर्मसङ्ग्रहवृत्ति-भक्तिद्वात्रिंशिकावृत्ति - प्रतिमाशतकवृत्त्यादी [ध. सं. गा. ६८ / द्वा. द्वा. ५ / २४ / प्र.श.गा. ३४ पृ. २२२ ] समुद्धृता वर्तते । -> प्रणवः = ॐकारः, स च परमेष्ठिनः वाचकः । योगनये तु स ईश्वरस्य वाचक:, यथोक्तं पातञ्जलयोगसूत्रे तस्य वाचकः प्रणवः - - [१ / २७] | छान्दोग्योपनिपदि 1 - 'ओमित्येतदक्षरमुद्गीथमुपासित - [१/१/१] इति गदितम् । | नृसिंहपूर्वतापिनीयोपनिपदि च यः प्रणवमधीते स सर्वमधी <- [५] इत्युक्तम् । -> प्रणवनम: पूर्वकं च तन्नामेति । यथोक्तं भक्तिद्वात्रिंशिकायां -> मन्त्रन्यासोऽर्हतो नाम्ना स्वाहान्तः प्रणवादिकः | <- [५ / १४] इति । तथा च ॐ नमः ऋषभाय - इति मन्त्रः फलितः । एतेन स्वाहा स्वधाऽन्यतरस्यैव मन्त्रत्वमित्येकान्तोऽपि निरस्तः, प्रणवस्य मन्त्रत्वाऽनुपगमे → जपंश्च प्रणवं नित्यं ← [ ] इति स्मृत्यनुपपत्तेः । एवं नमः पदस्याऽपि मन्त्रत्वात् । तदेव समर्थयति -> • प्रणवनम: पूर्वजिननाम्नः = ‘ॐ नमः ऋषभाय' इत्यादिस्वरूपात् । न च प्रवणपूर्वकत्वेन मन्त्रन्यासे तस्यैहिकफलकत्वमेव स्यात् प्राधान्येन, न तु मोक्षफलकत्वं मन्त्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुभिः । ध्येयः | प्रणवहीनस्तु निर्वाणफलकाङ्क्षिभिः ॥ <- - [८ /७१] इति योगशास्त्रे हेमचन्द्राचार्यैरुक्तत्वादिति वाच्यम्, तस्य स्वातन्त्र्येण | मन्त्रजपादिफलप्रतिपादकत्वात् इह तु बिम्बकारणविधिरूपतया प्रणवोपादानेऽपि न मोक्षाकाङ्क्षाक्षतिरिति ध्येयम् । निश्वयात् मनन- त्राणे भवतः, तस्य श्रेष्ठालम्बनत्वात्, यदुक्तं कठोपनिपदि -> एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् |<- [१/२/१७] । यथेप्सितदानादपि ततः रक्षणमपि सुलभम्, -> एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ <- [१/२/१६] इति कठोपनिषद्वचनमप्यत्र संवदति । नारदपरिव्राजकोपनिपदि ओमिति ब्रह्म, ओमित्येकाक्षरमन्तः प्रणवं विद्धि - [ ८ / २] इत्युक्तम् । प्रणवोपनिपदि अपि -> ओमित्येकाक्षरं ब्रह्म |<- [२] इत्युक्तम् । ध्यानबिन्दूपनिषदि अपि → ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वैर्मुमुक्षुभिः <- [९] इत्युक्तम् । तद्व्युत्पत्तिस्तु अथर्वशिरउपनिपदि → अथ कस्मादुच्यते ओङ्कारः ? यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः <- [४] इत्येवमुक्ता । प्रणवव्युत्पत्तिस्तु -> सर्वान् प्राणान् प्रणामयति नामयति चैतस्मात्प्रणवः < [२] इत्येवं अथर्वशिखोपनिपदि दर्शिता । राजमार्तण्डकारस्तु प्रकर्षेण नूयते स्तूयतेऽनेनेति नौति स्तौतीति वा प्रणत्र ओङ्कारः <- [यो.सू.१/२७ पृ.३४ वृ.] इत्याह । बृहद्योगियाज्ञवल्क्यस्मृतौ च -→ > अदृष्टविग्रहो देवो भावग्राह्यो मनोमयः । तस्यौङ्कारः -> < -> પોતાનું ધન વગેરે તે શ્રાવકના ધનમાં ભેળવી દે અથવા અજાણતાથી બીજાનું ધન દેરાસરકારક થાવકના ધનમાં આવી ગયું હોય તો પણ પોતાનો તેવો મિલન આશય ન હોવાથી દેરાસર બનાવનાર ઉપયોગવંત શ્રાવકને પરદ્રવ્યભક્ષણ વગેરે દોષ લાગતો નથી. છતાં પોતાના ધનમાં આવી ગયેલ પરદ્રવ્યથી પોતે પુણ્ય કમાઈ લેવાનો અને તેનાથી અમાનસમાન માનપાન મેળવી લેવાની ઈચ્છા ન રાખવાના લીધે ન્યાયોપાર્જિત ધન સર્વશે શુદ્ધ થાય છે. [૭/૧૦] = જિનબિંબ કરાવવાની બાકીની વિધિને જણાવતા મૂલકારથી કહે છે કે गाथार्थ :- तथा मंत्रन्यास वो आागव जी = ॐ अने 'नमः' पूर्व भगवाननुं नाम ते प्रधान મંત્ર જાણવો, કારણ કે તેનાથી નિયમા મનન અને રક્ષણ થાય છે. [૭/૧૧] જિનબિંબમાં મંત્રાસ Jain Education International - ટીડાર્થ :- શિલ્પી દ્વારા કરાવવા રૂપે અભિપ્રેત જિનબિંબમાં મંત્રન્યાસ કરવો જોઈએ. ‘મંત્રનું સ્વરૂપ શું છે ?' આ પ્રશ્નના સમાધાન માટે શ્રીમદ્જી કહે છે-તે મંત્રના પ્રારંભમાં પ્રણવબીજ = ॐर अने 'नमः' ७६ ते जेनी प्रतिमा वामां | आपी छे ते तीर्थकुरनुं पल वगेरे नाम ते मंत्रमां रडेल होय छे [अर्थात् 'ॐ नमः ऋपभाय' आयो मंत्रन्यास ऋपलहेव १. 'प्रणवनम: पूर्वजिननाम्नः' इति मुद्रितप्रती पाठ: । २ मुद्रितप्रती 'मननत्राणे = ज्ञानरक्षणे भवत:' इति पाठो नास्ति । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240