________________
१५६ षष्ठं षोडशकम्
8 यतनागर्भप्रवृत्तौ धर्मपरिणामस्फुरणम्
यतला = रागद्वेषरहितः शास्त्राऽऽज्ञाशुद्धः प्रयत्नः, 'रागद्दोसविउत्तो जोगो असदस्स होइ जयणाओ' (जि.भा. ६६९६) इत्यागमात् । ततो न च = जैव हिंसा, जिनभवनविधाने यतनायां सत्यां भावहिंसाऽनुपपत्तेः । तस्या एव शास्त्रे | परिहर्तव्यत्वेन प्रतिपादनात् द्रव्यहिंसायास्तु सर्वथा साधुविहारादावपि दुःपरिहरत्वात् । द्रव्यहिंसामप्याश्रित्याह
कल्याणकन्दली
'यतना' इति विधेयनिर्देशः, उद्देश्यमाह - रागद्वेपरहितः = राग-द्वेषाऽप्रयुक्तः शास्त्राज्ञाशुद्धः
समुचितोत्सर्गापवाद
| स्थानीयविधिनिषेधानुसारिपरिणामप्रयुक्तशुद्धिपरिपुष्टः प्रयत्नः । ततश्च न रागादियुक्ते छद्मस्थमात्रवृत्तिप्रयत्नविशेषे यतनात्वेनाऽभि| मतेऽव्याप्तिः रागाद्यप्रयुक्तत्वात्, न वा परस्थानीयोत्सर्गादिप्रवृत्तिजनके प्रयत्नेऽतिव्याप्तिः शास्त्राज्ञाशुद्धत्वाभावात् । स्वामिकृतया | स्वरूपप्रयुक्तया च शुद्धया युक्ता इयं हि बहुतरासत्प्रवृत्तिविनिवृत्तिसाधन्येव, अन्यथा तत्त्वहानेः । साम्प्रतं निशीथभाष्ये -> रागद्दोसविउत्तो जोगो असदस्स होति जयणा उ । रागद्दोसाणुगतो जो जोगो सा अजयणा उ || ६६९६ || <- इत्येवं गाथोपलभ्यते ।
<
ततो जिनभवनविधाने नैव हिंसा = भावहिंसा सम्भवति, यतनायां सत्यां भावहिंसाऽनुपपत्तेः प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' [ तत्त्वा. सू. ७/८ ] इति निश्चयनयानुगृहीतव्यवहारनयसम्मतस्य भावहिंसालक्षणस्य विरहात्, परिशुद्धाज्ञायोगेन | प्रमादप्रच्यवात् विशेषणाभावप्रयुक्तविशिष्टाभावसाम्राज्यात् । 'सविशेषणौ हि विधि - निषेधौ विशेषणमुपसङ्क्रामत' इत्यादिन्यायेन | शुद्धनिश्चयनयसम्मतायाः प्रमादस्वरूपहिंसाया विरहस्तु स्पष्ट एव । अत्र व्यवहारतः परिणतोदकग्रहणादिरूपायां [प्र.श. वृ. पृ. ३८२ ] | | यतनायां सत्यां भावहिंसानुपपत्तेः = परिभाषान्तरेण हेत्वनुबन्धहिंसाऽसम्भवात्, यतनया तत्स्वरूपप्रच्यवात् । एतेन जिनभवनकारणे हिंसांशेन दूषणमित्यपि प्रत्याख्यातम्, भावपाणातिवाएण य जहा घणं कम्मं चिज्जति, ण तहा दव्वपाणातिवाएण - [ उद्दे. १५- भा. ३ - पृ. ५००] इति निशीथचूर्णिवचनेन स्वरूपहिंसायां दोषस्याऽबलवत्त्वात् उद्देश्यफलसाधनतयाऽनुबन्धतोऽदोष| त्वाद्वा । यथोक्तं प्रतिमाशतके गर्तादङ्गविघर्षणैरपि सुतं मातुर्यथाऽहेर्मुखात् कर्षन्त्या न हि दूषणं ननु तथा दुःखानलार्चिर्भृतात् । संसारादपि कर्षतो बहुजनान् द्रव्यस्तवोद्योगिनस्तीर्थस्फातिकृतो न किञ्चन मतं हिंसांशतो दूषणम् ||३८|| - इति । एतेन प्रथमजिनेन्द्रस्य विवाह-शिल्पादिनिरूपणस्य सदोषताऽपि प्रत्यस्ता, अधिकदोषेभ्यः सत्त्वानां रक्षणात्, यथोक्तं स्तवपरिज्ञायां -> एत्तो च्चिय गिद्दो सिपाइविहाणमो जिनिंदस्स । लेसेण सदोपि हु बहुदोसनिवारणत्तेत्ति ॥ [ १५७] इति । अल्पबाधया बहूनामुपकारादनुकम्पोपपत्तिः' ← [] इति । यथोक्तं स्तवपरिज्ञायां अप्पा य होइ एसा एत्थ जयणाई वट्टमाणस्स । जयगाउ धम्मसारो विन्नेया सव्वकज्जेसु || १५२ || जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तब्बुढिकरी जयणा एगंतसुहावहा | जयणा ||१५३।। [सम्बोधसप्तति-६७] जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धा-बोहाssसेवणभावेणाराहगो भणिओ ॥ १५४॥ <- - [ उपदेशपदगाथा ७६९-७७०] इति । निशीथभाष्येऽपि अप्पो बंधो जयाणं बहुणिज्जर तेण मोक्खो तु |<- [३३३५] इति प्रोक्तत्वात् विधि-यतनादिपरतायामात्मनः शुद्धिरनाविलेति हार्दम् । इदमेवाभिप्रेत्य पञ्चकल्पभाष्ये • विसुद्ध - भावो सुज्झति णियमा जिणमयंमि - [ १७२२] इत्युक्तम् । निशीथचूर्णौ अपि जयणाए धरेंतस्स जदि दोसा भवंति तहावि सुज्झति, आगमप्रामाण्यात् ← [नि. चू. ४१४८] इत्युक्तम् । ओघनिर्युक्तिप्रमुखेऽपि -> जा जयमाणस्स भवे विराहणा, | सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स । - [ओ.नि.७६० पिं.नि.६७१] इत्युक्तम् । एवं यतनाविरहे | सदोषताऽपि दृष्टव्या जो पुण जतणारहिओ गुणोऽवि दोसायते तस्स - [ ३१८१] इति बृहत्कल्पभाष्यवचनात् ।
इत्थञ्च प्रकृते द्रव्यस्तवेऽपि वस्तुतोऽनुकम्पैव बोद्धव्या, तदुक्तं पञ्चलिङ्गिकारेणापि
અહીં એવી શંકા થઈ શકે છે કે --> ‘પૃથ્વી વગેરે જીવોને પીડા પહોંચાડ્યા વિના તો દેરાસર બનાવવાનું શક્ય જ નથી. અને પૃથ્વી વગેરે જીવોને પીડા પહોંચાડવામાં તો નિયમા હિંસા છે. તેથી જિનાલય નિર્માણ કરાવવાથી ધર્મવૃદ્ધિ કેવી રીતે થાય ?' <- પરંતુ આ શંકાના નિવારણ માટે મૂલકારથી જણાવે છે કે –
ગાથાર્થ :- પતનાથી હિંસા લાગતી નથી. આનું કારણ એ છે કે યતના જ હિંસાનિવૃત્તિસ્વરૂપ ફળને આપે છે, કારણ કે યતનાકાલીન હિંસામાં વધુ પડતી હિંસાની નિવૃત્તિ રહેલી છે. જિનભવન શાસ્ત્રવિહિત છે. માટે સદોષ નથી. [૬/૧૬]
મેં દેરાસર બનાવવામાં થતી હિંસા
નિર્દોષ 8ઈ રીતે ? )
टीडार्थ :- રાગ-દ્વેષ વિનાનો શાસ્ત્રાજ્ઞાથી શુદ્ધ એવો પ્રયત્ન ” યતના છે, કારણ કે આગમમાં જણાવેલ છે કે ‘માયારહિત વ્યક્તિનો રાગ-દ્વેષરહિત યોગ એ જયણા છે'. માટે દેરાસર બનાવવામાં હિંસા છે જ નહિ; કારણ કે યતના હોય ત્યારે ભાવહિંસા ઘટી ન શકે. શાસ્ત્રમાં તો ભાવહિંસાને જ છોડવા યોગ્ય જણાવેલ છે. બાકી દ્રવ્યહિંસા તો સાધુને વિહાર વગેરેમાં પણ સર્વથા છોડવી મુશ્કેલ છે. દ્રવ્યહિંસાને આશ્રયીને મૂલકાર શ્રીમદ્જી જણાવે છે કે - યતના જ હિંસાની - દ્રવ્યહિંસાની નિવૃત્તિને આપનાર છે, કારણ કે યતનાકાલીન હિંસામાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org