________________
888 सामायिकादिना जिनपूजाया अनन्यथासिद्धता 88 यस्माद् एषैव = यतनैव तन्निवृत्तिफला = हिंसानिवृत्तिफला । 'कथं ? इति चेत् तस्यां = हिंसायां अधिकनिवृत्तेः। = अधिकारम्भत्यागस्य भावात् । तत्र हि जिनभवनादिविधाने सर्वादरेण प्रवर्तमानस्य निष्फलपरिहारेण सफलमेव कुर्वतोऽवश्यमेवास्त्यारम्भान्तरजिवृत्तिविशेषः । विहितं शास्त्रे जिजभवनं अतो हेतोः अदुष्टं = अदोषवत् एतत् जिनभवनविधानमिति । विहितत्वादेव न निरारम्भसामायिकादिजा एतदन्यथासिद्धिः, एकानुष्ठानस्य विहिता
= कल्याणकन्दली - यतनायां सत्यां भावहिंसा न भवति, यस्मात् कारणात् यतनैव नियमात् हिंसानिवृत्तिफला, यतः हिंसायां अधिकारम्भत्यागस्य भावात् । अत एवानुबन्धतो निवृत्तिप्रधानैषा, तदुक्तं मूलकारैरेव उपदेशपदे --> जीए बहुयतरासप्पवित्तिविणिवित्तिलक्खणं वत्थु सिज्झति - [७७१]। यथोक्तं स्तवपरिज्ञायां > एसा य होइ णियमा तयहिगदोसणिवारिणी जेण । तेण णिवित्तिपहाणा विनेया बुद्धिमंतेणं ॥१५५॥ सा इह परिणयजल-दलविसुद्धरूवा उ होइ विण्णेया । अत्थव्वओ महंतो सन्चो सो धम्महेउत्ति ।।१५६।। निवित्तिपहाणा, विष्णेया भावओ अहिंसेयं । जयणावओ उ विहिणा पूजादिगयावि एमेव ।।१६१।। पंचा.७/४२] अहिगणिवित्ति वि इहं भावेणाहिगरणा णिवित्तीओ । तदसणसहजोगा गणंतरं तीइ परिसद्धं ॥१६६।। ता एयगया चेवं हिंसा गुणकारिणित्ति विनेया । तह भणियणायओ च्चिय एसा अप्पेह जयणा ||१६७|| - इति । यथोक्तं पञ्चाशकेऽपि -> एवं च होइ एसा पवित्तिरूवावि भावतो णवरं । अकुसलणिवित्तिरूवा, अप्पबहुविसेसभावेणं ।।[७/३४] - इति । शास्त्रे जिनभवनं श्राद्धानां विहितम् । अतो हेतो अदोषवत् जिनभवनविधानम्, सर्वज्ञवचनतः प्रवृत्तेः । यथोक्तं स्तवपरिज्ञायां -> तह संभवंतरूवं सञ्चं सवण्णुवयणओ एयं । तं णिच्छियं हि आगमपउत्तगुरुसंपदाएहि ॥१६८।।
- इति । तत्त्वार्थकारिकायामपि --> अभ्यर्चनादर्हतां मनःप्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयसमतो हि तत्यूजनं न्याय्यम् ।।८।। - इत्युक्तम् । विहितत्वादेव न निरारम्भसामायिकादिना एतदन्यथासिद्धिः = जिनभवनविधानादेः चरितार्थता, विहितत्वप्रका-रकज्ञानसाध्यस्य तस्यैव भावस्तवहेतुत्वात्। यधोक्तं स्तवपरिज्ञायां -> विहियाणुट्ठाणमिणंति एवमेयं सया करेंताण । होइ चरणस्स हेऊ, णो इहलोगादवेक्खा ॥३४|- [पंचा.६/४] इति । न च विहितत्वेऽपि न तस्येष्टत्वमिति | वाच्यम्, बदतो व्याघातात्, प्रत्युत तस्याऽनिष्टत्वे निषिद्धत्वमेव स्यात् । न चैतदेवम्, यथोक्तं स्तवपरिज्ञायां > जिणभवणकारणाइवि भरहादीणं ण वारितं तेण । जह तेसिं चिय कामा सल्लविसादीहि णाएहिं ।। ता तंपि अणुमयं चिय अप्पडिसेहाउ तंतजुत्तीए - [पंचा.६/३५-३६ स्त.परि.१०८/१०९] इति । एकानुष्ठानस्य = विहितैकानुष्ठानस्य विहितान्यानपवादकत्वात् = विधिबोधितकर्तव्यताक-सदनुष्ठानान्तराऽबाधकत्वात् । एतेन -> एकादरेण तदितरानादरोऽपि - प्रत्याख्यातः । न हि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषोऽस्ति, यदेकमादरणीयम्, अन्यत्तु नेति [१४/९-पृ.३२६] इति वक्ष्यत्यग्रे योगदीपिकाकारः । अत एव -> जोगो जोगो जिणसासणंमि दक्खक्खया पउंजंतो । अन्नुन्नमबाहा, असवत्तो होइ कायञ्चो ।।१७८।। - इत्युक्तं ओघनिर्युक्ती ।
एतेन जिनपूजाया: सामायिकादिनाऽन्यथासिद्धिरपि प्रत्युक्ता, यतिधर्मप्रतिपत्त्यसहिष्णोः कर्तव्यतयाऽर्हत्पूजनोपदेशात् । तदुक्तं पुष्पमालायां > पुबुत्तगुणसमग्गं धरिउं जइ तरसि नेय चारित्तं । सावयधम्ममि दढो हविज जिणपूयणुजुत्तो ॥४६६।। <- इति । पञ्चाशके -> ता णियविहवणुरूवं विसिहपुप्फाइएहि जिणपूआ । कायब्वा बुद्धिमया तम्मी बहुमाणसारा य ।।
-[४/२८] एवं प्रोक्तम् । मूलकारैरेव सम्बोधप्रकरणे -> आरंभपसत्ताणं गिहीण छज्जीववहाऽविरयाणं । भवअडवीनिवडियाणं दब्वत्थओ चेव आलंबो ।। - [२१३] इत्युक्तम् । कथारत्नकोशेऽपि -> पुप्फाई दश्वत्थयमकुणंतो कह गिही हवइ जोगो । भावत्थयस्स ? ता पढमभूमिगाए जइज्ज इहं ।। -[प्र.९८/गा.११] इत्युक्तम् । ललितविस्तरायामपि → कर्तव्योदारपूजा भगवतां <- [पृ.११७] इत्युक्तम् । तदुक्तं उमास्वातिवाचकैरपि श्रावकप्रज्ञप्ती → तीत्थंकरभत्तीए सुसाहु-जणपज्जुवासणाए य । उत्तरगुणसद्धाए अपमाओ होइ कायब्वो ॥१०५।। - इति । किञ्च सामायिकादिना जिनपूजाया इव तया तस्याऽप्यन्यथा
--
મોટા આરંભનો ત્યાગ રહેલો છે. દેરાસર વગેરે બનાવવામાં સંપૂર્ણ આદરથી પ્રવર્તમાન થાવક નિષ્ફળા-નિપ્રયોજન આરંભને છોડીને સફળસપ્રયોજન - દેરાસર વગેરે બનાવવામાં જરૂરી દ્રવ્યહિંસાને જ કરે છે. માટે અન્ય આરંભની-હિંસાની વિશેષ પ્રકારે નિવૃત્તિ થાવકને ચોક્કસ રહેલી જ છે. શાસ્ત્રમાં દેરાસર બનાવવાનું શ્રાવકને ઉદ્દેશીને વિધાન છે. આ હેતુથી જ દેરાસર બનાવવું એ શ્રાવકને માટે નિર્દોષ જ છે. અહીં એવી શંકા થાય કે – દ્રવ્યહિંસાગર્ભિત જિનાલયની આરંભરહિત સામાયિક વગેરે દ્વારા અન્યથાસિદ્ધિ થઈ જશે. અર્થાત્ આરંભશૂન્ય સામાયિક વગેરેથી હિંસાગર્ભિત દેરાસર ઉપક્ષીણ = ચરિતાર્થ = અન્યથાસિદ્ધ = નિપ્રયોજન - અનાવશ્યક = નિરુપયોગી બની જશે.
– તો તે અનુચિત હોવાનું કારણ એ છે કે સામાયિક વગેરેની જેમ જિનાલય પણ શ્રાવકને માટે શાવિહિત છે. શાસ્ત્રવિહિત એક અનુમાન એ શાસ્ત્રવિહિત અન્ય અનુષ્ઠાનનો નિષેધ નથી કરી શકતું. [શાસ્ત્રવિહિત સર્વ અનુમાનો પોતપોતાની મર્યાદામાં બળવાન જ છે. તેઓ એક
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org