________________
१५३
8 चैत्याययनपदलक्षणाविचार: 808 एवं = उवतन्यायेन ज्ञेयं इदं = जिनभवनं शीर्णोद्धारद्वारेण अजेकपुरुषसन्ताजाश्रितोपकारफलस्याऽवन्ध्यत्वात् वंशस्य सकलस्यैव तरकाण्डं = तरणकाष्ठं, एवं हि कुर्वता सकलोऽपि भाविपुरुषप्रवाह: संसारान्निस्तारितो भवति
कल्याणकन्दली - निर्माप्यते । श्रीहरिभद्राचार्याभिप्रायेणापि नात्र कश्चिद्विरोधोऽवतरति । आर्यायामस्यां "तिष्ठन्ति ते यथा च तथा कार्यम्" इत्यस्यैव तावत्तः प्रतिपादितत्वात् । निर्मापयिता गृहस्थ एव स्वीयां सुविधामवलोक्य तदनुसारेण वसतिकां व्याख्यानशाला च जिनायतनसमीपस्थां तद्रस्थां वा निर्मापयेदित्यत्र तस्य स्वेच्छैव बलीयसी । शास्त्रे तु एतावन्मात्रमेवोक्तं यत् तेन सद्गृहस्थेनावश्यं मुनिवसतिका व्याख्यानशाला च निर्मापणीयेति । अन्यथा मुनीनामनागमत: सद्धर्मोपदेशालाभेन धर्माधर्मापरिज्ञानतः स्वयं लब्धमपि मानुष्यं जन्म निष्फलं भवेत् । धर्मविमर्शशून्या स्वजातिः धर्मज्ञानविवर्जितश्च स्ववंशोऽपि जायेत। अतो यत्र जिनालयसद्भावस्तत्र मुनीनामागमनमपि भवत्येव । अतस्तान् वस्तुं वसतिका तन्मुखारविन्दाच्च व्याख्यानश्रवणार्थं व्याख्यानशालाऽवश्यमेव निर्मापणीया । - इति वदन्ति ।
अधुनातना: श्रीराजशेखरसूरयस्तु --> पूर्वकाले चैत्यनिर्माणावसरे श्रावका: साध्ववस्थानाय स्वपौषधाद्यनुष्ठानार्थश्च जिनालयसंलग्नं तत्प्रतिबद्धं तत्समीपतरवर्ति वा श्रमणालयं निर्मापयन्ति स्म यदत्र आयतनपदात् चैत्यायतनपदाच्च व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायेन प्रतिपाद्यते । एतेन जिनगृहे कथं साधूनामवस्थानं कल्पते ? इति शङ्का परिहृता, 'गङ्गायां घोष' इतिवत् आयतनपदस्य चैत्यसम्बन्धिनि श्रमणायतने लक्षणामङ्गीकृत्य 'साधवः सबालवृद्धाः तत्राऽऽयतने = चैत्यायतनसम्बन्धिनि श्रमणायतने तिष्ठन्ति' इत्यस्याऽप्यर्थस्य सम्भवाच्चेति प्राहः । एतेन -> साधू चेइए वा पोसहं उवासेंतो उवासगो भवइ -[उद्दे.१४-भाग.३-पृ.४७३] इति निशीथचूर्णिवचनमपि व्याख्यातम. चैत्यसंलग्न-पौषधायतनोपभोगेन साधर्मिकोपष्टम्भसम्भवात् । -> चउसु ठाणेसु निअमा कायव्वं तं जहा [१] चेइयघरे [२] साहुमूले [३] घरे वा [४] पोसहसालाए वा आवस्सगं करितो त्ति -[] इति आवश्यकचूर्णिवचनमप्यत्रानुसन्धेयम् । चैत्यविरहे साध्यागमाभावात् तादृशक्षेने श्रावकाणामपि स्थातुं न कल्पते, तदुक्तं श्रावकप्रज्ञप्तौ श्वेताम्बरशिरोमणिभिः उमास्वातिवाचकैः -> निवसिज्ज तत्थ सड्ढो साहूणं जत्थ होइ संपाओ । चेइयघराइ जत्थ य तयन्नसाहम्मिया चेव ॥३३९।। - इति । श्रावकधर्मविधी मूलकारैरपि → निवसिज्ज तत्थ सड्ढो साहूणं जत्थ होइ संपाओ । चेइयहराइँ य जम्मि तयन्नसाहम्मिया चेव ।।१११।। - इत्युक्तम् । श्रावकाष्टकेऽपि
> तत्र धाम्नि निवसेद् गृहमेधी संश्रयन्ति खलु यत्र मुनीन्द्राः । यत्र चैत्यगृहमस्ति जिनानां श्रावकाः परिवसन्ति च यत्र ।। - [४] इत्युक्तम् । आत्मप्रबोधेऽपि -> न चैत्यसाधर्मिकसाधुयोगो यत्रास्ति तद्ग्रामपुरादिकेषु । युतेष्वपि प्राज्यगुणैः परैश्च कदापि न श्राद्धजना बसन्ति ।। - [७५/२०] इत्युक्तम् ।
शीर्णोद्धारद्वारेण इति । जीर्ण-शीर्णजिनभवनोद्धारेण स्वात्मोद्धारः कृतो भवति । तदुक्तं श्राद्धदिनकृत्ये > जिणभवणाई जे उद्धरंति भत्तीइ सडियपडियाई । ते उद्धरंति अप्पाणं भीमाओ भवसमुद्दाओ ।। - [१००] इति । > जिन्नं विहडियसंधिं निन्नधयं च चेइयं दटुं । तमुवेक्खिऊण अन्नं कुसलेण न जुज्जए काउं । इहरा मग्गुच्छेओ न माणविजओ जिणे य न य भत्ती । तम्हा सय सामत्थे तमुद्धरंतो वरं कुज्जा ।। - [प्र.६७/गा.१२/१३] इति कथारत्नकोशगाथे प्रकृते दृढमवधेये । उपदेशतरङ्गिण्यां श्रीरत्नमन्दिरगणिभिरपि -> जीर्णोद्धारः कृतो येन विभवेन सुचारुणा । जिनाज्ञा पालिता तेन क्लेशकूपारपारदा ।। - [तरङ्ग.२/पृ.१०८] इत्युक्तम् । नवीनजिनालयनिर्मापणादप्यष्टगुणं फलं जीणोद्धारे स्यात्, यदक्तं धनेश्वरसूरिभिः शत्रुञ्जयमाहात्म्ये -> नूतनाहदरावासविधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं जीर्णोद्धारे विवेकिनाम् ॥[श.मा.५/४९२उपदेशतरङ्गिण्यां-तरङ्ग-२ पृ.१०६] इति । तरणकाष्ठमिति । जिनभवनवत् जिनपूजाया अपि तरणकाष्ठत्वमवसेयम् । यथोक्तं पूजाविंशिकायां -> तम्हा जिणाण पूया बुहेण सव्वायरेण कायव्वा । परमं तरंडमेसा जम्हा संसारजलहिम्मि ॥१९।।
निस्तारितो भवति, -> 'मलिनारम्भानुबन्धस्य छिदा जिनप्रासादात्' इति कर्तव्यताऽनुसन्धाने सदारम्भाध्यवसायस्यैव प्राधान्यादितरस्याऽऽनुषङ्गिकत्वात्, तत्प्रवाहप्रवृत्त्यैव वंशतरणोपपत्तेः - [प्र.श.गा.३१ पृ.२१३] इति व्यक्तं प्रतिमाशतकवृत्तौ । अनुमोदनात् निजवंशस्येवान्येषामप्युद्धारस्स्याद्, यधोक्तं श्राद्धदिनकृत्ये -> अप्पा उद्धरिओ चिअ उद्धरिओ तह य तेहि निअवंसो । अन्ने अ भव्वसत्ता, अणुमोअंता उ जिणभवणं ॥१०१।। खविअं नीआगोअं उच्चागोअं च बंधिअं तेहिं । कुगइपहो निट्ठविओ सुगइपहो अज्जिओ तेण ॥१०२।। - इति । एतेन -> धर्मः श्रुतोऽपि दृष्टोऽपि कृतो वा कारितोऽपि वा । अनुमोदितोऽपि नियतं पुनात्यासप्तमं कुलं ।। - [८] इति आचारोपदेशकृतः चारित्रसुन्दरगणिनो वचनमपि व्याख्यातम, ફળ અવંધ્ય = અમોઘ છે. આ રીતે દેરાસર બનાવતા ગૃહસ્થ પોતાના બધાય વંશના પ્રવાહને સંસારથી તારી દીધેલ થાય છે. પોતાના
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org