________________
१५२ षष्ठं षोडशकम्
88 प्राचीनकालीनसाधुवसतिव्यवस्थोपदर्शनम् 88 एतद्गुणमन्तरेण तु क्षेत्रान्तरमाश्रयणीयं स्यात्. तेजासौ लोकोत्तरतत्त्वसम्प्राप्तिव्यवस्थितो गृही देश-कालाद्यपेक्षया साध्ववस्थानायैव सर्वमेवं विधत्ते ।
कल्याणकन्दली ताव तत्थ अणुन्नायं कारणेण परेण वि || - व्य.भा.उद्दे.९ गा.७०/७१/७२/७३] इति ।
नन्वेवं सति व्याख्यानार्थमपि तत्राऽवस्थानं कथं युज्यते ? तदोषानतिक्रमादिति चेत् ? मेवम, निश्राकृतचैत्ये कतिपयपरिणतसाधुयुक्तस्य गुरोः अनिश्राकृतचैत्ये च सपरिवारस्य गुरोः व्याख्यानार्थं यतनया तिष्ठत: निर्दोषत्वात्, तदुक्तं श्राद्धदिनकृत्ये श्रीदेवेन्द्रसूरिभिः -> निस्सकडे ठाइ गुरु कइवयसहिओ इयरा वए वसहिं । अह तत्थ अनिस्सकडं पूरिति तहिं समोसरणं ॥१५१।। ओसन्नावि य तत्थेव इंति चेइयवंदया । तेसिं निस्साइ तं भवणं सड्ढाईहिं कयं परं ।।१५२।। सेहाण मंदसड्ढाणं दटुं ताणं तु चिट्ठयं । मंदा सद्धा जओ होइ, अणुट्ठाणे जिणाहिए ।।१५३।। एएवि साहणो लोए, अम्हेऽवि मलकिण्णया। एण्ण कारणेणं तु वसहिं पेसति साहुणो ॥१५४।। - इति । एतद्व्याख्या -> चैत्यानि तावच्छाश्वतादीनि चतुर्धा । तत्र शाश्वतचैत्यं नन्दीश्वरादिषु १, भक्तिचैत्यमनिश्राकृत-निश्राकृतभेदात् द्विधा, तत्राऽनिश्राकृतं यत् साधुसत्तारहितं यथाऽष्टापदादिषु, निश्राकृतं यत् साधुनिश्रया क्रियते २, मङ्गलचैत्यमुत्तरङ्गादिषु यथा मधुरायां ३, साधर्मिकचैत्यं वारत्तिकप्रतिमादि ४ । तत्र निश्राकृतचैत्ये गुरुर्व्याख्यानार्थं कतिपयपरिणतसाधुसहितः तिष्ठति, इतरे शिक्षकादयो ब्रजन्ति वसतिम् । अथ च तत्राऽनिश्राकृतं
चैत्यमस्ति 'पूरिति तहिं समोसरणं ति तत्र चैत्ये सपरिवारा आसते ॥१५॥ किमेवं न निश्राकृतेऽपीष्यते ? इत्याह अवमग्नाः [[=अवसन्ना: शिथिलसाधवः] अपि चैत्यवन्दकास्तत्राऽऽयान्त्येव, यतः तद् जिनभवनं श्राद्धादिभिः परं तेषां निश्रया कृतमिति ॥१५२॥ ततः किम् ? इत्याह - तत्र तेषां अवमग्नानां चेष्टितं 'दगपाणं पुप्फफलं अणेसणिज्जमि' त्यादिकं दृष्ट्वा शैक्षाणां = अभिनवदीक्षितानां मन्दश्रद्धानां चातिपरिणामिकादीनां मन्दा श्रद्धा यतो भवति अनुष्ठाने जिनाख्याते व्रतसमित्यादिके क्रियाकलापे ॥१५३|| मन्दश्रद्धत्वाच्च तत्र ते यदभिधारयति तदाह - 'एवंविधा अपि एते साधवो लोके तावद्वन्दनादिभिः सक्रियन्ते, वयं पुनरेवमेव मलाऽऽविलगात्रोपधयः' । एवञ्च तेषां भगवदाज्ञार्थ नां भावचारित्रमप्यपैति । तेनैव कारणेन तान् साधून् शैक्षकादीन् वसतिं सूरयः प्रेषयन्ति ।।१५४|| - इति । तदुक्तं बृहत्कल्पभाष्येऽपि ---> जत्थ पुण अनिस्सकडं पुरिति तहिं समोसरणं ।। - [१८०५] अवमग्नादिविरहे निश्राकृतचैत्येऽव्याख्याने लोकापवादादिदोषः, यथोक्तं बृहत्कल्पभाष्ये > पूरिति समोसरणं, अन्नाऽसइ णिस्सचेइएसुं पि । इहरा लोगविरुद्धं सद्धाभंगो य सड्ढाणं ।।१८०७|| - इति । पूर्वकाले आचार्यादिः जिनायतने व्याख्यानार्थमागच्छन्ति स्म, तदनागमने च तद्वसती श्रावका आगच्छन्ति स्म । तदुक्तं श्राद्धदिनकृत्ये -> अह धम्मदेसणत्थं च तत्थ सूरी न आगओ । पुच्चुत्तेण विहाणेणं वसहीए गच्छए तओ ॥१४६।। - इति । तत्थ = जिनायतने । > आणंदपुरे मूले चेइयघरे सव्वजणसमक्खं कढिजति - नि.भा.३२२० भाग-३-पृ.१५८] इति निशीथचूर्णिविलोकनेनाऽपि प्राचीनकाले चैत्ये जिनागमं व्याख्यायते स्मेति निर्विवादं निश्चीयते । श्राद्धदिनकृत्ये श्रीदेवेन्द्रसूरिभिरपि -> सप्तदशं चैत्यगृहाऽगमश्रवणद्वारं - [गा.२२४-भाग-२] इत्येवमुक्तम् । गुरुतत्वप्रदीपेऽपि >... पौषधशालायामवस्थितेषु श्रीअरिष्टनेमिदेवगृहे व्याख्यानं विदधानेषु प्रभुश्रीदेवसूरिषु - गा.३७] इत्येवं दर्शितः सन्दर्भोऽप्येतदनुपात्येव ।
केचित्तु > आधाकर्मदोषविवर्जिता जिनायतनस्य बहिर्भागेऽनतिरे श्रावकेणोपदेशशाला निर्माप्या । तत्रैव समुचिता, न जिनभवनाभ्यन्तरे आशातनादिदोषसमुद्भवात् । उपाध्यायोऽपि 'बहिर्मण्डपादौ' अनेन वाक्येनेदमेव तावत्समर्थयति । जिनायतनस्य बहिर्भागे उपदेशशालानिर्मापणविधाने तावदिदं प्रथमं कारणं प्रतीयते-यज्जिनायतने पूजावन्दनार्थमागता: श्रावका जिनं समभ्यर्च्य नमस्कृत्य च व्याख्यानशालां समागत्य तत्रोपदिशद्भ्यो मुनिभ्यो वन्दित्वा तेषां मुखारविन्दाद् धार्मिकमुपदेशं श्रुत्वा धर्म लभताम् । एतादृशानि स्थानानि मेदपाटकामेवाड]-मालवा-मरुधरदेशस्थेषु प्राचीनजिनायतनेषु विद्यमानानि साम्प्रतमप्युपलभ्यन्ते । द्वितीयं कारणं यत्तस्मिन् समये यवनाधिपतयो मूर्त्तिविध्वंसनैकबद्भकक्षाः परस्त्रीलम्पटाश्चासन् तदा धार्मिका जना स्वीया धाः क्रिया न प्रकाशवृत्त्या कर्तुमुत्सहन्ते स्म किन्तु तास्तैर्गुप्तवृत्त्या एवाराध्यन्ते स्म । कुलीना नार्योऽप्यनार्येभ्यस्तेभ्यो भयत: स्वशीलादिसंरक्षणाभिप्रायतो धर्मायतनं विमुच्य प्रायो न गच्छन्ति स्मेतस्ततस्तदा । अतस्तासामपि धार्मिकोपदेशलाभो भवेदिति भावनया प्रेरिता: श्रावका जिनायतनसमीप एव तदा व्याख्यानशाला निर्मापयन्ति स्म । परन्तु इयं व्यवस्था जिनायतने आशातनादिदोषोत्पादकत्वात्साम्प्रतं नाद्रियते । इदानीन्तनकाले तु जिनायतनाद्भित्रस्थले एवोपाश्रयो
જિનાલય વગેરે ગુણથી સંપન્ન ન હોય તો સાધુઓએ બીજે ઠેકાણે સ્થળાંતર કરવું પડે. માટે લોકોત્તર તત્વને પામેલો કુશળ થાવક દેશકાળા વગેરેની અપેક્ષાએ સાધુઓ દેરાસરસંલગ્ન મકાનમાં ઉતરે તે માટે જ આવું બધું કરે. આમ ઉપરોક્ત પ્રકારે આ જિનભવન જીર્ણોદ્ધાર દ્વારા પોતાના સંપૂર્ણ વંશને તરવા માટે કાક સમાન છે, કારણ કે પોતાના વંશમાં થનારા અનેક પુરુષોના સમૂહને આશ્રયીને થનાર ઉપકારનું
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org