________________
2 जिनालये साध्ववस्थानविचारः कर्तव्यं यथाऽभिसन्धिविशेषशुद्धेन तेन 'बाल-वृद्ध-ग्लानसाधु-साधर्मिकप्रभृतीनामुपष्टम्भादाधाकर्मिकादिदोषरहिततत्प्रतिबद्धबहिर्मण्डपादौ साधूनामवस्थानं धर्मोपदेशाय कल्पते, क्षेत्रेऽपि च तादृशचैत्यस्फातिगुणयुक्त एव तेषामवस्थानं कल्पते ।
कल्याणकन्दली साधु-श्रावकाद्युपष्टम्भेन चैत्य-तत्सम्बद्धसाधुवसतिमहिमादिलक्षणचैत्यस्फात्यर्थं जिनगृहे तत्संलग्नसाधुप्रायोग्यवसत्यादौ वा योज्यं' इत्याशयविशेषपरिशुद्धेन' इति अधुनातनाः श्रीगुणरत्नसूरि-राजशेखरसूरिप्रभृतयः प्राहुः । भक्तिद्वात्रिंशिकावृत्तौ च → अव्ययनीवि = परिपालन-संवर्धनद्वाराऽहीयमानमूलधनम् - [५/१०] इत्युक्तम् । यद्यपि सम्बोधसप्ततिवृत्तौ → सति हि देवद्रव्ये प्रत्यहं जिनायतने पूजा-सत्कारसम्भवः । तत्र च प्रायो यतिजनसम्पातस्तव्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः - [गा.६६ वृ.पृ.५१] इत्युक्तं तथाप्यत्र चैत्यायतनसम्बन्धिमूलधनं वर्तमानकालप्रसिद्धदेवद्रव्यञ्च मिथो भिन्नमेवेति अभिसन्धिविशेपशुद्धन इति पदेनावगम्यते । यद्यपि देवद्रव्याद् भिन्नत्वेऽपि 'मूलधनस्य भाण्डागारो जिनालयस्याऽन्तर्बहिर्वाऽवस्थाप्यते ? जिनायतनसंलग्नश्रमणायतने वा यदताऽन्यत्र कुत्रचित् ?' इति तु स्पष्टोल्लेखाभावाद् दर्जेयम् । तथापि 'चैत्यायतनसम्बन्धिमूलधन' पदेन पूर्वकाले जिनालयस्यान्तर्बहिर्वा साधु-साध्वी-साधर्मिकोद्धारादिकार्योपष्टम्भार्थं श्रावकादिभिवृद्धिमानीयमानो भाण्डागारोऽवस्थाप्यते स्मेति ज्ञायत इति अस्मद्विद्यागुरुचरणा: श्रीजयसुन्दरविजयगणिवरा ब्याचक्षते ।।
नन्वेतत् समीपवर्तिपूर्वकालापेक्षयाऽवगन्तव्यम् । अतिप्राचीनकाले तु जिनालये भाण्डागारस्थापनादिकं नैवाऽऽसीत्, अन्यथा पूजाविधिप्रदर्शने श्राद्धदिनकृत्यादौ धूप-दीपाक्षतफलढौकनादिवत् 'भाण्डागारे नाणकढौकनादिकं कार्यं, जिनालयव्यवस्थापकमहाजनादिसान्निध्ये भाण्डागार उद्घाटनीयो नियतसमये' इत्यादिः विधिः प्रदर्शितः स्यात् । न चैवमुपदर्शितम् । अतो ज्ञायते परिणतश्रावकः स्वसन्निधौ समुद्गकविशेषे देवादिसत्कनाणकादिकं रक्षयति, व्यवस्थापयति, वर्धयति चेति चेत् ? न, सर्वत्र तथाव्यवस्थानियमाऽसिद्धेः, देवतायतनादौ भाण्डागारस्थापनस्याऽप्यागमादावुपलब्धेश्च । तदुक्तं विपाकसूत्रे प्रथमश्रुतस्कन्धे सप्तमाध्ययने--> अक्खयणिहिं च अणुवडढेस्सामि<-(वि.सू.१७/पृष्ठ-६९) इति । तदवृत्तिस्त्वेवम्-'अक्खयणिहिं च'त्ति देवभाण्डागारम् । 'अणुवड़ढिस्सामि'त्ति वृद्धिं नेष्यामि (वि.सू.१७वृत्ति पृष्ठ-७०) इति । श्राद्धदिनकृत्यवृत्ती -> रत्नसमुद्गकः = देवगृहभाण्डागार: <- [गा.१११] इति श्रीदेवेन्द्रसूरिवचनमप्यत्रानुसन्धेयमिति श्रुतवृद्धाः प्राहुः।
अन्ये तु > पुण्यप्रवाहस्येदं जिनभवनं अक्षयनीवीच भूत्वा संसारसमुद्रात्तेषां स्ववंशजानां] उत्तारयितुं प्रवहणमिव संपत्स्यते' - इति वदन्ति । “जिनभवनमक्षयनीविवत् कर्तव्यम् । यथा रक्षण-व्याजवृद्ध्यादिना मूलधनं न क्षीयते तथा ज्ञानादिगुणयोगक्षेमवृद्धिकारकं जिनभवनमुचितव्यवस्था-रक्षणादिना न क्षीयते = सानुबन्धगुणलाभाय सम्पद्यते । एवमक्षयनीच्या उदाहरणेन इदं जिनभवनं वंशतरकाण्डं = निखिलनिजवंशजतरण्डं ज्ञेयमिति तेषामाशयः । अत्रत्यं तत्त्वं बहुश्रुतेभ्योऽवसेयम् ।
धर्मोपदेशाय कल्पते इति । अत एवोक्तं मुनिचन्द्रसूरिभिः उपेदशपदवृत्ती -> चैत्याश्रयेण संविग्नगीतार्थसाधुभिरनवरतं सिद्धान्तव्याख्यानादिभिः तथा तथा प्रपञ्च्यमानैः सम्यग्ज्ञानगुणवृद्धिः सम्यग्दर्शनगुणवृद्धिश्च सम्पद्यते -गा.४१ २३२] | पञ्चाशकवृत्तौ श्रीमदभयदेवसूरिभिरपि -> चैत्यगृहे हि प्राय आगमव्याख्यानं भवतीति -[पृ.४४/वृ.पृ.५५] प्रोक्तम्। तदक्तं प्रतिमाशतकवृत्तौ टीकाकता अपि -- चैत्याऽऽनत्यर्थं उपनम्राः = उपनमनशीला: ये साध यानि वचांसि तेषामाकर्णनात् कर्णयोरमृतमज्जनम् <-[गा.३१] इति । एतेन साधूनां जिनालये गन्तुमेव न कल्पत इति प्रत्युक्तम्, प्रत्युत प्रतिदिनं तदगमने प्रायश्चित्तस्योपदेशात्, यथोक्तं महानिशीथे -> से भयवं ! तहारूवं समणं वा माहणं वा चेइयघरे गच्छेज्जा ? हंता गोयमा ! दिणे दिणे गच्छेज्जा। से भयवं ! दिणे न गच्छेज्जा तओ किं पायच्छित्तं हवेज्जा ? गोयमा ! पमायं पडुच तहारूवं समणं वा माहणं वा जो जिणघरे न गच्छेज्जा तओ छटुं अहवा दुवालसगं पायच्छित्तं हवेज्जा -[ ] । । न चैवं सति चैत्ये एव साधवः सदा तिष्ठेयुः, आधाकर्मिकादिदोषवैकल्यादिति शङ्कनीयम्, तथाप्याशातनादिदोषभयेन तदननुज्ञातत्वात्, यथोक्तं व्यवहारभाप्ये > जइवि न आहाकम्मं भत्तिकयं तहवि वज्जयंतेहिं । भत्ती खलु होइ कया जिणाण लोए वि दिद्रुतो ।। बंधित्ता कासवओ वयणं अट्ठपुडसुद्धपोत्तीए । पत्थिवमुवासए खलु वित्तिनिमित्तं भया चेव ।। दभिगंधपरिस्सावी तणरप्पेसऽण्हाणिया । दहा वाउपहो चेव तेण टुंति न चेइए || तिनि वा कढई जाव थुईओ तिसिलोइया । ઉદ્દેશથી થાય છે. માટે સાધુ માટે તે મકાન) આધાર્મિક દોષથી રહિત હોવાથી દેરાસરસંબંધી બહારના મંડપ વગેરેમાં ધર્મ ઉપદેશ માટે સાધુઓને રહેવું કલ્પી શકે. સામાયિક, પ્રતિક્રમાગ, પૌષધ, પ્રવચનથવાણ વગેરે આરાધનામાં સહાયક બનવાથી તે સ્થાન થાવક, શ્રાવિકાઓને ટેકો આપે અને પ્રવચનકરણ, આગમવાચના આદિમાં નિમિત્ત બનવાથી તે સ્થાન સંયમીઓને પણ ટેકો આપનાર બને છે. ક્ષેત્ર જો તથાવિધ |१. मुद्रितप्रती 'बालक' इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org