Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 185
________________ १५२ षष्ठं षोडशकम् 88 प्राचीनकालीनसाधुवसतिव्यवस्थोपदर्शनम् 88 एतद्गुणमन्तरेण तु क्षेत्रान्तरमाश्रयणीयं स्यात्. तेजासौ लोकोत्तरतत्त्वसम्प्राप्तिव्यवस्थितो गृही देश-कालाद्यपेक्षया साध्ववस्थानायैव सर्वमेवं विधत्ते । कल्याणकन्दली ताव तत्थ अणुन्नायं कारणेण परेण वि || - व्य.भा.उद्दे.९ गा.७०/७१/७२/७३] इति । नन्वेवं सति व्याख्यानार्थमपि तत्राऽवस्थानं कथं युज्यते ? तदोषानतिक्रमादिति चेत् ? मेवम, निश्राकृतचैत्ये कतिपयपरिणतसाधुयुक्तस्य गुरोः अनिश्राकृतचैत्ये च सपरिवारस्य गुरोः व्याख्यानार्थं यतनया तिष्ठत: निर्दोषत्वात्, तदुक्तं श्राद्धदिनकृत्ये श्रीदेवेन्द्रसूरिभिः -> निस्सकडे ठाइ गुरु कइवयसहिओ इयरा वए वसहिं । अह तत्थ अनिस्सकडं पूरिति तहिं समोसरणं ॥१५१।। ओसन्नावि य तत्थेव इंति चेइयवंदया । तेसिं निस्साइ तं भवणं सड्ढाईहिं कयं परं ।।१५२।। सेहाण मंदसड्ढाणं दटुं ताणं तु चिट्ठयं । मंदा सद्धा जओ होइ, अणुट्ठाणे जिणाहिए ।।१५३।। एएवि साहणो लोए, अम्हेऽवि मलकिण्णया। एण्ण कारणेणं तु वसहिं पेसति साहुणो ॥१५४।। - इति । एतद्व्याख्या -> चैत्यानि तावच्छाश्वतादीनि चतुर्धा । तत्र शाश्वतचैत्यं नन्दीश्वरादिषु १, भक्तिचैत्यमनिश्राकृत-निश्राकृतभेदात् द्विधा, तत्राऽनिश्राकृतं यत् साधुसत्तारहितं यथाऽष्टापदादिषु, निश्राकृतं यत् साधुनिश्रया क्रियते २, मङ्गलचैत्यमुत्तरङ्गादिषु यथा मधुरायां ३, साधर्मिकचैत्यं वारत्तिकप्रतिमादि ४ । तत्र निश्राकृतचैत्ये गुरुर्व्याख्यानार्थं कतिपयपरिणतसाधुसहितः तिष्ठति, इतरे शिक्षकादयो ब्रजन्ति वसतिम् । अथ च तत्राऽनिश्राकृतं चैत्यमस्ति 'पूरिति तहिं समोसरणं ति तत्र चैत्ये सपरिवारा आसते ॥१५॥ किमेवं न निश्राकृतेऽपीष्यते ? इत्याह अवमग्नाः [[=अवसन्ना: शिथिलसाधवः] अपि चैत्यवन्दकास्तत्राऽऽयान्त्येव, यतः तद् जिनभवनं श्राद्धादिभिः परं तेषां निश्रया कृतमिति ॥१५२॥ ततः किम् ? इत्याह - तत्र तेषां अवमग्नानां चेष्टितं 'दगपाणं पुप्फफलं अणेसणिज्जमि' त्यादिकं दृष्ट्वा शैक्षाणां = अभिनवदीक्षितानां मन्दश्रद्धानां चातिपरिणामिकादीनां मन्दा श्रद्धा यतो भवति अनुष्ठाने जिनाख्याते व्रतसमित्यादिके क्रियाकलापे ॥१५३|| मन्दश्रद्धत्वाच्च तत्र ते यदभिधारयति तदाह - 'एवंविधा अपि एते साधवो लोके तावद्वन्दनादिभिः सक्रियन्ते, वयं पुनरेवमेव मलाऽऽविलगात्रोपधयः' । एवञ्च तेषां भगवदाज्ञार्थ नां भावचारित्रमप्यपैति । तेनैव कारणेन तान् साधून् शैक्षकादीन् वसतिं सूरयः प्रेषयन्ति ।।१५४|| - इति । तदुक्तं बृहत्कल्पभाष्येऽपि ---> जत्थ पुण अनिस्सकडं पुरिति तहिं समोसरणं ।। - [१८०५] अवमग्नादिविरहे निश्राकृतचैत्येऽव्याख्याने लोकापवादादिदोषः, यथोक्तं बृहत्कल्पभाष्ये > पूरिति समोसरणं, अन्नाऽसइ णिस्सचेइएसुं पि । इहरा लोगविरुद्धं सद्धाभंगो य सड्ढाणं ।।१८०७|| - इति । पूर्वकाले आचार्यादिः जिनायतने व्याख्यानार्थमागच्छन्ति स्म, तदनागमने च तद्वसती श्रावका आगच्छन्ति स्म । तदुक्तं श्राद्धदिनकृत्ये -> अह धम्मदेसणत्थं च तत्थ सूरी न आगओ । पुच्चुत्तेण विहाणेणं वसहीए गच्छए तओ ॥१४६।। - इति । तत्थ = जिनायतने । > आणंदपुरे मूले चेइयघरे सव्वजणसमक्खं कढिजति - नि.भा.३२२० भाग-३-पृ.१५८] इति निशीथचूर्णिविलोकनेनाऽपि प्राचीनकाले चैत्ये जिनागमं व्याख्यायते स्मेति निर्विवादं निश्चीयते । श्राद्धदिनकृत्ये श्रीदेवेन्द्रसूरिभिरपि -> सप्तदशं चैत्यगृहाऽगमश्रवणद्वारं - [गा.२२४-भाग-२] इत्येवमुक्तम् । गुरुतत्वप्रदीपेऽपि >... पौषधशालायामवस्थितेषु श्रीअरिष्टनेमिदेवगृहे व्याख्यानं विदधानेषु प्रभुश्रीदेवसूरिषु - गा.३७] इत्येवं दर्शितः सन्दर्भोऽप्येतदनुपात्येव । केचित्तु > आधाकर्मदोषविवर्जिता जिनायतनस्य बहिर्भागेऽनतिरे श्रावकेणोपदेशशाला निर्माप्या । तत्रैव समुचिता, न जिनभवनाभ्यन्तरे आशातनादिदोषसमुद्भवात् । उपाध्यायोऽपि 'बहिर्मण्डपादौ' अनेन वाक्येनेदमेव तावत्समर्थयति । जिनायतनस्य बहिर्भागे उपदेशशालानिर्मापणविधाने तावदिदं प्रथमं कारणं प्रतीयते-यज्जिनायतने पूजावन्दनार्थमागता: श्रावका जिनं समभ्यर्च्य नमस्कृत्य च व्याख्यानशालां समागत्य तत्रोपदिशद्भ्यो मुनिभ्यो वन्दित्वा तेषां मुखारविन्दाद् धार्मिकमुपदेशं श्रुत्वा धर्म लभताम् । एतादृशानि स्थानानि मेदपाटकामेवाड]-मालवा-मरुधरदेशस्थेषु प्राचीनजिनायतनेषु विद्यमानानि साम्प्रतमप्युपलभ्यन्ते । द्वितीयं कारणं यत्तस्मिन् समये यवनाधिपतयो मूर्त्तिविध्वंसनैकबद्भकक्षाः परस्त्रीलम्पटाश्चासन् तदा धार्मिका जना स्वीया धाः क्रिया न प्रकाशवृत्त्या कर्तुमुत्सहन्ते स्म किन्तु तास्तैर्गुप्तवृत्त्या एवाराध्यन्ते स्म । कुलीना नार्योऽप्यनार्येभ्यस्तेभ्यो भयत: स्वशीलादिसंरक्षणाभिप्रायतो धर्मायतनं विमुच्य प्रायो न गच्छन्ति स्मेतस्ततस्तदा । अतस्तासामपि धार्मिकोपदेशलाभो भवेदिति भावनया प्रेरिता: श्रावका जिनायतनसमीप एव तदा व्याख्यानशाला निर्मापयन्ति स्म । परन्तु इयं व्यवस्था जिनायतने आशातनादिदोषोत्पादकत्वात्साम्प्रतं नाद्रियते । इदानीन्तनकाले तु जिनायतनाद्भित्रस्थले एवोपाश्रयो જિનાલય વગેરે ગુણથી સંપન્ન ન હોય તો સાધુઓએ બીજે ઠેકાણે સ્થળાંતર કરવું પડે. માટે લોકોત્તર તત્વને પામેલો કુશળ થાવક દેશકાળા વગેરેની અપેક્ષાએ સાધુઓ દેરાસરસંલગ્ન મકાનમાં ઉતરે તે માટે જ આવું બધું કરે. આમ ઉપરોક્ત પ્રકારે આ જિનભવન જીર્ણોદ્ધાર દ્વારા પોતાના સંપૂર્ણ વંશને તરવા માટે કાક સમાન છે, કારણ કે પોતાના વંશમાં થનારા અનેક પુરુષોના સમૂહને આશ્રયીને થનાર ઉપકારનું Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240