Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
११४ पञ्चमं षोडशकम्
एवं सामान्येन सलिङ्गधर्मसिद्धिमुक्त्वा ततो यत्स्यात् तदाह
सामान्यधर्मसाधकस्यैव विशेषधर्मसाधनयोग्यत्वम्
पञ्चमं लोकोत्तरतत्त्वसंप्राप्तिषोडशकं
=
एवमित्यादि ।
एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्तरतत्त्वसम्प्राप्तिः ॥५/१॥
एवं प्रागुक्तनीत्या, सामान्येन = लोक-लोकोत्तराऽप्रविभागेन इह प्रक्रमे लिङ्गसंयुक्ते धर्मे सिद्धे नियमेन
| = निश्चयेन भवति पुंसां = तत्तत्तन्त्रोक्तमुमुक्षुजनयोग्याचारप्रणेतृनानाऽवस्थाऽपुनर्बन्धकापेक्षया शुद्धानां स्वतन्त्र - व्यवहारस्थाऽ पुनर्बन्धकानां सम्यग्दृशाय सर्वेषामेव लोकोत्तरस्य = लोकानवगतेतिकर्त्तव्यताकस्य तत्त्वस्य = परमार्थस्य संप्राप्तिः ॥५ / १ ॥
कल्याणकन्दली
=
मूलग्रन्थे दण्डान्वयस्त्वेवम् एवं इह सामान्येन लिङ्गसंयुक्ते धर्मे सिद्धे नियमेन पुंसां लोकोत्तरतत्त्वसंप्राप्तिः भवति | ।। ५ / १ || सामान्येन लोकलोकोत्तराऽप्रविभागेनेति । एतेन सामान्यधर्मसाधकस्यैव विशेषधर्मसाधनयोग्यत्वमावेदितम्, तथैव तद्गुणलाभसामर्थ्यनिष्पत्तेः । इदमेवाभिप्रेत्य जीवोपदेशपञ्चाशिकायां दुमंमि पुष्पं च फलं च पच्छा जहा कमेणेव रसप्पसिद्धि । भव्वे तहा लोयगुणा तओ य लोगुत्तरा सिद्धिसुहं च तत्तो ॥ <- [३२] इत्युक्तम् । अत एवान्यत्रादौ गृहस्थधर्मः | सम्मतः । तदुक्तं मूलकारैरेव धर्मविन्दौ -> • स्तोकान् गुणान् समाराध्य, बहूनामपि जायते । यस्मादाराधनायोग्यस्त - स्मादादावयं [३/१८] इति । अनेन व्यवहारधर्मं मुक्त्वा निश्चयनयमवलम्बमानानां द्रव्यस्तवमपहाय च भावस्तवमा श्रयतामबलानामुभयतो भ्रष्टत्वं द्योतितम् ।
I
| मतः ॥ <
तत्तत्तन्त्रेति । वेदान्त-बौद्धादिदर्शने प्रतिपादितानां शम-दम - तितिक्षादिलिङ्गाऽऽलिङ्गितमुमुक्षुजनोचितसदाचाराणां प्रणेतारः | = कर्तारः तथाऽनेकावस्थाविशेषभाजो येऽपुनर्बन्धकाः तदपेक्षया शुद्धानां स्वतन्त्रव्यवहारस्थापुनर्वन्धकानां = स्वकीयजैनदर्शनदर्शिते प्रबलविशुद्धिप्रापके सदनुष्ठानात्मके व्यवहारविशेषे स्थितानामासन्नग्रन्थीनामपुनर्बन्धकानां सम्यग्दृशां चेति । मुख्यतः स्वतन्त्रे स्थितानामपुनर्बन्धकानां सम्यग्दृशां च झटिति लोकोत्तरतत्त्वसंप्राप्तिः, जिनोक्ताचारपालनादिप्रभावात् । सामान्यतस्तु परतन्त्रस्थानामपुनर्बन्धकानां शुद्धितारतम्यानुसारेण विलम्बेन दीर्घकालेन वाऽमुत्र लोकोत्तरतत्त्वसम्प्राप्तिरिति भावनीयम् । तदुक्तं योगबिन्दी -> अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् । स्वतन्त्रनीतितस्त्वेव, ग्रन्थिभेदे तथा सति । सम्यग्दृष्टिर्भवत्युच्चैः, प्रशमादिगुणान्वितः ॥ <- [२५१ / २५२ ] इति । अपुनर्बन्धकस्य विशिष्य लक्षणं तु पावं न तिव्वभावा कुणइ ण बहुमण्णई भवं घोरं । उचियट्ठिरं च सेवइ, सव्वत्थ वि अपुणबंधो त्ति - ॥१३॥ इत्येवं योगशतके पञ्चाशके [३ / ४] चोक्तमिति प्रागुक्तम् [पृ. ८५ ] । योगबिन्दौ तु -> भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः । वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः ॥ १७८ ॥ - इति सामान्यतोऽ
| पुनर्बन्धकलक्षणमुक्तमिति न विरोधः । लोकानवगतेतिकर्तव्यताकस्य
लौकिकैः अनवगता 'इदं कर्तव्यं' इत्याकारिका इतिकर्तव्यता यस्य तत्त्वस्य तत्तथा | तस्य तत्त्वस्य = परमार्थस्य सम्प्राप्तिः = समीचीनोपलब्धिः । न हि लौकिका : लोकोत्तरतत्त्वमवगन्तुं समर्थाः, लौकिकमर्यादास्थितत्वेन तथाविधक्षयोपशमविरहात् ॥५ / १॥
=
રતિદાત્રિની (ગુજરાતી વ્યાખ્યા)
આ રીતે ચોથા ષોડશકમાં સામાન્યથી લિંગસહિત ધર્મસિદ્ધિને જણાવીને ત્યાર બાદ જે થાય છે તેને મૂલકારથી જણાવે
છે કે
ગાથાર્થ :- આ રીતે પ્રસ્તુતમાં સામાન્યથી લિંગયુક્ત ધર્મ સિદ્ધ થયે છતે નિયમા જીવોને લોકોત્તરતત્ત્વની સંપ્રાપ્તિ થાય छे. [4/4]
Jain Education Intemational.
“ લોકોત્તરતત્ત્વ સંપ્રાપ્તિ
ટીડાર્થ :- પૂર્વોક્ત રીતે, લૌકિક-લોકોત્તર વિભાગ વિના, પ્રસ્તૃતમાં લિંગસંયુક્ત ધર્મ સિદ્ધ થયે છતે નિશ્ચયથી જીવોને લોકોત્તર પરમાર્થની સંપ્રાપ્તિ થાય છે. તે જીવો ભલે તે તે દર્શન-સંપ્રદાયમાં બતાવેલ મુમુક્ષુ જીવોને ઉચિત આચારના પ્રણેતા = १२नाराપાળનારા અલગ-અલગ અવસ્થાવાળા અપુનર્બંધક જીવોની અપેક્ષાએ શુદ્ધ એવા જૈનદર્શનના વ્યવહારમાં રહેલા અપુનબંધક અને સમકિતષ્ટિ જીવો હોય. તે બધાને જ લોકોત્તરતત્ત્વની પ્રાપ્તિ થાય. જે પરમાર્થને લોકો = મિથ્યાત્વથી આવરાયેલા અન્યદર્શનીઓ કર્તવ્યરૂપે ન જાણી શકે તે તત્ત્વ લોકોત્તર પરમાર્થ કહેવાય. [૫/૧]
विशेषार्थ :
ઔદાર્ય, દાક્ષિણ્ય, પાપભીરુતા, નિર્મલ બુદ્ધિ વગેરે ગુણોથી યુક્ત જીવ ચાહે અન્યમતમાં રહીને મુમુક્ષુયોગ્ય
www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240