Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 162
________________ महादानस्वरूपमीमांसा एतद्विशेषणरहितं पुनः दानं एव ॥५/१३|| कल्याणकन्दली 1 'ज्ञातिश्च वृद्धो विधन: कुलीनः ॥ - इति । पोष्यापोषकत्वे तु गृहिणां न परिजनो न धर्मार्हताऽपि । इदञ्च व्यवहारतोऽवगन्तव्यम् । निश्चयतः देव-गुरु- स्वात्मानः त्रय एव पोष्याः । परमनिश्चयेन च स्वात्मैव पोष्य इत्यादिकं श्राद्धगुणविवरणादित: [ पृ. ५७] ज्ञेयम् महादानप्रतिपादनञ्च योगबिन्दौ पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाऽविरोधेन, न विरुद्धं स्वतश्च यत् ॥ १२१ ॥ - इति । दानस्थले विधिश्च दत्तं यदुपकाराय द्वयोरप्युपजायते । नातुरापथ्यतुल्यं तु तदेतद्विधिवन्मतम् ॥ १२४ ॥ - इत्येवं योगबिन्दी प्रदर्शितः । कार्त्तिकेयानुप्रेक्षावृत्तौ शुभचन्द्रेण तु [१] श्रद्धा [२] तुष्टिः, [३] भक्तिः, [४] विज्ञानम् [५] अलुब्धता, [६] क्षमा, [७] शक्ति: <- [गा. ६३१] इत्येवं दानगुणा दर्शिताः । प्रकारान्तरेण तु -> श्रद्धा भक्तिरलोलत्वं दया* शक्ति : ' क्षमा परा । विज्ञानं चेति सप्तैते गुणा दातुः प्रकीर्त्तिताः ॥ - [] इत्यपि बोध्यम् । आनन्दाश्रूणि रोमाञ्च बहुमानं प्रियं वचः । किञ्चानुमोदनं पात्रे दानभूषणपञ्चकम् ॥ - [ ] इति दानभूषणानि । 'अनादरो विलम्बश्च तिरस्कारोऽभिमानता । पश्चात्तापश्च पञ्चापि सद्दानं दूषयन्त्यमी ॥ - इति दानदूषणानि न च किमित्यादौ दानस्य प्रदर्शनमकारि लोकोत्तरतत्त्वनिरूपणे इति शङ्कनीयम्, तस्यैव धर्माऽऽदिपदत्वात् । तदुक्तं योगबिन्दौ -> धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं दानं कीर्त्यादिवर्धनम् || १२५ || - • इति । दर्शनकुलकेऽपि -> दाणं सोहग्गकरं दाणं आरुग्गकारणं परमं । दाणं भोगनिहाणं दाणं ठाणं गुणगणाणं ||३|| - इत्येवं दानमाहात्म्यमुक्तम् । चाणक्यसूत्रेऽपि -> दानं धर्मः ← . [१५५] इत्युक्तम् । महादानं = लोकोत्तरदानमित्यर्थः । उपलक्षणादाशंसाराहित्यादिकमपि बोध्यं यथोक्तं पुष्पमालायां आसंसाइविरहिओ सद्भारोमंचकंचुइज्जतो । कम्मक्खयहेउं चिय दिज्जा दाणं सुपत्ते ||४६ || - इति । इदमेव परैः सात्त्विकादिदानमुच्यते, यथोक्तं महाभारते -> दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ <- [ भीष्मपर्व ४१ / २०] इति । स्कन्दपुराणे च पात्रेभ्यो दीयते नित्यमनवेक्ष्य प्रयोजनम् । केवलं धर्मबुद्धया यत्, धर्मदानं तदुच्यते ।। - [माहेश्वरखण्ड - कौमा ४/५६ ] इत्येवमुक्तम् । वस्तुतस्त्वभयदानमेव महादानम्, तदुक्तं सूत्रकृताङ्गे -> दाणाण से अभयप्पयाणं <- [ १ / ६ / २३] | प्रश्नव्याकरणेऽपि -> दाणाणं चेव अभयदानं <- [ २/४] इत्युक्तम् । पद्मपुराणेऽपि -> सर्वेषामेव दानानामिदमेवैकमुत्तमम् । अभयं सर्वभूतानां नास्ति दानमतः परम् ॥ < [५/१८/४३८] इत्युक्तम् । धर्मरत्नकरण्डकेऽपि -> सर्वजीवाभयं भावाद्दत्तं येन दयालुना यद्दातव्यं तत्सर्वं दत्तं तेन महात्मना ॥ २२९ ॥ इत्युक्तम् । सर्वेषु दानेष्वभयप्रदानम् <- [हितोपदेश- पृ. १२४] इत्यप्यत्रानुस्मर्तव्यम् । अन्यत्रापि • गोभूमि- सुवन्न- हिरनमाइदाणं दिति बहुया वि । जे दिंति अभयदाणं ते वीरला जीवलोगम्मि ॥ ← [ ] इत्युक्तम् । मूलकारैरपि समरादित्यकथायां अभयदाणोवट्ठम्भदाणाण ओघओ किं पहाणयरं ति । भगवया भणितं सोम ! सुण, अभयदानं -> [भव. ९ पृ. ९५६ ] इत्युपदशिर्तम् । यद्दानं तत् महादानम् । अन्यत्तु = Jain Education International -> एतद्विशेषणरहितमिति । अन्यायार्जितं पोष्यवर्गोपरोधेन गुर्वसम्मत्या अनुकम्पा - सुपात्रव्यतिरिक्तविषयेऽविधिना आतुरापथ्यतुल्यं वा यद् दीयते तत् पुनः दानमेव; लौकिकानुष्ठानं, न तु लोकोत्तरमिति भावः । तदुक्तं -> दत्तः स्वल्पोऽपि भद्राय स्यादर्थो न्यायसङ्गतः । अन्यायात्तः पुनर्दत्तः पुष्कलोऽपि फलोज्झितः ॥ ←- [ श्राद्धगुणविवरण- पृ. ४] इति । यदपि महाभारते यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् || अदेशकाले यद्दानमपात्रेभ्यश्व दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ - [ भीष्मपर्व ४१ / २०-२१] इत्युक्तं तदपि लौकिकं विज्ञेयम् ॥५ / १३ ॥ નોકર, પોતાના નાના ભાઈ-બહેન, સંતાન વગેરે પોષ્યવર્ગને સમજી લેવાનો.] અહીં બતાવેલ વિશેષણથી રહિત જે અપાય તે मात्र छान भागवु [ 4/43] विशेषार्थ :- आर्यावर्तना शिष्ट पुरुषो पूर्व अणमां ब्राह्मण, क्षत्रिय, वैश्य [= बेपारी] अने शुद्ध [हरिन वगेरे B.C.] આમ ચાર જાતિમાં માનવોને વહેંચી દીધા હતા. તેમ જ તેમની આજીવિકાના સાધનો પણ નક્કી કરેલા. જેમ કે બ્રાહ્મણ ભિક્ષાથી ગુજરાન કરે, ક્ષત્રિયો યુદ્ધ, સંરક્ષણ વગેરે દ્વારા જીવનનિર્વાહ કરે, વૈશ્યો વેપારધંધા-વહાણવટા દ્વારા ધારાધોરણમુજબ આજીવિકા भेजवे, शुद्ध लोगे अरीगीरी द्वारा रोडरोटी मेणवे. बागर, बुखार, सुधार, घांथी, भोयी, उभम वगेरे झरीगरवर्ग शुद्रविभागमां आवे साथवागार, लुहारी, सुधारी वगेरे उद्योग होवाथी तेमने उद्योगपति पग उठेवाय वैश्य = વેપારીવર્ગ કાપડ બનાવે નહિ પણ વણકરે [= હિરજને] બનાવેલ કાપડને વેંચે. નવો માલ બનાવવાનો મહાઆરંભ વેપારી ના કરે. ટૂંકમાં માલ બનાવવાનું કામ ઉદ્યોગપતિ = કારીગરવર્ગ = શુદ્રલોકો કરે. માલ વેંચવાનું કામ વેપારીવર્ગ = વૈશ્ય લોકો કરે. પૂર્વપુરુષોની આ મર્યાદા દ્વારા જે કાંઈ દ્રવ્ય યથોચિત રીતે મળે તે ન્યાયોપાર્જિત દ્રવ્ય કહેવાય. આનો મતલબ એ થયો કે ક્ષત્રિય વેપાર કરીને જે દ્રવ્ય મેળવે અથવા વેપારી લોકો રાજમાન્ય ધારાધોરણનું ઉલ્લંઘન કરીને જે દ્રવ્ય મેળવે તે અન્યાયોપાર્જિત કહેવાય. આ રીતે અર્થવ્યવસ્થા १२९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240