Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 161
________________ १२८ पञ्चमं षोडशकम् 8 न्यायस्वरूपप्रदर्शनम् न्यायात्तं स्वल्पमपि हि भृत्यानुपरोधतो महादानम् । दीन - तपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु ॥ ५ / १३ ॥ ज्यायेन = ब्राह्मण-क्षत्रिय-विट्शूद्राणां स्वजातिविहितव्यापारेण आत्तं = स्वीकृतं स्वल्पमपि हि दीनतपस्व्यादे विषये गुरूणां पित्रादिकुलवृद्धानां अनुज्ञया भृत्यानुपरोधेन = पोष्यवर्गाऽविघातेन, भृत्यपदमितरपोष्योपलक्षणं कल्याणकन्दली = सुखम् । धर्मादिमूलमौचित्यमौचित्यं जनमान्यता || १६८ || - इति । अत एव न कुत्राऽप्यनुकम्पाया निषेधः । पार्श्वस्थादीना. मवन्दनीयत्वेऽप्यनुकम्प्यत्वानतिक्रमादिति भावनीयम् ||५ / १२|| मूलग्रन्थे दण्डान्वयस्त्वेवम् दीनतपस्व्यादौ गुर्वनुज्ञया भृत्यानुपरोधतो न्यायात्तं हि स्वल्पमपि महादानम् । अन्यत् दानम् ||५ / १३ || इयं कारिका पञ्चाशकवृत्तौ [२/२३] अधिकारविंशिकावृत्तौ च समृद्धृता । न्यायेन = ब्राह्मण-क्षत्रिय-विट् - शुद्राणां स्वजातिविहितव्यापारेणेति । “यावन्नाभेयो भगवान् नाद्यापि राज्यलक्ष्मीमध्यास्ते तावदेकैव मनुष्यजातिः । तस्यैव राज्योत्पत्तौ भगवन्तमेवाश्रित्य ये स्थितास्ते क्षत्रियाः शेषाश्च शोचनाद्रोदनाच्च शूद्राः । पुनरग्न्युत्पत्तावयस्कारादिशिल्पवाणिज्यवृत्त्या वेशनाद् वैश्याः । भगवतो ज्ञानोत्पत्तौ भरतकाकिणीलाञ्छनात् श्रावका एव ब्राह्मण जज्ञिरे । एते शुद्धा:" [१/१/१/पृ.७] इति आचाराङ्गवृत्तिकारः प्राधान्यापेक्षया 'ब्राह्मण-क्षत्रिय-वैश्य - क्षुद्रा' इति क्रम बोध्यः । यथाक्रमं शास्त्राध्यापन- देवपूजादि- 'दुष्टनिवारण - स्त्रीशीलरक्षण- शत्रुभयत्राणादि - कृषिक्रयविक्रयादि- परसेवा-पञ्चशील्पकर्मादिना स्वामिद्रोहादिशून्येन व्यापारेणेत्यर्थः । 'न्यायेन = शुद्धमानतुलोचितकलाव्यवहारादिरूपेण' [ ध.बि. १ / ३ वृ.] इति धर्मविन्दुवृत्तिकारः । शुद्धव्यवहारो न्याय इति भाव: । स्वीकृतं = उपार्जितम् । वित्तमिति गम्यते । तादृशस्यैवोभयलोकहितावह - त्वात् । तदुक्तं धर्मविन्दौ न्यायोपात्तं हि वित्तमुभयलोकहितायेति - [१ / ४] । स्वल्पमपि किं पुनः सुबहु इत्यपिशब्दार्थः अमृतं हि स्तोकमपि महते हिताय, न तु सुबह्वपि जलम् विषं वा । तदुक्तं श्रावकधर्मविधौ -> उचियं सेवइ वित्ति सा पुण नियकुलकमागया सुद्धा । माहण खत्तिय वइसाण सुद्ध-सुद्धाण निय-नियगा ॥७॥ इति । "स्वान्वयपरिपाट्या आगता = प्राप्ता शुद्धा = तथाविधदोषरहिता । अनेन कुलक्रमागतामपि तथाविधाशुद्धां योनिपोषणादिकां वृत्तिमनुचितामाह । शुद्धविशेषणं शुद्राणां तथाविधधीवरादिव्यवच्छेदार्थम्" - इति तद्वृत्तिकारः । ब्राह्मणादिविहितव्यापारस्तु → शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ कृषि - गौरक्ष्य - वाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥[] <- इत्येवं बोध्यः । अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ |<- [१ / ८८-८९-९०-९१] इत्यादिना मनुस्मृतौ अपि चतुर्वर्णव्यापारोभिहितः । दीन- तपस्व्यादौ । आदिपदं प्रत्येकमभिसम्बध्यते । ततश्च दीनपदेन तदुत्तरादिपदेन वाऽनुकम्पनीयानामन्धानाथ-याचकव्याधिग्रस्त क्रियान्तराशक्तादीनां ग्रहणम् । तपस्विपदोत्तरादिपदेन सुपात्राणां धर्माचार्य - साधुप्रभृतीनामुपग्रहः । तदुक्तं योगविन्दौ -> व्रतस्था लिङ्गिनः पात्रमपचास्तु विशेषतः । स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि ॥ १२२ ॥ < एषः ॥ < पित्रादिकुलवृद्धानामिति | आदिपदेन मातृ-गौरव्यज्ञातिजनग्रहणम्, तेषां गुरुत्वेन प्रसिद्धत्वात् । तदुक्तं अध्यात्मतत्त्वालोके न्यायविजयेन -> पिता च माता च कलागुरुश्च तज्ज्ञातयो ज्ञानविवेकवृद्धाः । धर्मप्रकाशप्रवणाश्च सन्तः सतां मतः श्रीगुरुवर्ग - [२/३] इति । भृत्यानुपरोधेनेति । भृत्याः = भरणीया भार्या पुत्रादयः <- [ ९/२१६ ] इति मिताक्षराख्यायां याज्ञवल्क्यस्मृतिवृत्तौ विज्ञानेश्वरः । पोष्यवर्गाsविघातेनेति । तद्विघातस्य वर्जनीयत्वात्, अन्यथा परपीडया लोकोत्तरतत्त्वहाने:, तदुक्तं योगदृष्टिसमुच्चये परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः <- [१५० ] इति । भृत्यपदमितरपोष्योपलक्षणमिति । शिशु भार्याप्रमुखज्ञापकम्, यतः -> 'वृद्ध मातापितरौ साध्वी भार्या लघूनि च शिशूनि । अप्युपायशतं कृत्वा पोष्याणि मनुरब्रवीत् ।। - इति । तथा चत्वारि ते तातगृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे । सखा दरिद्रो भगिनी व्यपत्या T (---> માથાર્થ :- ગરીબ, તપસ્વી વગેરેને ગુરુની અનુજ્ઞાથી, પોષ્યવર્ગને બાધા ન આવે તે રીતે ન્યાયોપાર્જિત ખરેખર અલ્પ પણ आपवामां आवे ते महाहान छे. भाडीनु हान भागवु [ 4 / 13 ] / મહાદાન અને દાનની ભેદરેખા પારખીએ / ટીડાર્થ :- બ્રાહ્મણ, ક્ષત્રિય, વૈશ્ય, શુદ્ર જાતિના લોકો પોતાની જાતિમાં વિહિત પૂર્વપુરુષોને માન્ય એવા વેપારથી જે કાંઈ ધન વગેરે મેળવે તે ન્યાયોપાર્જિત કહેવાય. તેવું દ્રવ્ય અત્યંત થોડું પણ ગરીબ, તપસ્વી વગેરે વિશે પોતાના પિતા, પિતામહ વગેરે કુલવૃદ્ધ પુરુષોની સંમતિથી તેમ જ પોતાના પોષ્યવર્ગ નોકર આદિને પીડા ન પહોંચે તે રીતે આપવું તે મહાદાન જાગવું. મૂળ શ્લોકમાં ભૃત્યપદ છે તેનો અર્થ નોકર થાય છે. પરંતુ તે શબ્દ નોકર સિવાયના પોખવર્ગનું ઉપલક્ષણ છે [અર્થાત્ ભૃત્યશબ્દથી www.jainelibrary.org Jain Education Intemational For Private & Personal Use Only =

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240