Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 179
________________ १४६ षष्ठं षोडशकम् जिनभवनभृतकानां सन्तोष्यतोपपादनम् भवन्ति । यूयमपि भवन्तोऽपि गोष्ठिकाः = सहाया इह = जिनभवनविधाने अनेन वचनेन सुखं तु सुखेनैव ते स्थाप्या:, विशिष्टत्वात् । इत्थं स्थापिताः ते निर्वाहका भवन्ति ॥६/१० || 'अतीत्यादि । अतिसन्धानञ्चैषां कत्तव्यं न खलु धर्म्ममित्राणां । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव ||६ / ११॥ एषां = भृतकानां अतिसन्धानं च न खलु = जैव कर्त्तव्यं धर्म्ममित्राणां = धर्म्म सुहृदां किमिति ? इह शुभकर्मणि न व्याजात् धर्म: (भवति) किं तु शुद्धाशयादेव निर्व्याजपरिणामादेव ॥६/११ || कल्याणकन्दली = = Jain Education International = | नैपुण्यादिगुणपरिपुष्टस्वभावेनैव केचित् भवन्ति । 'भवन्तोऽपि सहाया इह जिनभवनविधाने' 'भवतां साहाय्येनैव जिनभवनं निष्प्रत्यूहं पूर्णतां गमिष्यति' 'भवतामेवेदं कार्यमप्रमत्ततामवलम्ब्य निष्पादनीयम्' इत्येवमपशब्दमन्तरेण यथा तेऽप्रमादिनो भवेयुः तादृशेन प्रशस्तेन वचनेन सुखेनैव ते कर्मकराः स्थाप्याः, विशिष्टत्वात् = विशिष्टशिष्टव्यवहारनिपुणत्वात् । कथारत्नकोशे श्रीदेवभद्रसूरिणाऽपि -> कम्मयराण वि इत्थं थेवं पि न वंचणं विहेयव्वं । अवि सविसेसं देयं तेसिं सुहभाव - बुड्डिकए ॥ <- [प्र.६७ / गा.१०] इत्युक्तम् । कर्मकरस्थापनविधिश्च वेधवास्तुप्रभाकरे प्रभाशङ्करेण -> कर्मकराणां सर्वेषां धनं दद्याच्च सर्वतः । वस्त्र - प्रावरणैः कृत्वा, उत्तमादिक्रमेण ||३४१ || योजनीयास्तथा सर्वे, मिष्टान्नै: खण्डपककैः । ताम्बूलं विलेपनं -> | दद्यात्, यावत् सन्तुष्टचेतसः || ३४२ ॥ - इत्यादिरूपेणोक्तः । शिल्पस्मृतिवास्तुविद्यायामपि एवंप्रायो विधि : वर्तते [पृ. २९२- | | अध्याय ६. गा. २६-२७] । शत्रुञ्जयतीर्थोद्धारप्रबन्धे श्रीविवेकधीरगणिभिः श्रीकर्मसाधुकृतशत्रुञ्जयतीर्थोद्धारवर्णनावसरे. | सुखासिकाभिर्विविधाभिराशु भोज्यैश्च साज्यैः ससितैः पयोभिः । स सूत्रधारान् करमोऽपि नित्यमावर्जयामास वदान्यधुर्यः || ८९ ॥ शतशः सूत्रधारास्ते यद्यदीषुर्यदा यदा । तत्तदानीमेवाग्रेऽपश्यन् श्रीकर्मसाधुना ||२०|| कर्मेणाऽऽवर्जितास्ते तु सूत्रधारास्तथा यथा । चक्रुर्मासविधेयानि कार्याणि दशभिर्दिनैः ॥९२॥ - इत्युक्तम् । कथारत्नकोशे दर्शिता विजयकृता सूत्रधारप्रतिपत्तिरायत्रानुसन्धेया [ पृ. ७१ / गा.१०३-४-५ ] | इत्थं जिनभवनादिकार्ये स्थापिताः ते सावधानतया सन्तोषपूर्वकं अर्हचैत्यादिकार्यस्य निर्वाहकाः परिसमापका भवन्ति, | अन्यथा प्रारब्धमपि जिनप्रासादादि कार्यं ते मुञ्चेयुः तेषां विशिष्टत्वेनाऽन्यत्राऽपि यथेप्सितमूल्यपूर्वं भवनादिनिर्माणनियोगसम्भ| वादित्यवधेयम् । जिनगृहनिर्माणानन्तरञ्च सूत्रधारादीनां वस्त्रालङ्कारादिप्रदानं कर्तव्यम्, यथोक्तं शिल्परत्नाकरे -> अनन्तरञ्च कर्तव्यं, | सूत्रधारस्य पूजनं । वस्त्रालङ्कारभोज्येन, गोमहिष्यश्ववाहनैः । अन्येषां शिल्पिनां पूजा, कर्तव्या कर्मकारिणाम् । स्वाधिकारानुसारेण, वस्त्रताम्बूल भोजनैः । शिल्पिनं पूजयेत् प्राज्ञः सोमपुराभिधं सदा । तस्य हस्तेन कल्याणं, कर्तव्यं रिद्धिसिद्धिदम् ॥ <- [१३/७७-७८-७९ ] इत्यपि वदन्ति । क्वचित् प्रतिष्ठानन्तरमपि सूत्रधारादीनां वस्त्रालङ्कारादिप्रदानं श्रूयते । तदुक्तं शत्रुञ्जयतीर्थोद्धारप्रबन्धे -> स्वर्णोपवीत-मुद्राङ्गद-कुण्डल- कङ्कणादिकाऽऽभरणैः । वस्त्रैश्च सूत्रधारानतुतूषत्सोऽपि कर्मकृतः ॥ <[उल्लास - २ / १५६ ] सोऽपि श्रीकर्मसाधुरपि प्रतिष्ठाऽनन्तरमिति तत्प्रकरणादवगम्यते ॥ ६/१०॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् → एषां च धर्ममित्राणां अतिसन्धानं न खलु कर्तव्यम् । इह धर्मो न व्याजात् [भवति, अपि] तु शुद्धाशयादेव भवति ||६ / ११ || इयञ्च कारिका धर्मसङ्ग्रह - पष्टिशतकप्रकरणवृत्त्यादी [गा.६८ ष. श. १२] समुद्धृता वर्तते । भृतकानां अतिसन्धानं वचनं नैव कर्तव्यं, अपि तु 'भावनीयमौदार्य' मिति [ ] ललितविस्तरादिवचनमवधार्य अधिकप्रदानं मूल्यस्य कर्तव्यम्, तदुक्तं स्तवपरिज्ञायां कारवणेऽवि य तस्सिह, भयगाणतिसंधणं न कायव्वं । अवि याऽहियप्पयाणं, दिट्ठादिफलं एयं । ते तुच्छया वराया, अहिएण दढं उवेंति परितोसं । तुट्ठा य तत्थ कम्मं तत्तो अहियं प्रकुव्वंति || धम्मपसंसाए तह केइ निबंधंति बोहिबीआई । अन्ने य लहुयकम्मा एत्तोचिय संपबुज्झति ॥ लोगे। રીતે કારીગર-કડિયા વગેરેને રાખેલા હોય તો તેઓ દેરાસર બનાવવાનું કામ પૂર્ણ કરે. [૬/૧૦] વિશેષાર્થ :- જે કારીગર, કડિયા, સુથાર, સોમપુરા વગેરે દેરાસર બનાવવાની વિશિષ્ટ આવડતવાળા હોય તેઓને જ અહીં પસંદ કરવા. તથા લોકવ્યવહારથી પણ જે સોમપુરા વગેરે વિશિષ્ટ કક્ષાના હોય તેને જ પ્રસ્તુતમાં નકકી કરવા, જેથી તે મજૂર વગેરે પાસે વ્યવસ્થિત રીતે કામ કરાવી શકે. આવા વિશિષ્ટ દરજ્જાના સોમપુરા વગેરેની સાથે જો મીઠો, સાચો, સારો અને ઉચિત વ્યવહાર રાખવામાં ન આવે તો તેઓ દેરાસરનું કામ અધૂરું મૂકીને ચાલ્યા જાય. માટે તેઓને પણ સારી રીતે સાચવવા. [૬/૧૦] ગાથાર્થ : આ ધર્મમિત્રોને છેતરવા નહિ જ. અહીં ધર્મ કપટથી નથી થતો, પરંતુ શુદ્ધ આશયથી જ ધર્મ થાય છે. [૬/૧૧] ટીડાર્થ :- દેરાસરના કારીગરો ધર્મમિત્રો છે. તેથી તેની સાથે છેતરપિંડી ન જ કરવી, કારણ કે શુભ કાર્યમાં ધર્મ કપટથી નથી થતો, પરંતુ નિષ્કપટ પરિણામથી જ ધર્મ થાય છે. [૬/૧૧] = = = For Private & Personal Use Only = www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240