________________
१४६ षष्ठं षोडशकम्
जिनभवनभृतकानां सन्तोष्यतोपपादनम्
भवन्ति । यूयमपि भवन्तोऽपि गोष्ठिकाः = सहाया इह = जिनभवनविधाने अनेन वचनेन सुखं तु सुखेनैव ते स्थाप्या:, विशिष्टत्वात् । इत्थं स्थापिताः ते निर्वाहका भवन्ति ॥६/१० || 'अतीत्यादि । अतिसन्धानञ्चैषां कत्तव्यं न खलु धर्म्ममित्राणां । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव ||६ / ११॥
एषां = भृतकानां अतिसन्धानं च न खलु = जैव कर्त्तव्यं धर्म्ममित्राणां = धर्म्म सुहृदां किमिति ? इह शुभकर्मणि न व्याजात् धर्म: (भवति) किं तु शुद्धाशयादेव
निर्व्याजपरिणामादेव ॥६/११ ||
कल्याणकन्दली
=
=
Jain Education International
=
| नैपुण्यादिगुणपरिपुष्टस्वभावेनैव केचित् भवन्ति । 'भवन्तोऽपि सहाया इह जिनभवनविधाने' 'भवतां साहाय्येनैव जिनभवनं निष्प्रत्यूहं पूर्णतां गमिष्यति' 'भवतामेवेदं कार्यमप्रमत्ततामवलम्ब्य निष्पादनीयम्' इत्येवमपशब्दमन्तरेण यथा तेऽप्रमादिनो भवेयुः तादृशेन प्रशस्तेन वचनेन सुखेनैव ते कर्मकराः स्थाप्याः, विशिष्टत्वात् = विशिष्टशिष्टव्यवहारनिपुणत्वात् । कथारत्नकोशे श्रीदेवभद्रसूरिणाऽपि -> कम्मयराण वि इत्थं थेवं पि न वंचणं विहेयव्वं । अवि सविसेसं देयं तेसिं सुहभाव - बुड्डिकए ॥ <- [प्र.६७ / गा.१०] इत्युक्तम् । कर्मकरस्थापनविधिश्च वेधवास्तुप्रभाकरे प्रभाशङ्करेण -> कर्मकराणां सर्वेषां धनं दद्याच्च सर्वतः । वस्त्र - प्रावरणैः कृत्वा, उत्तमादिक्रमेण ||३४१ || योजनीयास्तथा सर्वे, मिष्टान्नै: खण्डपककैः । ताम्बूलं विलेपनं
->
| दद्यात्, यावत् सन्तुष्टचेतसः || ३४२ ॥ - इत्यादिरूपेणोक्तः । शिल्पस्मृतिवास्तुविद्यायामपि एवंप्रायो विधि : वर्तते [पृ. २९२- | | अध्याय ६. गा. २६-२७] । शत्रुञ्जयतीर्थोद्धारप्रबन्धे श्रीविवेकधीरगणिभिः श्रीकर्मसाधुकृतशत्रुञ्जयतीर्थोद्धारवर्णनावसरे. | सुखासिकाभिर्विविधाभिराशु भोज्यैश्च साज्यैः ससितैः पयोभिः । स सूत्रधारान् करमोऽपि नित्यमावर्जयामास वदान्यधुर्यः || ८९ ॥ शतशः सूत्रधारास्ते यद्यदीषुर्यदा यदा । तत्तदानीमेवाग्रेऽपश्यन् श्रीकर्मसाधुना ||२०|| कर्मेणाऽऽवर्जितास्ते तु सूत्रधारास्तथा यथा । चक्रुर्मासविधेयानि कार्याणि दशभिर्दिनैः ॥९२॥ - इत्युक्तम् । कथारत्नकोशे दर्शिता विजयकृता सूत्रधारप्रतिपत्तिरायत्रानुसन्धेया [ पृ. ७१ / गा.१०३-४-५ ] |
इत्थं जिनभवनादिकार्ये स्थापिताः ते सावधानतया सन्तोषपूर्वकं अर्हचैत्यादिकार्यस्य निर्वाहकाः परिसमापका भवन्ति, | अन्यथा प्रारब्धमपि जिनप्रासादादि कार्यं ते मुञ्चेयुः तेषां विशिष्टत्वेनाऽन्यत्राऽपि यथेप्सितमूल्यपूर्वं भवनादिनिर्माणनियोगसम्भ| वादित्यवधेयम् ।
जिनगृहनिर्माणानन्तरञ्च सूत्रधारादीनां वस्त्रालङ्कारादिप्रदानं कर्तव्यम्, यथोक्तं शिल्परत्नाकरे -> अनन्तरञ्च कर्तव्यं, | सूत्रधारस्य पूजनं । वस्त्रालङ्कारभोज्येन, गोमहिष्यश्ववाहनैः । अन्येषां शिल्पिनां पूजा, कर्तव्या कर्मकारिणाम् । स्वाधिकारानुसारेण, वस्त्रताम्बूल भोजनैः । शिल्पिनं पूजयेत् प्राज्ञः सोमपुराभिधं सदा । तस्य हस्तेन कल्याणं, कर्तव्यं रिद्धिसिद्धिदम् ॥ <- [१३/७७-७८-७९ ] इत्यपि वदन्ति । क्वचित् प्रतिष्ठानन्तरमपि सूत्रधारादीनां वस्त्रालङ्कारादिप्रदानं श्रूयते । तदुक्तं शत्रुञ्जयतीर्थोद्धारप्रबन्धे -> स्वर्णोपवीत-मुद्राङ्गद-कुण्डल- कङ्कणादिकाऽऽभरणैः । वस्त्रैश्च सूत्रधारानतुतूषत्सोऽपि कर्मकृतः ॥ <[उल्लास - २ / १५६ ] सोऽपि श्रीकर्मसाधुरपि प्रतिष्ठाऽनन्तरमिति तत्प्रकरणादवगम्यते ॥ ६/१०॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् → एषां च धर्ममित्राणां अतिसन्धानं न खलु कर्तव्यम् । इह धर्मो न व्याजात् [भवति, अपि] तु शुद्धाशयादेव भवति ||६ / ११ || इयञ्च कारिका धर्मसङ्ग्रह - पष्टिशतकप्रकरणवृत्त्यादी [गा.६८ ष. श. १२] समुद्धृता वर्तते । भृतकानां अतिसन्धानं वचनं नैव कर्तव्यं, अपि तु 'भावनीयमौदार्य' मिति [ ] ललितविस्तरादिवचनमवधार्य अधिकप्रदानं मूल्यस्य कर्तव्यम्, तदुक्तं स्तवपरिज्ञायां कारवणेऽवि य तस्सिह, भयगाणतिसंधणं न कायव्वं । अवि याऽहियप्पयाणं, दिट्ठादिफलं एयं । ते तुच्छया वराया, अहिएण दढं उवेंति परितोसं । तुट्ठा य तत्थ कम्मं तत्तो अहियं प्रकुव्वंति || धम्मपसंसाए तह केइ निबंधंति बोहिबीआई । अन्ने य लहुयकम्मा एत्तोचिय संपबुज्झति ॥ लोगे। રીતે કારીગર-કડિયા વગેરેને રાખેલા હોય તો તેઓ દેરાસર બનાવવાનું કામ પૂર્ણ કરે. [૬/૧૦]
વિશેષાર્થ :- જે કારીગર, કડિયા, સુથાર, સોમપુરા વગેરે દેરાસર બનાવવાની વિશિષ્ટ આવડતવાળા હોય તેઓને જ અહીં પસંદ કરવા. તથા લોકવ્યવહારથી પણ જે સોમપુરા વગેરે વિશિષ્ટ કક્ષાના હોય તેને જ પ્રસ્તુતમાં નકકી કરવા, જેથી તે મજૂર વગેરે પાસે વ્યવસ્થિત રીતે કામ કરાવી શકે. આવા વિશિષ્ટ દરજ્જાના સોમપુરા વગેરેની સાથે જો મીઠો, સાચો, સારો અને ઉચિત વ્યવહાર રાખવામાં ન આવે તો તેઓ દેરાસરનું કામ અધૂરું મૂકીને ચાલ્યા જાય. માટે તેઓને પણ સારી રીતે સાચવવા. [૬/૧૦]
ગાથાર્થ : આ ધર્મમિત્રોને છેતરવા નહિ જ. અહીં ધર્મ કપટથી નથી થતો, પરંતુ શુદ્ધ આશયથી જ ધર્મ થાય છે. [૬/૧૧] ટીડાર્થ :- દેરાસરના કારીગરો ધર્મમિત્રો છે. તેથી તેની સાથે છેતરપિંડી ન જ કરવી, કારણ કે શુભ કાર્યમાં ધર્મ કપટથી નથી થતો, પરંતુ નિષ્કપટ પરિણામથી જ ધર્મ થાય છે. [૬/૧૧]
=
=
=
For Private & Personal Use Only
=
www.jainelibrary.org