SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ११४ पञ्चमं षोडशकम् एवं सामान्येन सलिङ्गधर्मसिद्धिमुक्त्वा ततो यत्स्यात् तदाह सामान्यधर्मसाधकस्यैव विशेषधर्मसाधनयोग्यत्वम् पञ्चमं लोकोत्तरतत्त्वसंप्राप्तिषोडशकं = एवमित्यादि । एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्तरतत्त्वसम्प्राप्तिः ॥५/१॥ एवं प्रागुक्तनीत्या, सामान्येन = लोक-लोकोत्तराऽप्रविभागेन इह प्रक्रमे लिङ्गसंयुक्ते धर्मे सिद्धे नियमेन | = निश्चयेन भवति पुंसां = तत्तत्तन्त्रोक्तमुमुक्षुजनयोग्याचारप्रणेतृनानाऽवस्थाऽपुनर्बन्धकापेक्षया शुद्धानां स्वतन्त्र - व्यवहारस्थाऽ पुनर्बन्धकानां सम्यग्दृशाय सर्वेषामेव लोकोत्तरस्य = लोकानवगतेतिकर्त्तव्यताकस्य तत्त्वस्य = परमार्थस्य संप्राप्तिः ॥५ / १ ॥ कल्याणकन्दली = मूलग्रन्थे दण्डान्वयस्त्वेवम् एवं इह सामान्येन लिङ्गसंयुक्ते धर्मे सिद्धे नियमेन पुंसां लोकोत्तरतत्त्वसंप्राप्तिः भवति | ।। ५ / १ || सामान्येन लोकलोकोत्तराऽप्रविभागेनेति । एतेन सामान्यधर्मसाधकस्यैव विशेषधर्मसाधनयोग्यत्वमावेदितम्, तथैव तद्गुणलाभसामर्थ्यनिष्पत्तेः । इदमेवाभिप्रेत्य जीवोपदेशपञ्चाशिकायां दुमंमि पुष्पं च फलं च पच्छा जहा कमेणेव रसप्पसिद्धि । भव्वे तहा लोयगुणा तओ य लोगुत्तरा सिद्धिसुहं च तत्तो ॥ <- [३२] इत्युक्तम् । अत एवान्यत्रादौ गृहस्थधर्मः | सम्मतः । तदुक्तं मूलकारैरेव धर्मविन्दौ -> • स्तोकान् गुणान् समाराध्य, बहूनामपि जायते । यस्मादाराधनायोग्यस्त - स्मादादावयं [३/१८] इति । अनेन व्यवहारधर्मं मुक्त्वा निश्चयनयमवलम्बमानानां द्रव्यस्तवमपहाय च भावस्तवमा श्रयतामबलानामुभयतो भ्रष्टत्वं द्योतितम् । I | मतः ॥ < तत्तत्तन्त्रेति । वेदान्त-बौद्धादिदर्शने प्रतिपादितानां शम-दम - तितिक्षादिलिङ्गाऽऽलिङ्गितमुमुक्षुजनोचितसदाचाराणां प्रणेतारः | = कर्तारः तथाऽनेकावस्थाविशेषभाजो येऽपुनर्बन्धकाः तदपेक्षया शुद्धानां स्वतन्त्रव्यवहारस्थापुनर्वन्धकानां = स्वकीयजैनदर्शनदर्शिते प्रबलविशुद्धिप्रापके सदनुष्ठानात्मके व्यवहारविशेषे स्थितानामासन्नग्रन्थीनामपुनर्बन्धकानां सम्यग्दृशां चेति । मुख्यतः स्वतन्त्रे स्थितानामपुनर्बन्धकानां सम्यग्दृशां च झटिति लोकोत्तरतत्त्वसंप्राप्तिः, जिनोक्ताचारपालनादिप्रभावात् । सामान्यतस्तु परतन्त्रस्थानामपुनर्बन्धकानां शुद्धितारतम्यानुसारेण विलम्बेन दीर्घकालेन वाऽमुत्र लोकोत्तरतत्त्वसम्प्राप्तिरिति भावनीयम् । तदुक्तं योगबिन्दी -> अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् । स्वतन्त्रनीतितस्त्वेव, ग्रन्थिभेदे तथा सति । सम्यग्दृष्टिर्भवत्युच्चैः, प्रशमादिगुणान्वितः ॥ <- [२५१ / २५२ ] इति । अपुनर्बन्धकस्य विशिष्य लक्षणं तु पावं न तिव्वभावा कुणइ ण बहुमण्णई भवं घोरं । उचियट्ठिरं च सेवइ, सव्वत्थ वि अपुणबंधो त्ति - ॥१३॥ इत्येवं योगशतके पञ्चाशके [३ / ४] चोक्तमिति प्रागुक्तम् [पृ. ८५ ] । योगबिन्दौ तु -> भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः । वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः ॥ १७८ ॥ - इति सामान्यतोऽ | पुनर्बन्धकलक्षणमुक्तमिति न विरोधः । लोकानवगतेतिकर्तव्यताकस्य लौकिकैः अनवगता 'इदं कर्तव्यं' इत्याकारिका इतिकर्तव्यता यस्य तत्त्वस्य तत्तथा | तस्य तत्त्वस्य = परमार्थस्य सम्प्राप्तिः = समीचीनोपलब्धिः । न हि लौकिका : लोकोत्तरतत्त्वमवगन्तुं समर्थाः, लौकिकमर्यादास्थितत्वेन तथाविधक्षयोपशमविरहात् ॥५ / १॥ = રતિદાત્રિની (ગુજરાતી વ્યાખ્યા) આ રીતે ચોથા ષોડશકમાં સામાન્યથી લિંગસહિત ધર્મસિદ્ધિને જણાવીને ત્યાર બાદ જે થાય છે તેને મૂલકારથી જણાવે છે કે ગાથાર્થ :- આ રીતે પ્રસ્તુતમાં સામાન્યથી લિંગયુક્ત ધર્મ સિદ્ધ થયે છતે નિયમા જીવોને લોકોત્તરતત્ત્વની સંપ્રાપ્તિ થાય छे. [4/4] Jain Education Intemational. “ લોકોત્તરતત્ત્વ સંપ્રાપ્તિ ટીડાર્થ :- પૂર્વોક્ત રીતે, લૌકિક-લોકોત્તર વિભાગ વિના, પ્રસ્તૃતમાં લિંગસંયુક્ત ધર્મ સિદ્ધ થયે છતે નિશ્ચયથી જીવોને લોકોત્તર પરમાર્થની સંપ્રાપ્તિ થાય છે. તે જીવો ભલે તે તે દર્શન-સંપ્રદાયમાં બતાવેલ મુમુક્ષુ જીવોને ઉચિત આચારના પ્રણેતા = १२नाराપાળનારા અલગ-અલગ અવસ્થાવાળા અપુનર્બંધક જીવોની અપેક્ષાએ શુદ્ધ એવા જૈનદર્શનના વ્યવહારમાં રહેલા અપુનબંધક અને સમકિતષ્ટિ જીવો હોય. તે બધાને જ લોકોત્તરતત્ત્વની પ્રાપ્તિ થાય. જે પરમાર્થને લોકો = મિથ્યાત્વથી આવરાયેલા અન્યદર્શનીઓ કર્તવ્યરૂપે ન જાણી શકે તે તત્ત્વ લોકોત્તર પરમાર્થ કહેવાય. [૫/૧] विशेषार्थ : ઔદાર્ય, દાક્ષિણ્ય, પાપભીરુતા, નિર્મલ બુદ્ધિ વગેરે ગુણોથી યુક્ત જીવ ચાહે અન્યમતમાં રહીને મુમુક્ષુયોગ્ય www.jainelibrary.org For Private & Personal Use Only
SR No.004833
Book TitleShokshaka Prakarana Part 1
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages240
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy