Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 156
________________ ॐ त्रिविधज्ञानमीमांसा * हासोत्थोपादेयत्वादिविषयाऽऽत्मपरिणामवज्ज्ञानरूपा भवरोगस्य सदौषधं तदुच्छेदकत्वेन यत् = यस्मात् अनपायं = निर्दोषं, प्रतिबन्धेऽपि श्रद्धादिभावात् । तत् = तस्मात् इह आगमवचनपरिणत्यां सत्यां परः = प्रकृष्ट: सज्ज्ञानावरणहासोत्थत्वात् शुद्धोपादेयत्वादिविषयत्वाच्च । सद्बोध: तत्त्वसंवेदजनामा प्रकाश: सदनुष्ठानस्य विरति । कल्याणकन्दली - हेयत्वाऽगोचरं बालादिबोधसदृशं यत् विषयप्रतिभासज्ञानं तस्मात् उत्तीर्णं = अतिक्रान्तं यत् मिथ्यात्वक्षयोपशमानुविद्धेन ज्ञानावरणक्षयोपशमेन जन्यं उपादेयत्व-हेयत्वविषयकं आत्मपरिणतिवज्ज्ञानं तद्रूपा परिणतिरिति शब्दार्थः । भावार्थस्त्वेवम् --> विषयप्रतिभासाऽऽत्मपरिणतिमत्तत्त्वसंवेदनरूपेण ज्ञानं त्रिधा भिद्यते । तदुक्तं मूलकारैः अष्टकप्रकरणे -> विषयप्रतिभासं चात्मपरिणतिमत्तथा । तत्त्वसंवेदनं चैव, ज्ञानमाहुमहर्षयः ।। - [९/१] इति । विषयस्यैव प्रतिभासो यत्र तत् विषयप्रतिभासं मत्यज्ञानावरणादिक्षयोपशमजन्यं हेयत्वाद्यविनिश्चयात्मकमाद्यं ज्ञानम् । तदुक्तं अष्टकप्रकरणे -> विषकण्टकरत्नादौ बालादिप्रतिभासवत् । | विषयप्रतिभासं स्यात् तद्धेयत्वाद्यवेदकम् ।। निरपेक्षप्रवृत्त्यादिलिङगमेतददाहृतम् । अज्ञानावरणापायं - [९/२-३] इति । तदुक्तं उपदेशपदेऽपि -> विसयपडिहासमित्तं बालस्सेवक्खरयणविसयंति - [३७३] | मिथ्यादशामेतत बोध्यम् । यद्यपि मिथ्याशामपि घटादिज्ञानेन घटादिग्राह्यता निश्चीयत एव तथापि स्वविषयत्वावच्छेदेन तदनिश्चयान दोषः, स्वसंवेद्यस्य स्वस्यैव तदनिश्चयादिति व्यक्तं साधुसामग्यद्वात्रिंशिकायाम् । द्वितीयञ्च सम्यग्दृशाम् आत्मनः = स्वस्य परिणाम: अर्थानर्थप्रतिभासात्मा विद्यते यत्र तत् आत्मपरिणामवदिति व्युत्पत्तेः । इदञ्च ज्ञानावरणक्षयोपशमजन्यमवगन्तव्यम्, --> तथाविधप्रवृत्त्यादिव्यङ्ग्यं सदनुबन्धि च । ज्ञानावरणह्रासोत्थं प्रायो वैराग्यकारणम् ।। - [९/५] इति अष्टकवचनात् । तत्त्वं = | परमार्थः सम्यक् = प्रवृत्त्याद्युपहितत्वेन वेद्यते यस्मिंस्तत् तत्त्वसंवेदनं सज्ज्ञानावरणक्षयोपशमसंपाद्यं साधूनां बोध्यम् । अष्टकप्रकरणे -> स्वस्थवृत्तेः प्रशान्तस्य तद्धेयत्वादिनिश्चयम् । तत्त्वसंवेदनं सम्यग् यथाशक्ति फलप्रदम् ।। - [९/६] इति । प्रथमं पापकर्मणि निष्कम्पप्रवृत्त्या ज्ञायते, द्वितीयं तत्र सकम्पप्रवृत्त्यादिना, तृतीयञ्च निरवद्यप्रवृत्त्या विज्ञायते । ततश्च प्रकृते आगमपरिणतिः आत्मपरिणतिवज्ज्ञानात्मिका बोध्या । तदुच्छेदकत्वेन = भवव्याधिविनाशकत्वेन । अनेनागमपरिणतिलक्षणस्यौषधस्य समीचीनत्वमावेदितम् । निर्दोपमिति । न चैवं सम्यग्दृशां पापप्रवृत्ति: नैव स्यात्, अन्यथाऽऽत्मपरिणतिवज्ज्ञानस्य निर्दोषता व्याहतेरिति वक्तव्यम्, पूर्वार्जितेन कर्मणा चारित्रमोहोदयजनितान्तरायलक्षणे प्रतिबन्धे सति अपि श्रद्धादिभावात् = वस्तुगतगुण-दोषपरिज्ञानपूर्वक-चारित्रेच्छासमन्वितत्वात्। [द्वा.द्वा.६/४] । तदुक्तं अष्टकप्रकरणे -> पातादिपरतन्त्रस्य तदोषादावसंशयम् । अनर्थाद्याप्तियुक्तम् चात्मपरिणतिमन्मतम् ।। [९./४] <- इति । उपदेशपदेऽपि > भिन्ने तु इतो नाणं जहक्खरयणेसु तग्गयं चेव । पडिबंधम्मि वि सद्भादिभावतो सम्मरूवं तु ॥३७४।। - इत्युक्तम् । तवृत्तौ -> 'प्रतिबन्धेऽपि = तथाविधज्ञानावरणोदयाद् विघातेऽपि श्रद्धादिभावतः = 'तमेव सच्चं निसंकं जं जिणेहिं पवेइयं' इत्यादेः श्रद्धानस्य आदिशब्दात् गीतार्थप्रज्ञापनीयत्वस्य च भावात् - [पृ.२२१] इति मुनिचन्द्रसूरयः । 'प्रतिबन्धेऽपि = सदनुष्ठानव्याघातेऽपी' ति जिनेश्वरसूरयः [९/४ अष्टकवृत्ति] । तस्मात् = द्वितीयज्ञानात्मकाssगमपरिणतेर्भवव्याधिविनाशकत्वात् आगमवचनपरिणत्यां सत्यां कालान्तरे प्रकृष्टः तत्त्वसंवेदननामा प्रकाशो जायत इत्यध्याहारेणान्वयो बोध्यः । न च तस्यैव कथं प्रकृष्टत्वमिति शङ्कनीयम्, तत्त्वसंवेदनस्य सज्ज्ञानावरणहासोत्थत्वात् = दर्शनमोहक्षयोपशमप्रभृतिप्राबल्यप्रयुक्तचारित्रमोहक्षयोपशमानुविद्भ-ज्ञानावरणक्षयोपशमजन्यत्वात्, शुद्धोपादेयत्वादिविपयत्वाच्च = शुद्धनिश्चयनयाभिप्रेतोपादेयत्व-हेयत्वनिष्ठप्रकारतानिरूपितप्रकारिताविशिष्टत्वाच्च । ततश्च न रजोहरणादिचारित्रोपकरणादिगोचरे व्यवहार|नयाभिमतोपादेयतावगाहिनि अविरतसम्यग्दृष्टिबोधेऽतिव्याप्तिरिति विभावनीयम् । इदञ्च महोदयनिबन्धनम्, -> 'न्याय्यादी शुद्धवृत्त्यादिगम्यमेतत्प्रकीर्तितम् । सज्ज्ञानावरणापायं, महोदयनिबन्धनम् ।। - [९/७] इति अष्टकवचनात् । ટીકા :- અજ્ઞાનાવરણ કર્મના હાસથી ઉત્પન્ન થનાર ઉપાદેયત્વાદિઅવિષયક બાળકોના જ્ઞાન જેવું, વિષયપ્રતિભાસ જ્ઞાનને ઓળંગી ગયેલ તેમ જ જ્ઞાનાવરાણના ક્ષયોપશમથી ઉત્પન્ન થયેલ ઉપાદેયાદિવિષયક આત્મપરિણતિવાળું જ્ઞાન એ જ આગમવચનપરિગતિ. સંસારરૂપી રોગનું તે અમોઘ ઔષધ છે, કેમ કે તે સંસારરોગનાશક છે. તે નિર્દોષ છે; કારણ કે ચારિત્રમોહનીય કર્મના ઉદયના લીધે અંતરાય હોવા છતાં પણ તેને ચારિત્રની સચોટ શ્રદ્ધા હોય છે. આમ હોવાના લીધે જ દર્શિત આગમવચનપરિણતિ હોતે છતે તત્ત્વસંવેદન નામનો પ્રકૃટ બોધ ઉત્પન્ન થાય છે કે જે સતજ્ઞાનાવરાણકર્મના ક્ષયોપશમથી ઉત્પન્ન થયેલ હોય છે. અને શુદ્ધઉપાદેયત્વાદિવિષયક હોય છે. તે તત્ત્વસંવેદન નામનો પ્રકાશ = સબોધ વિરતિસ્વરૂપ સદનુકાનને તુરત ઉત્પન્ન કરે છે. માટે Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240