________________
ॐ त्रिविधज्ञानमीमांसा * हासोत्थोपादेयत्वादिविषयाऽऽत्मपरिणामवज्ज्ञानरूपा भवरोगस्य सदौषधं तदुच्छेदकत्वेन यत् = यस्मात् अनपायं = निर्दोषं, प्रतिबन्धेऽपि श्रद्धादिभावात् । तत् = तस्मात् इह आगमवचनपरिणत्यां सत्यां परः = प्रकृष्ट: सज्ज्ञानावरणहासोत्थत्वात् शुद्धोपादेयत्वादिविषयत्वाच्च । सद्बोध: तत्त्वसंवेदजनामा प्रकाश: सदनुष्ठानस्य विरति
। कल्याणकन्दली - हेयत्वाऽगोचरं बालादिबोधसदृशं यत् विषयप्रतिभासज्ञानं तस्मात् उत्तीर्णं = अतिक्रान्तं यत् मिथ्यात्वक्षयोपशमानुविद्धेन ज्ञानावरणक्षयोपशमेन जन्यं उपादेयत्व-हेयत्वविषयकं आत्मपरिणतिवज्ज्ञानं तद्रूपा परिणतिरिति शब्दार्थः । भावार्थस्त्वेवम् --> विषयप्रतिभासाऽऽत्मपरिणतिमत्तत्त्वसंवेदनरूपेण ज्ञानं त्रिधा भिद्यते । तदुक्तं मूलकारैः अष्टकप्रकरणे -> विषयप्रतिभासं चात्मपरिणतिमत्तथा । तत्त्वसंवेदनं चैव, ज्ञानमाहुमहर्षयः ।। - [९/१] इति । विषयस्यैव प्रतिभासो यत्र तत् विषयप्रतिभासं मत्यज्ञानावरणादिक्षयोपशमजन्यं हेयत्वाद्यविनिश्चयात्मकमाद्यं ज्ञानम् । तदुक्तं अष्टकप्रकरणे -> विषकण्टकरत्नादौ बालादिप्रतिभासवत् । | विषयप्रतिभासं स्यात् तद्धेयत्वाद्यवेदकम् ।। निरपेक्षप्रवृत्त्यादिलिङगमेतददाहृतम् । अज्ञानावरणापायं
- [९/२-३] इति । तदुक्तं उपदेशपदेऽपि -> विसयपडिहासमित्तं बालस्सेवक्खरयणविसयंति - [३७३] | मिथ्यादशामेतत बोध्यम् । यद्यपि मिथ्याशामपि घटादिज्ञानेन घटादिग्राह्यता निश्चीयत एव तथापि स्वविषयत्वावच्छेदेन तदनिश्चयान दोषः, स्वसंवेद्यस्य स्वस्यैव तदनिश्चयादिति व्यक्तं साधुसामग्यद्वात्रिंशिकायाम् । द्वितीयञ्च सम्यग्दृशाम् आत्मनः = स्वस्य परिणाम: अर्थानर्थप्रतिभासात्मा विद्यते यत्र तत् आत्मपरिणामवदिति व्युत्पत्तेः । इदञ्च ज्ञानावरणक्षयोपशमजन्यमवगन्तव्यम्, --> तथाविधप्रवृत्त्यादिव्यङ्ग्यं सदनुबन्धि च । ज्ञानावरणह्रासोत्थं प्रायो वैराग्यकारणम् ।। - [९/५] इति अष्टकवचनात् । तत्त्वं = | परमार्थः सम्यक् = प्रवृत्त्याद्युपहितत्वेन वेद्यते यस्मिंस्तत् तत्त्वसंवेदनं सज्ज्ञानावरणक्षयोपशमसंपाद्यं साधूनां बोध्यम् ।
अष्टकप्रकरणे -> स्वस्थवृत्तेः प्रशान्तस्य तद्धेयत्वादिनिश्चयम् । तत्त्वसंवेदनं सम्यग् यथाशक्ति फलप्रदम् ।। - [९/६] इति । प्रथमं पापकर्मणि निष्कम्पप्रवृत्त्या ज्ञायते, द्वितीयं तत्र सकम्पप्रवृत्त्यादिना, तृतीयञ्च निरवद्यप्रवृत्त्या विज्ञायते । ततश्च प्रकृते आगमपरिणतिः आत्मपरिणतिवज्ज्ञानात्मिका बोध्या ।
तदुच्छेदकत्वेन = भवव्याधिविनाशकत्वेन । अनेनागमपरिणतिलक्षणस्यौषधस्य समीचीनत्वमावेदितम् । निर्दोपमिति । न चैवं सम्यग्दृशां पापप्रवृत्ति: नैव स्यात्, अन्यथाऽऽत्मपरिणतिवज्ज्ञानस्य निर्दोषता व्याहतेरिति वक्तव्यम्, पूर्वार्जितेन कर्मणा चारित्रमोहोदयजनितान्तरायलक्षणे प्रतिबन्धे सति अपि श्रद्धादिभावात् = वस्तुगतगुण-दोषपरिज्ञानपूर्वक-चारित्रेच्छासमन्वितत्वात्। [द्वा.द्वा.६/४] । तदुक्तं अष्टकप्रकरणे -> पातादिपरतन्त्रस्य तदोषादावसंशयम् । अनर्थाद्याप्तियुक्तम् चात्मपरिणतिमन्मतम् ।। [९./४] <- इति । उपदेशपदेऽपि > भिन्ने तु इतो नाणं जहक्खरयणेसु तग्गयं चेव । पडिबंधम्मि वि सद्भादिभावतो सम्मरूवं तु ॥३७४।। - इत्युक्तम् । तवृत्तौ -> 'प्रतिबन्धेऽपि = तथाविधज्ञानावरणोदयाद् विघातेऽपि श्रद्धादिभावतः = 'तमेव सच्चं निसंकं जं जिणेहिं पवेइयं' इत्यादेः श्रद्धानस्य आदिशब्दात् गीतार्थप्रज्ञापनीयत्वस्य च भावात् - [पृ.२२१] इति मुनिचन्द्रसूरयः । 'प्रतिबन्धेऽपि = सदनुष्ठानव्याघातेऽपी' ति जिनेश्वरसूरयः [९/४ अष्टकवृत्ति] । तस्मात् = द्वितीयज्ञानात्मकाssगमपरिणतेर्भवव्याधिविनाशकत्वात् आगमवचनपरिणत्यां सत्यां कालान्तरे प्रकृष्टः तत्त्वसंवेदननामा प्रकाशो जायत इत्यध्याहारेणान्वयो बोध्यः । न च तस्यैव कथं प्रकृष्टत्वमिति शङ्कनीयम्, तत्त्वसंवेदनस्य सज्ज्ञानावरणहासोत्थत्वात् = दर्शनमोहक्षयोपशमप्रभृतिप्राबल्यप्रयुक्तचारित्रमोहक्षयोपशमानुविद्भ-ज्ञानावरणक्षयोपशमजन्यत्वात्, शुद्धोपादेयत्वादिविपयत्वाच्च = शुद्धनिश्चयनयाभिप्रेतोपादेयत्व-हेयत्वनिष्ठप्रकारतानिरूपितप्रकारिताविशिष्टत्वाच्च । ततश्च न रजोहरणादिचारित्रोपकरणादिगोचरे व्यवहार|नयाभिमतोपादेयतावगाहिनि अविरतसम्यग्दृष्टिबोधेऽतिव्याप्तिरिति विभावनीयम् । इदञ्च महोदयनिबन्धनम्, -> 'न्याय्यादी शुद्धवृत्त्यादिगम्यमेतत्प्रकीर्तितम् । सज्ज्ञानावरणापायं, महोदयनिबन्धनम् ।। - [९/७] इति अष्टकवचनात् ।
ટીકા :- અજ્ઞાનાવરણ કર્મના હાસથી ઉત્પન્ન થનાર ઉપાદેયત્વાદિઅવિષયક બાળકોના જ્ઞાન જેવું, વિષયપ્રતિભાસ જ્ઞાનને ઓળંગી ગયેલ તેમ જ જ્ઞાનાવરાણના ક્ષયોપશમથી ઉત્પન્ન થયેલ ઉપાદેયાદિવિષયક આત્મપરિણતિવાળું જ્ઞાન એ જ આગમવચનપરિગતિ. સંસારરૂપી રોગનું તે અમોઘ ઔષધ છે, કેમ કે તે સંસારરોગનાશક છે. તે નિર્દોષ છે; કારણ કે ચારિત્રમોહનીય કર્મના ઉદયના લીધે અંતરાય હોવા છતાં પણ તેને ચારિત્રની સચોટ શ્રદ્ધા હોય છે. આમ હોવાના લીધે જ દર્શિત આગમવચનપરિણતિ હોતે છતે તત્ત્વસંવેદન નામનો પ્રકૃટ બોધ ઉત્પન્ન થાય છે કે જે સતજ્ઞાનાવરાણકર્મના ક્ષયોપશમથી ઉત્પન્ન થયેલ હોય છે. અને શુદ્ધઉપાદેયત્વાદિવિષયક હોય છે. તે તત્ત્વસંવેદન નામનો પ્રકાશ = સબોધ વિરતિસ્વરૂપ સદનુકાનને તુરત ઉત્પન્ન કરે છે. માટે
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org