Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
१२२ पञ्चमं षोडशकम्
लोकोत्तरतत्त्वप्राप्तेरधिकारिणः प्रदर्शनम्
परमार्थत एव
तस्मात् चरमे पुद्गलावर्ते (नियमात् =) जियमेज इह जगति आगमवचनं तत्त्वतः खलु |परिणमति = उत्तरोत्तरफलमुपदधाति । स च परिणतागमवचनः अस्याः = लोकोत्तरतत्त्वसंप्राप्तेः अधिकारी भवति, ज शेषः ||५/८|| किमित्येवमागमवचनपरिणामोऽधिक्रियत इत्यत आह 'आगमे' त्यादि ।
आगमवचनपरिणतिर्भवरोगसदौषधं यदनपायम् । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति ॥५/९ ॥ आगमवचनस्य परिणति: अज्ञानावरणहासोत्थोपादेयत्वाद्यविषयबालादिज्ञानतुल्यविषयप्रतिभासोत्तीर्णज्ञानावरण
कल्याणकन्दली
=
मूलग्रन्थे दण्डान्वयस्त्वेवम् तस्मात् इह नियमात् चरमे पुद्गलावर्त्ते आगमवचनं तत्त्वतः खलु परिणमति । स च अस्या अधिकारी भवति ॥५ / ८ || इयं कारिका पष्ठिशतकवृत्त्यादौ [ष. श. गा. १६] समुद्धृता वर्तते । नियमेन चरमे पुद्गलावर्ते तथाभव्यत्वपरिपाकेन मिथ्यात्वकटुकत्वनिवृत्त्या मनाक् माधुर्यसिद्धेः आगमवचनं परमार्थत एव परिणमति, नान्यदा । तदुक्तं योगदृष्टिसमुच्चये -> चरमे पुद्गलावर्त्ते, तथाभव्यत्वपाकतः । संशुद्धमेतनियमान्नाऽन्यदापीति तद्विदः ||२४|| - इति । उत्तरोत्तरफलं मोहान्धकारनिवृत्त्युत्तरकालावच्छेदेन प्रधानं यद्वा उत्तरेषु प्रधानेषु उत्तरं प्रधानं यत् तत् उत्तरोत्तरं, तच्च फलं चेति । ततश्च सूक्ष्मभावप्रतिपत्ति-श्रद्धा-सदनुष्ठानादिलक्षणं फलं उपदधाति = जनयति । तदुक्तं धर्मबिन्दी -> - सूक्ष्मभावप्रतिपत्तिरिति, ततः श्रद्धामृताऽऽस्वादनमिति, ततः सदनुष्ठानयोग इति, ततः परमापायहानिरिति, सानुबन्धसुखभाव उत्तरोत्तर: प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निवृत्तेरिति, भवोपग्राहिकर्मविगम इति, ततः निर्वाणगमनमिति - [ध.बि.अ.८ / सू. २०-२१-२२-२३-२४-२६-२७] । परिणतागमवचनो लोकोत्तरतत्त्वसम्प्राप्तेः अधिकारी भवति । 'सर्वं वाक्यं सावधारणं, इष्टतोऽवधारणमि' तिन्यायावलम्बनेन व्यवच्छेद्यमाह -> न शेषः = अचरमावर्तकालवर्ती अपरिणताऽऽगमवचनो वा पुमान् । न च लोकोत्तरतत्त्वसम्प्राप्तौ ह्यागमवचनपरिणतिर्जायते आगमवचनपरिणतौ सत्याञ्च तदधिकारित्वमित्यन्योन्याश्रय उत्पत्तौ दुर्वार इति शङ्कनीयम्, चरमावर्तकालोपलक्षिताया आगमवचनपरिणमनयोग्यताया एव लोकोत्तरतत्त्वसंप्राप्त्यधिकारित्वावच्छेदकत्वात् तस्याश्च प्रागुक्तलिङ्गादिना सुज्ञानत्वादिति सर्वं चतुरस्रम् । अपुनर्बन्धकाद्यवस्थासम्भवशुभभावलक्षणस्याऽमृतस्याऽपरिणमनेऽपि ज्ञान - ज्ञानिभक्तिवृद्धिप्रभृतिरूपा भावास्तु भवन्त्येव । यथोक्तं पञ्चाशके अमए देहमए जह अपरिणयम्मिवि सुभा उ भावन्ति । तह मोक्खहेउअमर अण्णेहिवि हंदि णिद्दिट्ठो ॥ ← [३/१२] इति । इदञ्च व्यवहारतो ज्ञेयम् । निश्चयनयेन तु भिन्नग्रन्थिरेवास्या अधिकारी । तदुक्तं मूलकारैरेव -> निच्छयओ पुण एसो विन्नेओ गंठिभेयकालो उ । एयम्मी विहिसतिपालणा हि आरोग्गमेयाओ || ४३३|| <- इत्येवं उपदेशपदे इति ध्येयम् ||५ / ८॥
->
यद् आगमवचनपरिणति: अनपायं भवरोगसदौषधं तत् इह सदनुष्ठानस्य हेतुः परः सद्बोध
मूलग्रन्धे दण्डान्वयस्त्वेवम् - इति ॥५/९॥
=
अज्ञानावरणह्लासेत्यादि । मिथ्यात्वोदयकर्बुरितेन मत्याद्यज्ञानावरणाभिधानकर्मक्षयोपशमेन उत्थं
उत्पन्नं उपादेयत्वગાથાર્થ :- તેથી અહીં નિયમા ચરમ પુદ્ગલપરાવર્તમાં આગમવચન તાત્ત્વિક રીતે જ પરિણમે છે અને તે જ લોકોત્તર तत्त्वनी प्राप्तिनो अधिकारी छे. [४ / ८ ]
=
Æ લોકોત્તરતāપ્રાપ્તિના અધિકારીને ઑળખી લો ૢ
ઢીકાર્થ :- માટે આ જગતમાં નિયમા ચરમપુદ્ગલપરાવર્તમાં આગમવચન પરમાર્થથી જ ઉત્તરોત્તર ફલને લાવી આપે છે. આગમવચન જેને પરિણત થયેલ છે તે જ જીવ લોકોત્તરતત્ત્વસંપ્રાપ્તિનો અધિકારી થાય છે, બીજો કોઈ નહિ. [૫/૮]
> શા માટે આ રીતે આગમવચનની પરિણતિવાળા જીવને જ પ્રસ્તુતમાં અધિકારી બનાવાય છે ? ~ આ સમસ્યાનું સમાધાન કરતાં મૂલકારથી કહે છે કે –
गाथार्थ :કારણ કે આગમવચનપરિણતિ સંસારરૂપી રોગનું નિર્દોષ એવું સમ્યક્ ઔષધ છે. તેથી તે હોતે છતે સદનુષ્ઠાનનો हेतु प्रष्ट सद्भोध थाय छे. [4 / ]
Jain Education Intemational
8358 આગમવચનપરિણતિ અમોઘ ષધ
१. आगमवचनपरिणतिर्भवरोगसदीषधं भवति यस्मात् । निरपायं तदिह परः सदनुष्ठानस्य हेतुरिति ॥५/९॥ इति पाठान्तरम् ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240