Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 136
________________ 838 देवादिगोचरकदाग्रहस्य त्याज्यता 88 सवचजस्य परसमयेऽपि स्वसमयाऽजज्यत्वात् । __ कल्याणकन्दली al= निरुपचरितरीत्या युज्यमानार्थकस्य वचनस्य परसमयेऽपि स्वसमयाऽनन्यत्वात् = जिनवचनानतिरिक्तत्वात् । il अत एव तस्याऽपि ग्राह्यत्वमेव । तदुक्तं विष्णुपुराणेऽपि --> युक्तिमद्वचनं ग्राह्यं मयाऽन्यैश्च भवद्विधैः ४-३/१८२०] इति । तदुक्तं योगबिन्दी --> आत्मीयः परकीयो वा क: सिद्धान्तो विपश्चिताम् । दृष्टेष्टाऽबाधितो यस्तु युक्तस्तस्य परिग्रहः In५२५|| ४- इति । लोकतत्त्वनिर्णयेऽपि -> पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्य: परिग्रहः ॥३८|| -- इत्युक्तम् । अन्यत्रापि --> निकषच्छेदतापैश्च सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षवो ! ग्राह्यं मद्बचो न तु गौरवात् ।। - [ ] इति प्रोक्तम् । सम्मतितर्केऽपि --> भई मिच्छादंसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स विग्गसहाहिगम्मस्स ।। [३/६९] इत्युक्तम् । तदक्तं उपदेशपदे --> इत्तो अकरणनियमो अन्नेहि वि वण्णिओ ससत्थयम्मि। सुहभावविसेसाओ न चेवमेसो न जुत्तोत्ति ।।६९२।। जं अत्थओ अभिन्न अण्णत्था सद्दओ वि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं ॥६९३।। - इति । ततः तदपलापे परमार्थतो द्वादशाङ्ग्याशातनाऽऽपात इति तादशः सम्मोहो त्याज्य इत्युपदेशः । योगदीपिकायां अहिंसादीनामित्यत्र आदिपदेन सजातीयत्वात् सत्याऽस्तेयादीनां ग्रहणम् ।। उपलक्षणाच्च मुक्ति-देवादीनामुपग्रहः कार्यः । यथा कैश्चित् सदाशिवपदेन, वैदिकैः ‘परं ब्रह्म' इत्युक्त्या, अन्यैः 'सिद्धात्मा' इत्येवं, अपरैः 'तथाते'त्येवं निर्वाणतत्त्वमभिधीयते । तदुक्तं योगदृष्टिसमुच्चये --> सदाशिवः परं ब्रह्म, सिद्धात्मा तथातेति च । शब्दैस्तदच्यतेऽन्वादेकमेवैवमादिभिः ॥१३०|| - इति । एवं परमोपास्यतया जैनै: जिनोऽभिधीयते, नैयायिकैः महेश्वर:, वेदान्तिभिः ब्रह्म, क्षणिकवादिभिश्च बोधिसत्त्व इत्युच्यते, उपास्यतावच्छेदकञ्च सर्वत्र रागादिक्लेशराहित्यमेवेति न तत्त्वतो देवोऽपि ||भिद्यते । अयोगव्यवच्छेदद्वात्रिंशिकायामपि --> यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुष: स चेद्भवानेक एवं भगवन्नमोऽस्तु ते ॥३१।। - इत्युक्तम् । तदक्तं टीकाकृतैव परमज्योतिःपञ्चविंशतिस्तोत्रे -> बुद्धो जिनो हृषिकेशः, शम्भु-ब्रह्मादिपुरुषः । इत्यादिनामभेदेऽपि नार्थतः स विभिद्यते ॥७|| ६- इति । अध्यात्मसारेऽपि --> मुक्तो बुद्धोऽर्हनन् वाऽपि यदैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात् संज्ञाभेदोऽत्र केवलम् ।। - [१५/६९] इत्युक्तम् ।। स्वसम्प्रदायप्राप्तत्वेनाभिनिवेशादेव देवग्रहो महामोह एव । तदुक्तं योगसारे -> बुद्धो वा यदि वा विष्णुः यद्वा ब्रह्माथवेश्वरः । उच्यतां स जिनेन्द्रो वा नार्थभेदस्तथापि हि ।। [१/३६] ममैव देवो देवः स्यात् तव नैवेति केवलम् । मत्सरस्फुर्जितमेतदज्ञानानां विजृम्भितम् ॥ - [१/३७] । अतो नान्धश्रद्धयैव देव उपास्यत्वेन स्वीकर्तव्यः । तदुक्तं श्रीसिद्धसेनदिवाकरसूरिभिरपि --> न केवलं श्राद्धतयैव नूयसे गुणज्ञपूज्योऽसि यतोऽयमादरः [ ] - । श्रीहेमचन्द्रसूरिभिरपि --> न श्रद्धयैव त्वयि पक्षपातो, न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु, त्वामेव वीर ! प्रभुमाश्रिताः स्म ||२९|| - इत्येवं अयोगव्यवच्छेदद्वात्रिंशिकायां प्रत्यपादि । तदुक्तं श्रीहेमचन्द्रसूरिवरेणैव महादेवद्वात्रिंशिकायां -> एकमूर्तिस्त्रयो भागा ब्रह्मविष्णु-महेश्वराः । तान्येव पुनरुक्तानि ज्ञान-दर्शन-चारित्रैः ॥२०॥ ज्ञानं विष्णुः सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते । सम्यक्त्वमीश्वरः प्रोक्तः, अर्हन्मूर्तिस्त्र्यात्मिका ।।२७।। अकारेण भवेद् विष्णू रेफे ब्रह्मा व्यवस्थितः, हकारेण हर:प्रोक्तः तस्यान्ते परमं पदम् ॥३२|| भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा महेश्वरो वा नमस्तस्मै ।।३३।। - इति । अर्हन्नामसहस्रसमुच्चयेऽपि --> महाजिनो महाबुद्धो महाब्रह्मा महाशिवः । महाविष्णुर्महाजिष्णुमहानाधो महेश्वरः ।। ६/२] - इत्युक्तम् । तदक्तं मूलकारैरपि लोकतत्त्वनिर्णये -> यस्य निखिलाश्च दोषा न सन्ति सर्वे गणाश्च विद्यन्ते ।। ब्रह्मा वा विष्णुः वा हरो जिनो वा नमस्तस्मै ॥४०॥ परमात्मद्वात्रिंशिकायां श्रीसिद्धसेनदिवाकरसूरिभिरपि -> वि ब्रह्म-लोकेश-शम्भु-स्वयम्भू-चतुर्वक्त्रमुख्याभिधानां विधानम् । ध्रुवोऽथ य ऊचे जगत्सर्गहेतुः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥७॥ «- इत्युक्तम् । श्रीमुनिसुन्दरसूरिभिरपि गुर्वावल्यां -> त्वं शङ्करः सर्वजनेष्टकर्ता, ब्रह्मा त्वमेवाखिलब्रह्मनिष्ठ - [२४७] इत्युक्तम् । तदुक्तं योगप्रदीपेऽपि --> शङ्करो वा जिनेशो वा यो यस्याभिमतः सदा । एक एव प्रभुः शान्तो निर्वाणस्थो विलोक्यते ॥२४|| ब्राह्मणैर्लक्ष्यते ब्रह्मा विष्णुः पीताम्बरैस्तथा । रुद्रस्तपस्विभिर्दष्ट एष एव निरञ्जनः ॥३३|| जिनेन्द्रो जलप्यते जैनैः बुद्धः कृत्वा च सौगतैः । कौलिकैः कौल आख्यातः स एवायं सनातनः ॥३४॥ स्फटिको बहरूपः स्याद्यथैवोपाधिवर्जितः । स तथा दर्शनैः षभिः ख्यात एकोऽप्यनेकधा ||३५|| - इति । भक्तामरस्तोत्रे श्रीमानतुङ्गसूरिभिरपि --> बुद्धस्त्वमेव विबुधार्चित ! बुद्धिबोधात्, त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधाવગેરે પ્રતિપાદક મારે આગમ જ સારા છે. અકરાણનિયમ વગેરેના પ્રતિપાદક અન્ય દર્શનકારોના આગમ સારા નથી.” ખરેખર આ કદાગ્રહખરાબ આગ્રહ જ છે; કારણ કે પરદર્શનના આગમમાં રહેલા પાળ દરેક સત્ય વચન = અબાધિત વાક્યો જેનાગમથી અભિન્ન જ છે. For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240