________________
838 देवादिगोचरकदाग्रहस्य त्याज्यता 88 सवचजस्य परसमयेऽपि स्वसमयाऽजज्यत्वात् ।
__ कल्याणकन्दली al= निरुपचरितरीत्या युज्यमानार्थकस्य वचनस्य परसमयेऽपि स्वसमयाऽनन्यत्वात् = जिनवचनानतिरिक्तत्वात् । il अत एव तस्याऽपि ग्राह्यत्वमेव । तदुक्तं विष्णुपुराणेऽपि --> युक्तिमद्वचनं ग्राह्यं मयाऽन्यैश्च भवद्विधैः ४-३/१८२०]
इति । तदुक्तं योगबिन्दी --> आत्मीयः परकीयो वा क: सिद्धान्तो विपश्चिताम् । दृष्टेष्टाऽबाधितो यस्तु युक्तस्तस्य परिग्रहः In५२५|| ४- इति । लोकतत्त्वनिर्णयेऽपि -> पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्य: परिग्रहः ॥३८|| -- इत्युक्तम् । अन्यत्रापि --> निकषच्छेदतापैश्च सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षवो ! ग्राह्यं मद्बचो न तु गौरवात् ।। - [ ] इति प्रोक्तम् । सम्मतितर्केऽपि --> भई मिच्छादंसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स
विग्गसहाहिगम्मस्स ।। [३/६९] इत्युक्तम् । तदक्तं उपदेशपदे --> इत्तो अकरणनियमो अन्नेहि वि वण्णिओ ससत्थयम्मि। सुहभावविसेसाओ न चेवमेसो न जुत्तोत्ति ।।६९२।। जं अत्थओ अभिन्न अण्णत्था सद्दओ वि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं ॥६९३।। - इति । ततः तदपलापे परमार्थतो द्वादशाङ्ग्याशातनाऽऽपात इति तादशः सम्मोहो
त्याज्य इत्युपदेशः । योगदीपिकायां अहिंसादीनामित्यत्र आदिपदेन सजातीयत्वात् सत्याऽस्तेयादीनां ग्रहणम् ।।
उपलक्षणाच्च मुक्ति-देवादीनामुपग्रहः कार्यः । यथा कैश्चित् सदाशिवपदेन, वैदिकैः ‘परं ब्रह्म' इत्युक्त्या, अन्यैः 'सिद्धात्मा' इत्येवं, अपरैः 'तथाते'त्येवं निर्वाणतत्त्वमभिधीयते । तदुक्तं योगदृष्टिसमुच्चये --> सदाशिवः परं ब्रह्म, सिद्धात्मा तथातेति च । शब्दैस्तदच्यतेऽन्वादेकमेवैवमादिभिः ॥१३०|| - इति । एवं परमोपास्यतया जैनै: जिनोऽभिधीयते, नैयायिकैः महेश्वर:, वेदान्तिभिः ब्रह्म, क्षणिकवादिभिश्च बोधिसत्त्व इत्युच्यते, उपास्यतावच्छेदकञ्च सर्वत्र रागादिक्लेशराहित्यमेवेति न तत्त्वतो देवोऽपि ||भिद्यते । अयोगव्यवच्छेदद्वात्रिंशिकायामपि --> यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुष: स चेद्भवानेक एवं भगवन्नमोऽस्तु ते ॥३१।। - इत्युक्तम् । तदक्तं टीकाकृतैव परमज्योतिःपञ्चविंशतिस्तोत्रे -> बुद्धो जिनो हृषिकेशः, शम्भु-ब्रह्मादिपुरुषः । इत्यादिनामभेदेऽपि नार्थतः स विभिद्यते ॥७|| ६- इति । अध्यात्मसारेऽपि --> मुक्तो बुद्धोऽर्हनन् वाऽपि यदैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात् संज्ञाभेदोऽत्र केवलम् ।। - [१५/६९] इत्युक्तम् ।। स्वसम्प्रदायप्राप्तत्वेनाभिनिवेशादेव देवग्रहो महामोह एव । तदुक्तं योगसारे -> बुद्धो वा यदि वा विष्णुः यद्वा ब्रह्माथवेश्वरः । उच्यतां स जिनेन्द्रो वा नार्थभेदस्तथापि हि ।। [१/३६] ममैव देवो देवः स्यात् तव नैवेति केवलम् । मत्सरस्फुर्जितमेतदज्ञानानां विजृम्भितम् ॥ - [१/३७] । अतो नान्धश्रद्धयैव देव उपास्यत्वेन स्वीकर्तव्यः । तदुक्तं श्रीसिद्धसेनदिवाकरसूरिभिरपि --> न केवलं श्राद्धतयैव नूयसे गुणज्ञपूज्योऽसि यतोऽयमादरः [ ] - । श्रीहेमचन्द्रसूरिभिरपि --> न श्रद्धयैव त्वयि पक्षपातो, न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु, त्वामेव वीर ! प्रभुमाश्रिताः स्म ||२९|| - इत्येवं अयोगव्यवच्छेदद्वात्रिंशिकायां प्रत्यपादि । तदुक्तं श्रीहेमचन्द्रसूरिवरेणैव महादेवद्वात्रिंशिकायां -> एकमूर्तिस्त्रयो भागा ब्रह्मविष्णु-महेश्वराः । तान्येव पुनरुक्तानि ज्ञान-दर्शन-चारित्रैः ॥२०॥ ज्ञानं विष्णुः सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते । सम्यक्त्वमीश्वरः प्रोक्तः, अर्हन्मूर्तिस्त्र्यात्मिका ।।२७।। अकारेण भवेद् विष्णू रेफे ब्रह्मा व्यवस्थितः, हकारेण हर:प्रोक्तः तस्यान्ते परमं पदम् ॥३२|| भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा महेश्वरो वा नमस्तस्मै ।।३३।। - इति । अर्हन्नामसहस्रसमुच्चयेऽपि --> महाजिनो महाबुद्धो महाब्रह्मा महाशिवः । महाविष्णुर्महाजिष्णुमहानाधो महेश्वरः ।। ६/२] - इत्युक्तम् । तदक्तं मूलकारैरपि लोकतत्त्वनिर्णये -> यस्य निखिलाश्च दोषा न सन्ति सर्वे गणाश्च विद्यन्ते ।। ब्रह्मा वा विष्णुः वा हरो जिनो वा नमस्तस्मै ॥४०॥ परमात्मद्वात्रिंशिकायां श्रीसिद्धसेनदिवाकरसूरिभिरपि -> वि ब्रह्म-लोकेश-शम्भु-स्वयम्भू-चतुर्वक्त्रमुख्याभिधानां विधानम् । ध्रुवोऽथ य ऊचे जगत्सर्गहेतुः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥७॥ «- इत्युक्तम् । श्रीमुनिसुन्दरसूरिभिरपि गुर्वावल्यां -> त्वं शङ्करः सर्वजनेष्टकर्ता, ब्रह्मा त्वमेवाखिलब्रह्मनिष्ठ - [२४७] इत्युक्तम् । तदुक्तं योगप्रदीपेऽपि --> शङ्करो वा जिनेशो वा यो यस्याभिमतः सदा । एक एव प्रभुः शान्तो निर्वाणस्थो विलोक्यते ॥२४|| ब्राह्मणैर्लक्ष्यते ब्रह्मा विष्णुः पीताम्बरैस्तथा । रुद्रस्तपस्विभिर्दष्ट एष एव निरञ्जनः ॥३३|| जिनेन्द्रो जलप्यते जैनैः बुद्धः कृत्वा च सौगतैः । कौलिकैः कौल आख्यातः स एवायं सनातनः ॥३४॥ स्फटिको बहरूपः स्याद्यथैवोपाधिवर्जितः । स तथा दर्शनैः षभिः ख्यात एकोऽप्यनेकधा ||३५|| - इति । भक्तामरस्तोत्रे श्रीमानतुङ्गसूरिभिरपि --> बुद्धस्त्वमेव विबुधार्चित ! बुद्धिबोधात्, त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधाવગેરે પ્રતિપાદક મારે આગમ જ સારા છે. અકરાણનિયમ વગેરેના પ્રતિપાદક અન્ય દર્શનકારોના આગમ સારા નથી.” ખરેખર આ કદાગ્રહખરાબ આગ્રહ જ છે; કારણ કે પરદર્શનના આગમમાં રહેલા પાળ દરેક સત્ય વચન = અબાધિત વાક્યો જેનાગમથી અભિન્ન જ છે.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org