Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
१०२ चतुर्थं षोडशकम्
* सदसदभिनिवेशविचार: * मदीयागम: समीचीन: अकरणनियमादिप्रतिपादकाऽज्याऽऽगमो न समीचीन' इत्यस्य'दुराऽऽग्रहत्वात्, सर्वस्यापि
कल्याणकन्दली तृतीयकल्पमाविष्करोति यद्वेति । 'मदीयागमः एव समीचीन' इति । परमतमात्सर्यप्रयुक्तमेतत् । तदुक्तं योगसारे -> मदीयं दर्शनं मुख्यं पाखण्डान्यपराणि तु । मदीय आगमः सारः परकीयास्त्वसारकाः || तात्त्विका वयमेवान्ये भ्रान्ताः सर्वेऽप्यतात्त्विकाः । इति मत्सरिणो दरोत्सारितास्तत्त्वसारतः ॥ ४-२/९-१०] इति । नयतत्त्वानवबोधविजृम्भितमेतत् ।। इदमेवाभिप्रेत्य अध्यात्मगीतायां --> सर्वनयोक्ततत्त्वानां बोधं विना जगज्जनाः । परस्परश्च युध्यन्ति क्लिश्यन्ति धर्मभेदतः ।।
- [११७] इत्युक्तम् । अकरणनियम-महाव्रतादिस्वपरिभाषाभेदेनेति । अकरणनियमलक्षणन्तु -> पावे अकरणनियमो पायं परतन्निवित्तिकरणाओ। नेयो य गंठिभेए, भुज्जो तदकरणरूवो उ ॥६१५|| «- इत्येवं उपदेशपदे वर्तते । प्रकृतं प्रक्रियतेअन्यैः अकरणनियमपदेन अहिंसादयः परिभाष्यन्ते, जैनैश्च महाव्रतशब्देनाभिधीयन्ते । व्रतप्रातिपदिकेन च भागवतैः, यदाहुस्ते "पञ्च व्रतानि पञ्चोपव्रतानि", ब्रतानि = यमाः, उपव्रतानि = नियमाः इति । विष्णुभक्तिचन्द्रोदये --> ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् । व्रते चैतानि चत्वारि चरितव्यानि नित्यशः ।। 6- इत्युक्तम् । साङ्ख्यैः व्यासानुसारिभिश्च यमपदेनाभिलप्यन्ते 'पञ्च यमाः, पञ्च नियमाः । तत्र यमा: अहिंसा सत्यमस्तेयं ब्रह्मचर्यव्यवहारश्चेति, नियमास्तु -→ 'अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । अप्रमादश्चेति - [ ] । याज्ञवल्क्यस्मृतौ तु -> ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसाऽ-स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ।। स्नानं मौनोपवासेज्या स्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाऽक्रोधप्रमादता ।। [प्राय.३१२/३१३] ८-- इत्युक्तम् । पाशुपतैः धर्मपदेनोच्यन्ते, यतस्ते दश धर्मानाहुः “अहिंसा सत्यवचनमस्तैन्यं चाप्य-कल्पना । ब्रह्मचर्यं तथाऽक्रोधो ह्यार्जवं शौचमेव च । सन्तोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः ।।" - [] इति । बौद्धैस्तु कुशलधर्मपदेन प्रोच्यन्ते । यदाहस्ते --> 'दशाऽकुशलानि, तद्यथा-हिंसा स्तेयाऽन्यथाकामं पैशून्यं परुषानृतम् । सम्भि-नालापं व्यापादमभिध्या दृग्विपर्ययम् ।। पापकर्मेति दशधा काय-वाङ्-मानसैस्त्यजेत् ।' [ ] «- इति । अत्र अन्यथाकामः = पारदार्य, सम्भिन्नालापोऽसम्बद्धभाषणं, व्यापादः = परपीडाचिन्तनम, अभिध्या = धनादिष्वसन्तोषः, परिग्रह इति यावत्, दृग्विपर्ययो = मिथ्याभिनिवेशः एतद्विपर्ययाच्च दश कुशलधर्मा भवन्तीति । वैदिकादिभिश्च ब्रह्मादिनाम्ना निरूप्यन्ते । वस्तुतस्तु यमादय एव दशाविशेषमापन्ना महाव्रतादिपदेनोच्यन्ते, तदुक्तं पातञ्जलयोगसूत्रे -> अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा। यमाः [२/३०] जाति-देश-काल-समयानवच्छिन्ना:सार्वभौमा महाव्रतम् -[२/३१] । आत्मनो नित्यत्वानित्यत्व-विभुत्वाणुत्वाबद्धत्व-बद्धत्वादिगोचरमतभेदस्य सत्त्वेऽपि अहिंसा-सत्यादिस्वरूपचारित्राभ्युपगमस्तु सर्वेषु तन्त्रेषु निर्विवाद एव । तदेव च ज्ञानफलमिति न नामभेदादिकमवलम्ब्य तत्र द्वेष उचितः । तदुक्तं न्यायविजयेन अध्यात्मतत्त्वालोके -> ज्ञानस्य शाखा । भुवि भिन्नभिन्नाश्चारित्रतत्त्वं पुनरेकमेव । तदेव च ज्ञानफलं विधेयं न धर्मभेदे विषमाशयः स्यात् ।। - [८/३५] योगप्रदीपेऽपि --> धर्ममार्गा घनाः सन्ति दर्शनानां विभेदतः । मोक्षार्थं समतां यान्ति समुद्रं सरितो यथा ॥८७||४- इत्युक्तम् । इदमेवाभिप्रेत्या टीकाकृता अध्यात्मोपनिषत्प्रकरणे -> तेन स्याद्वादमालम्ब्य सर्वदर्शनतुल्यताम् । मोक्षोदेशाविशेषेण यः पश्यति स शास्त्रवित् ॥ <-- [१/७०] इत्युक्तम् । तथाऽपि नाममात्रभेदपुरस्कारेण स्वकीय-परकीययोः सम्यक्त्व-मिथ्यात्वाभिप्रायस्य दुराग्रहत्वात् = आभिग्रहिकमिथ्यात्वरूपत्वात्, अहिंसादीनां सर्वेषामेव धर्मत्वेनेष्टत्वात्, यथोक्तं याज्ञवल्क्यस्मृतौ एव --> अहिंसा सत्यमस्तेय शौचमिन्द्रियनिग्रहः । दानं दया दम:क्षान्तिः सर्वेषां धर्मसाधनम् ॥ ४- [५/१२२] इति । तदुक्तं नीतिशतके भर्तृहरिणाऽपि --> प्राणाऽऽघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं, काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णास्रोतोविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा, सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेषः पन्थाः ।। [२६] «- |
प्रत्यन्तरे -> आग्रहत्वात् -- इति पाठः । स चाशुद्धः । तत्त्वाभिनिवेशस्य कर्तव्यत्वात् । तदुक्तं धर्मविन्दौ| -> तथा तत्त्वाभिनिवेश इति -- [ध.बि.५/४९] । वक्ष्यति चाग्रे --> 'श्रवणं तत्त्वाभिनिवेशपरमफलं - [११/४] इति । तदुक्तं योगदृष्टिसमुच्चयेऽपि -> कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम्।। 11८८|| - इति । श्रुतपदेनात्राऽर्थाऽऽगमो बोध्यो न तु सूत्रागम इति ध्येयम् । तदेव स्पष्टयति --> सर्वस्यापि सद्वचनस्य
અથવા અન્ય વ્યાખ્યા એવી થઈ શકે કે ગુણ - શબ્દાર્થ, શબ્દના અર્થની અપેક્ષાએ તન્ય સમાન હોવા છતાં અહિંસા વગેરેના નામભેદથી શાસ્ત્રોને વિશે વિપરીતદષ્ટિવાળો પુરુષ જેનાથી થાય છે તે દષ્ટિસંમોહ દોષ લાવો. જેમ કે સાંખ્યના આગમમાં હિંસાની નિવૃત્તિને ‘નિય' કહે છે, જેનાગમમાં મહાવ્રત કહે છે. અન્યના શાસ્ત્રોમાં અકરણનિયમ પાણ કહે છે. દરેક સંપ્રદાયના આગમોમાં આ રીતે એક જ હિંસાનિવૃત્તિ અલગ અલગ પારિભાષિક શબ્દો દ્વારા જણાવેલ છે. દષ્ટિસંમોહ દોષના લીધે પુરુષને એ ખોટો આગ્રહ થાય છે કે “અહિંસાને ઉદ્દેશીને મહાવત १. मुद्रितप्रती 'चाग्र हत्वादिति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9d9a6efee5837a020ef9784bfa2b46c0ebfdbd6c0f782282428ca1972d8a73be.jpg)
Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240