Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 134
________________ * यज्ञस्थलीयहिंसाविचार: * परयोर्भावापविनिवारणाऽध्यवसायप्रवृद्धया न दृष्टिसम्मोहाऽऽख्यो दोषः, दर्शनं = आगमः तत्र सम्मोहः = सम्मूढतेत्यर्थाभातात्. तत्त्वत: तस्याऽऽरम्भपरिवर्जकत्वेनाऽसम्मूढत्वात् । यद्वा गुणत: : शब्दार्थत: तुल्ये तत्त्वेऽहिंसादीनां संज्ञाभेदेन = अकरण-नियम-महाव्रतादिस्वपरिभाषाभेदेन आगमेषु = पातअल-जैजादिशास्त्रेषु अन्यथादृष्टि: पुरुषो यतो भवति स दृष्टिसम्मोहः, 'महाव्रतादिप्रतिपादको कल्याणकन्दली शङ्कनीयम्, जिनायतनसत्कग्रामक्षेत्राद्यारम्भं = स्वरूपहिंसां कात्स्येन अपरिहरतोऽपि स्व-परयोः भावापद्विनिवारणाऽध्यवसायप्रवृद्ध्या न दृष्टिसंमोहाऽऽख्यो दोषः, विधिविशुद्धप्रवर्धमानाशयेन तत्स्वरूपप्रच्यवादित्याह --> दर्शनं = आगमः, तत्र = आगमे सम्मूढता इत्यर्थाभावात् = दृष्टिसम्मोहपदप्रवृत्तिनिमित्तविरहात् । स्वाशयविशुद्धयादिकञ्च स्तवपरिज्ञायां -> पेच्छिस्सं एत्थं इह, वंदणगणिमित्तमागए. साहू । कयपुण्णे भगवंते, गुणरयणणिही महासत्ते ।। पडिबुज्झिस्संति इहं दह्रण जिणिंदबिंबमकलंकं । अण्णेवि भब्वसत्ता काहिंति ततो परं धम्मं ।। ता एअमेव वित्तं, जमित्थमुवओगमेइ अणवरयं । इय चिंताऽपरिवडिया, सासयवुड्डी उ मोक्खफला ।। - [१७/१८/१९] इति इत्येवमुक्तम् । अत एव तत्त्वतः = फललक्षणं परमार्थमधिकृत्य तस्य आरम्भपरिवर्जकत्वेन असंमूढत्वात् । तदक्तं श्रीजिनेश्वरसूरिभिः पञ्चलिङ्गिप्रकरणे -> पुढवाइयाण जइवि हु होइ विणासो जिणालयेहिंतो । तञ्चिसया वि सुदिहिस्स णियमओ अत्थि अणुकंपा ॥ एयाहिंतो बुद्धा विरया रक्खंति जेण पुढवाई। इत्तो निव्वाणगया अबाहिया आभवमिमाणं ।। रोगिसिरावेहो इव सुविज्जकिरिया व सुप्पउत्ताओ । परिणामसुंदरच्चिय चिट्ठा से बाहजोगे वि || ४-५८-५९-६०] इति । वक्ष्यति चाग्रे -> यतनातो न च हिंसा यस्मादेषैव | तन्निवृत्तिफला । [६/१६ पृ.१५५] इत्यादिना ।। ___ अथ यथाविहिताचरणेन शास्त्रश्रद्धारूपो भावः परैरप्यनुगम्यत एवेति चेत् ? अनुगम्यताम्, परं केवलमसद्ग्रहरूपोऽयं, न तु योगानुभवगम्यो गुरुलाधवभावपर्यालोचनप्राणो रत्नत्रयमय इति संसाराभिनन्दिनामेवाश्रयणीयोऽयम् । एतेन --> काम्येऽपि यज्ञादी वेदविहिताचरणनिमग्नतया मन:शुद्भिरक्षतेति - परास्तम्, ईदशेन गायत्रीजपादिनाऽपि मन:शुद्धिसम्भवे हिंसाबहलकर्मानुष्ठानस्य सांख्यादिभिरपि निन्दितत्वात् । न च यागादिक्रियाः स्वर्ग साधयन्ति अपि, --> वृक्षान् छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ? ।। [पञ्चतंत्रे ३/१०७] इति भट्टारकश्रीशुकवचनादिति व्यक्तमुक्तं श्रीमेरुतुङ्गसूरिभिः षड्दर्शननिर्णये [जैनदार्शनिकप्रकरणसङ्ग्रहः । एतेन -> औषध्यः पशवो वृक्षास्तिर्यश्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्युच्छ्रितं पुनः ॥ «- [म.स्मृ.५/४०] इति मनुस्मृतिवचनमपि परास्तम् । तदुक्तं मनुस्मृती एव -> नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ।। -- [५/४८] इति । स्वर्ग्यः = स्वर्गनिमित्तम् । तदुक्तं महाभारते शान्तिपर्वणि व्यासेनापि -> ज्ञानपालिपरिक्षिप्ते ब्रह्मचर्यदयाम्भसि स्नात्वाऽतिविमले तीर्थे पापपङ्कापहारिणि ।। ध्यानाग्नौ जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ।। कषायपशुभिर्दुष्टैर्धर्म-कामार्थनाशकैः । शममन्त्रहुतैर्यज्ञं विधेहि विहितं बुधैः ।। प्राणिघातात् तु यो धर्ममीहते मूढमानसः । स वाञ्छति सुधावृष्टिं कृष्णाहिमुखकोटरात् ।। «- इत्यादिकम् । वेदान्तिभिरपि -> अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ।। [ ] &- इति पठ्यते । एतेन --> देवान् पितॄन् समभ्यर्च्य खादन्मांसं न दोषभाक् «- [१७९] इति याज्ञवल्क्यस्मृतिवचनमपि प्रत्याख्यातम् । इत्थमेव 'न हिंस्यात् सर्वभूतानि' [छां.उ.८] इति छान्दोग्योपनिषद्वचनं, -> न मांसमश्नीयात् ८- इति [१/१/९] इति तैत्तिरीयब्राह्मणवचनं च सङ्गच्छेते । वस्तुतः पितॄणां नत्यैव तृप्तिः, --> नमस्कारो हि पितॄणां <--[१/३/१] इति तैत्तिरीयब्राह्मणवचनात्, अन्यथा अग्निहोत्रादिवत् श्येनयागादावपि प्रवृत्तिप्रसङ्ग । न च तत्र स्वार्थत्वमग्नी-षोमीयहिंसायां च क्रत्वर्थत्वमिति विशेषोऽस्तीति वक्तव्यम्, क्रत्वर्थत्वेऽपि स्वर्गार्थत्वेन स्वार्थत्वानपायात् । न च हिंस्यमान-पशूनामेव स्वर्गप्रापणादिलक्षणपरार्थत्वमिति वक्तव्यम्; एवं हि स्वमात्रादीनामपि तत्र हननप्रसङ्गात् । तदुक्तं -> स्वर्गे यान्ति यदि त्वया विनिहताः यज्ञे ध्रुवं प्राणिनो । यज्ञं किं न करोषि मातृ-पितृभिः पुत्रैस्तथा बान्धवैः ।। - [ ] एतेन --> यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै तस्माद् यज्ञे वधोऽवधाः ।। |[५/३९] इति मनुस्मृतिवचनं निराकृतम्, तदुक्तं --> यावन्ति पशुरोमाणि पशुगात्रेषु भारत ! तावद्वर्षसहस्राणि पच्यन्ते || पशुधातकाः ॥ [ ]:- इत्यधिकं स्याद्वादमञ्जरी-स्याद्वादकल्पलतादी बोध्यम् । વિશે સંમોહ એટલે કે મૂઢતા - દષ્ટિસંમોહ - આવો દૃષ્ટિસંમોહપદનો અર્થ જ ત્યાં નથી રહેતો. [વપરના રાગાદિ ભાવ રોગોને દૂર કરવાની બુદ્ધિથી] તથાવિધ પ્રવૃત્તિ કરનાર શ્રાવક વગેરે પરમાર્થથી = કુલની દષ્ટિએ આરંભનો ચારે તરફથી પરિહાર કરવાના લીધે અસંમૂઢ જ છે. १. मुद्रितप्रती 'हिंसादीनामि' त्यशुद्धः पाठः । २. 'अकारण' इति मुद्रितप्रती अशुद्धः पाठः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240