________________
* यज्ञस्थलीयहिंसाविचार: * परयोर्भावापविनिवारणाऽध्यवसायप्रवृद्धया न दृष्टिसम्मोहाऽऽख्यो दोषः, दर्शनं = आगमः तत्र सम्मोहः = सम्मूढतेत्यर्थाभातात्. तत्त्वत: तस्याऽऽरम्भपरिवर्जकत्वेनाऽसम्मूढत्वात् ।
यद्वा गुणत: : शब्दार्थत: तुल्ये तत्त्वेऽहिंसादीनां संज्ञाभेदेन = अकरण-नियम-महाव्रतादिस्वपरिभाषाभेदेन आगमेषु = पातअल-जैजादिशास्त्रेषु अन्यथादृष्टि: पुरुषो यतो भवति स दृष्टिसम्मोहः, 'महाव्रतादिप्रतिपादको
कल्याणकन्दली शङ्कनीयम्, जिनायतनसत्कग्रामक्षेत्राद्यारम्भं = स्वरूपहिंसां कात्स्येन अपरिहरतोऽपि स्व-परयोः भावापद्विनिवारणाऽध्यवसायप्रवृद्ध्या न दृष्टिसंमोहाऽऽख्यो दोषः, विधिविशुद्धप्रवर्धमानाशयेन तत्स्वरूपप्रच्यवादित्याह --> दर्शनं = आगमः, तत्र = आगमे सम्मूढता इत्यर्थाभावात् = दृष्टिसम्मोहपदप्रवृत्तिनिमित्तविरहात् । स्वाशयविशुद्धयादिकञ्च स्तवपरिज्ञायां -> पेच्छिस्सं एत्थं इह, वंदणगणिमित्तमागए. साहू । कयपुण्णे भगवंते, गुणरयणणिही महासत्ते ।। पडिबुज्झिस्संति इहं दह्रण जिणिंदबिंबमकलंकं । अण्णेवि भब्वसत्ता काहिंति ततो परं धम्मं ।। ता एअमेव वित्तं, जमित्थमुवओगमेइ अणवरयं । इय चिंताऽपरिवडिया, सासयवुड्डी उ मोक्खफला ।। - [१७/१८/१९] इति इत्येवमुक्तम् । अत एव तत्त्वतः = फललक्षणं परमार्थमधिकृत्य तस्य आरम्भपरिवर्जकत्वेन असंमूढत्वात् । तदक्तं श्रीजिनेश्वरसूरिभिः पञ्चलिङ्गिप्रकरणे -> पुढवाइयाण जइवि हु होइ विणासो जिणालयेहिंतो । तञ्चिसया वि सुदिहिस्स णियमओ अत्थि अणुकंपा ॥ एयाहिंतो बुद्धा विरया रक्खंति जेण पुढवाई। इत्तो निव्वाणगया अबाहिया आभवमिमाणं ।। रोगिसिरावेहो इव सुविज्जकिरिया व सुप्पउत्ताओ । परिणामसुंदरच्चिय चिट्ठा से बाहजोगे वि || ४-५८-५९-६०] इति । वक्ष्यति चाग्रे -> यतनातो न च हिंसा यस्मादेषैव | तन्निवृत्तिफला । [६/१६ पृ.१५५] इत्यादिना ।। ___ अथ यथाविहिताचरणेन शास्त्रश्रद्धारूपो भावः परैरप्यनुगम्यत एवेति चेत् ? अनुगम्यताम्, परं केवलमसद्ग्रहरूपोऽयं, न तु योगानुभवगम्यो गुरुलाधवभावपर्यालोचनप्राणो रत्नत्रयमय इति संसाराभिनन्दिनामेवाश्रयणीयोऽयम् । एतेन --> काम्येऽपि यज्ञादी वेदविहिताचरणनिमग्नतया मन:शुद्भिरक्षतेति - परास्तम्, ईदशेन गायत्रीजपादिनाऽपि मन:शुद्धिसम्भवे हिंसाबहलकर्मानुष्ठानस्य सांख्यादिभिरपि निन्दितत्वात् । न च यागादिक्रियाः स्वर्ग साधयन्ति अपि, --> वृक्षान् छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ? ।। [पञ्चतंत्रे ३/१०७] इति भट्टारकश्रीशुकवचनादिति व्यक्तमुक्तं श्रीमेरुतुङ्गसूरिभिः षड्दर्शननिर्णये [जैनदार्शनिकप्रकरणसङ्ग्रहः । एतेन -> औषध्यः पशवो वृक्षास्तिर्यश्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्युच्छ्रितं पुनः ॥ «- [म.स्मृ.५/४०] इति मनुस्मृतिवचनमपि परास्तम् । तदुक्तं मनुस्मृती एव -> नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ।। -- [५/४८] इति । स्वर्ग्यः = स्वर्गनिमित्तम् । तदुक्तं महाभारते शान्तिपर्वणि व्यासेनापि -> ज्ञानपालिपरिक्षिप्ते ब्रह्मचर्यदयाम्भसि स्नात्वाऽतिविमले तीर्थे पापपङ्कापहारिणि ।। ध्यानाग्नौ जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ।। कषायपशुभिर्दुष्टैर्धर्म-कामार्थनाशकैः । शममन्त्रहुतैर्यज्ञं विधेहि विहितं बुधैः ।। प्राणिघातात् तु यो धर्ममीहते मूढमानसः । स वाञ्छति सुधावृष्टिं कृष्णाहिमुखकोटरात् ।। «- इत्यादिकम् । वेदान्तिभिरपि -> अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ।। [ ] &- इति पठ्यते । एतेन --> देवान् पितॄन् समभ्यर्च्य खादन्मांसं न दोषभाक् «- [१७९] इति याज्ञवल्क्यस्मृतिवचनमपि प्रत्याख्यातम् । इत्थमेव 'न हिंस्यात् सर्वभूतानि' [छां.उ.८] इति छान्दोग्योपनिषद्वचनं, -> न मांसमश्नीयात् ८- इति [१/१/९] इति तैत्तिरीयब्राह्मणवचनं च सङ्गच्छेते । वस्तुतः पितॄणां नत्यैव तृप्तिः, --> नमस्कारो हि पितॄणां <--[१/३/१] इति तैत्तिरीयब्राह्मणवचनात्, अन्यथा अग्निहोत्रादिवत् श्येनयागादावपि प्रवृत्तिप्रसङ्ग । न च तत्र स्वार्थत्वमग्नी-षोमीयहिंसायां च क्रत्वर्थत्वमिति विशेषोऽस्तीति वक्तव्यम्, क्रत्वर्थत्वेऽपि स्वर्गार्थत्वेन स्वार्थत्वानपायात् । न च हिंस्यमान-पशूनामेव स्वर्गप्रापणादिलक्षणपरार्थत्वमिति वक्तव्यम्; एवं हि स्वमात्रादीनामपि तत्र हननप्रसङ्गात् । तदुक्तं -> स्वर्गे यान्ति यदि त्वया विनिहताः यज्ञे ध्रुवं प्राणिनो । यज्ञं किं न करोषि मातृ-पितृभिः पुत्रैस्तथा बान्धवैः ।। - [ ] एतेन --> यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै तस्माद् यज्ञे वधोऽवधाः ।। |[५/३९] इति मनुस्मृतिवचनं निराकृतम्, तदुक्तं --> यावन्ति पशुरोमाणि पशुगात्रेषु भारत ! तावद्वर्षसहस्राणि पच्यन्ते || पशुधातकाः ॥ [ ]:- इत्यधिकं स्याद्वादमञ्जरी-स्याद्वादकल्पलतादी बोध्यम् । વિશે સંમોહ એટલે કે મૂઢતા - દષ્ટિસંમોહ - આવો દૃષ્ટિસંમોહપદનો અર્થ જ ત્યાં નથી રહેતો. [વપરના રાગાદિ ભાવ રોગોને દૂર કરવાની બુદ્ધિથી] તથાવિધ પ્રવૃત્તિ કરનાર શ્રાવક વગેરે પરમાર્થથી = કુલની દષ્ટિએ આરંભનો ચારે તરફથી પરિહાર કરવાના લીધે અસંમૂઢ જ છે. १. मुद्रितप्रती 'हिंसादीनामि' त्यशुद्धः पाठः । २. 'अकारण' इति मुद्रितप्रती अशुद्धः पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org