________________
१०० चतुर्थं षोडशकम् चैत्यकार्येऽपवादतो यतिप्रवृत्तिः + चैत्यद्रव्यनाशोपेक्षणेऽनन्तसंसार: * स्वयञ्च तत्फलस्याऽनुपभोगात् केवलमागमानुसारितया 'तत्रापेक्षापरित्यागेन ग्रामक्षेत्राधारम्भमपरिहरतोऽपि स्व
कल्याणकन्दली तदुक्तं आवश्यकनियुक्तौ सम्बोधप्रकरणे पञ्चाशके पञ्चवस्तुके श्रीरत्नशेखरसूरिकृतसम्बोधसप्ततिप्रकरणे च -> अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्यथओ कूवदिलुतो ।। - [आ.नि.१९६, सं.प्र.११८ पञ्चाशक६/४२, पञ्चवस्तु-१२२४ सं.स.प्र.१०८] इति । तदुक्तं पञ्चवस्तुकेऽपि -> जिणभवणकारणादिऽवि, भरहाईणं न वारिअं तेणं । जह तेसिं चिअ कामा, सल्लविसाईहिं वयणेहिं ॥ ता तंपि अणुमयं चिय, अप्पडिसेहाओ तंतजुत्तीए । इअ सेसाणवि
एत्थं, अणुमोअणमाइ अविरुद्धं ।। - [१२१७-१२१८] इति । तदुक्तं पञ्चाशकेऽपि -> अहिगारिणा इमं खलु कारेयव्वं| ||--- [७/२] इति । इमं = जिनभवनमित्यर्थः । श्रावकविरहे पूर्वकृतचैत्यायतनादिविषये यतनया साधूनामप्यपवादतोऽधिकारः । तदुक्तं पञ्चवस्तुके -> अण्णाभावे जयणाए मग्गणासो हविज्जा मा तेणं । पुवकयाययणाइसु, ईसिं गुणसंभवे इहरा ॥१०२।।
- इति । यथोक्तं साक्षेपपरिहारं पञ्चकल्पभाष्यादी -> चोएइ चेइयाणं रूप्पसुवण्णाइ गामगावाई । लग्गंतस्स हु मुणीणो तिगरणसुद्धी कहं णु भवे ?|| भण्णइ एत्थ विभासा, जो एयाई सयं विमग्गिज्जा । न हु तस्स हुज्ज सुद्धी अह कोइ हरेज एयाई ।। सव्वत्थामेण तहिं संघेणं होइ लग्गियध्वं तु । सचरित्तचरित्तीणं एवं सब्वेसिं कजं तु ।। - गा.१५६९१५७०-१५७२] इत्यादि । अत्र हि किल दर्शनपरिभवप्राये पूर्वराजादिदत्तक्षेत्रादिलोपप्रस्तावे एव यतेरपि क्षेत्रादिचिन्तनमुक्तमिति श्रावकधर्मविधिवृत्तिकारः श्रीमानदेवसूरिः [गा.२६ टी.पृ.१४] प्राह । श्रावकाणां प्रेरितानामप्युपेक्षणे मुनिः स्वयमेव यतनया जिनायतने जालादिदूरीकरणे प्रवर्तते । तदुक्तं बृहत्कल्पभाष्ये -> सीलेह मंखफलए, इयरे चोयंति तंतुमादीसु । अभिजोयंति सवित्तिस अणिच्छि फेडंतऽदीसंत ।।१८१०।। - इति । भ्रमरकृतमण्डल-लूतातन्तुकृतजालकादेः चैत्ये महादोषत्वात्, तदुक्तं सूत्रसन्ताने --> मंडलं जालकञ्चैव कीलकं सुषिरं तथा छिद्रं संधिश्चकाराश्च महादोषा इति स्मृताः || - [ ] इति । स्वयं च तत्फलस्य = आरम्भफलस्य अनुपभोगात्। न हि स तत्र स्वावस्थानादि फलमुद्दिश्य प्रवर्तते उपयुङ्क्ते वा । किन्तु केवलं आगमानुसारितया = जिनवचनानुगामितया तत्र = जिनायतनादिविषये क्षेत्रादौ अपेक्षापरित्यागेन = | स्वोपभोगफलनिरपेक्षतया प्रवर्तते, तस्य बहगुणत्वात् । तदक्तं, --> चेइय-कुल-गण-संघे, उवयारं कुणइ जो अणासंसी । पत्तेयबुद्ध-गणहर-तित्थयरो वा तओ होइ ।। - [ ] इति । उत्सर्गतो यतीनामखिलारम्भनिषेधात्कथमपवादतस्तदनुमतिर्युक्तेति न शङ्कनीयम्, सामग्रीसाकल्ये उत्सर्गप्रवृत्तावपि कारणवैकल्येऽपवादप्रवृत्तेाय्यत्वात् । अत एव तयोस्तुल्यत्वम् । तदुक्तं वृहत्कल्पभाष्यपीठिकायां → जावइया उस्सग्गा तावइया चेव हुंति अववाया। जावइया अववाया उस्सग्गा तत्तिया चेव ॥३२२।। उन्नयमविक्ख निनस्स पसिद्धि उन्नयस्स निन्नाओ । इय अन्नोत्रपसिद्धा उस्सग्गऽववायओ तुल्ला ॥३२१|| - इति । प्रत्यन्तरे 'उपेक्षापरित्यागेन' इति पाठः। सोऽपि सङ्गच्छते एव यतः -> 'चिइमालिन्नं उवेहमाणस्स महती तओ अवन्ना -- [९५]| इत्यादिना चैत्यवन्दनमहाभाष्यादौ कथितम् । अन्यत्रापि -> भक्षितोपेक्षितत्वाभ्यां देवद्रव्यविनाशकः । नानाविधामयं दीनः प्राप्नोति नरकव्यथाम् ॥ [ ] - इत्युक्तम् । उपदेशपदे सम्बोधप्रकरणे [१०६] च मूलकारैः दर्शनशुद्धिप्रकरणे [५७] श्रीचन्द्रप्रभसूरिभिः श्राद्धदिनकृत्ये च श्रीदेवेन्द्रसूरिभिरपि --> चेइयदञ्चविणासे तद्दव्वविणासणे दुविहभेए । साहू उविक्खमाणो
अणंतसंसारिओ भणिओ ।। - [उ.प.४१५/श्रा.१२७] इत्युक्तम् । मूलकारैरपि सम्बोधप्रकरणे [११०] तथा चन्द्रप्रभसूरिभिः | दर्शनशुद्धिप्रकरणे -> आयाणं जो भंजइ पडिवण्णधणं न देइ देवस्स । नस्संतं समुविक्खई सो वि हु परिभमइ संसारे।
- [५५] इत्युक्त्या तत्रोपेक्षाया महाप्रत्यपायफलत्वेनोपदेशात् । 'इत्थञ्च विनश्यच्चैत्यद्रव्याद्युपेक्षा संयतेनाऽपि सर्वथा न कार्या'| [गा.१२ वृ.] इति व्यक्तं द्रव्यसप्ततिकावृत्ती । न च तथापि चैत्यादिसत्के ग्रामादौ प्रवर्तमानस्याऽऽरम्भाऽपरिहारात् सम्मोह एवेति शनीयम्, यतनया प्रवृत्तत्वात् । तदुक्तं पश्चाशके -> जयणाइ वट्टमाणो जीवो सम्मत्त-णाण-चरणाणं । सद्धाबोहाऽऽसेवणभावेणाऽऽराहगो भणितो ।। - [पश्चा.७/३१] इति । न च तथापि सर्वथाऽऽरम्भस्याऽपरिहारादोष एवेति સ્થલમાં દષ્ટિસંમોહ નામનો દોષ ન હોય. [આ પ્રકારે અન્વય કરવો.] જેમ કે જિનાયતન સંબંધી ક્ષેત્ર [ખેતર વગેરે), સોનું, ગામડા વગેરેને વિશે શાસ્ત્રીય શ્રદ્ધાવિશેષથી પ્રવૃત્ત થવાના લીધે અને તેના સેિવાભાવથી દેરાસરના પૈસા ઉઘરાવવા, દેરાસરની જમીન સંભાળવી, ઠાકોર વગેરેએ દેરાસરને ભેટ આપેલ ગામડાઓમાં કર ઉઘરાવવો વગેરે પ્રવૃત્તિના] ફલન સ્વયં ભોગવટો ન કરવાથી દિષ્ટિસંમોહ નામનો દોષ નથી. માત્ર આગમને અનુસાર દેરાસર સંબંધી ક્ષેત્ર વગેરેને વિશે પ્રવૃત્તિ કરવાથી અને તેના દ્વારા પોતાને પૈસા-યશ-કીર્તિ વગેરે મળવાની અપેક્ષાનો તાગ કરવાથી થાક વગેરેને દેરાસર સંબંધી ગામડા, ખેતર વગેરેની ચળવણી કરવામાં આરંભનો - હિંસાનો પરિહાર ન થવા છતાં સ્વ-પરની ભાવ આપત્તિને - આંતરિક કર્મગુલામીને દૂર કરવાની બુદ્ધિ પ્રબળ બનવાના લીધે દટિસંમોહ નામનો દોષ નથી; કારણ કે દર્શન અર્થાત આગમને |१. प्रत्यन्तरे 'तत्रोपे' इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org