Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 142
________________ ॐ माध्यस्थ्यभावनाया सावच्छिन्नत्व- निरवच्छिन्नता १०९ तिन तस्मिन् वा तुष्टिः अप्रीतिपरिहारो मुदिता । परेषां दोषा अविनयादयोऽप्रतीकार्यास्तेषां उपेक्षणं = अवधीरणं उपेक्षा । सम्भवत्प्रतीकारेषु तु दोषेषु सापेक्षयतिना जोपेक्षा विधेया ॥४ / १५ ॥ उपसंहरन्नाह - एतत्' इत्यादि । कल्याणकन्दली विरत्या कषायेणाऽशुभेन योगेन च समुपार्जिताशुभकर्मपर्यायपुद्गलस्कन्धतदुपोद्भवा विपदो विवशाः प्राप्नुवन्ति इति करुणा - [१६९६/१५१६ / १३ ] इति प्रोक्तम् । परसुखतुष्टिः मुदिता इति । तदुक्तं सर्वार्थसिद्धौ --> वदनप्रसादादिभिरभिव्यज्यमानान्तर्भावित- रागः प्रमोद: <- [ ७ / ११ / ३४९] इति । तत्त्वार्थस्वोपज्ञभाष्ये तु → > गुणाधिकेषु प्रमोदो नाम विनयप्रयोगः <-[७/६] इत्युक्तम् । साम्प्रतं गुणदुर्लभे काले तु विशेषत इयं भावना कार्या, यथोक्तं . संपइ दुसमसमए, हदीस थोबो वि जस्स धम्मगुणो । बहुमाणो कायव्वो, तस्स सया धम्मबुद्धि || - [ ] इति । --> तेषां = अप्रतीकार्याणां परदोषाणां उपेक्षणम्, जमालिं प्रति जगद्गुरोरिव । तदुक्तं शान्तसुधारसे - मिथ्या शंसन् वीरतीर्थेश्वरेण रोद्धुं शेके न स्वशिष्यो जमालिः । अन्यः को वा रोत्स्यते केन पापात्तस्मादौदासीन्यमेवात्मनीनम् ॥[१६ / ३] <- इति । प्रभानन्दसूरिभिरपि वीतरागस्तोत्रविवरणे - नास्तिक - निस्त्रिंशादिनिर्गुणजनमाध्यस्थ्यं = उपेक्षा <- [३ / १५] इत्युक्तम् । 'सापेक्षयतिना' इत्यनेन निरपेक्षयतीनां जिनकल्पप्रभृतीनां व्यवच्छेदः कृतः । ततश्च सापेक्षयत्यपेक्षया उपेक्षायाः सावच्छिन्नत्वं निरपेक्षयत्यपेक्षया च निरवच्छिन्नत्वमिति भास्वान् भगवान् स्याद्वाद एवात्राऽपि विजयी । अनधिकारिणः प्रवर्त्तने दोष: अधिकारिणश्चाऽप्रवर्तने दोष इति भावः । नोपेक्षा विधेयेति । तथा च चिकित्स्यस्योपेक्षणे चिकित्सकस्य दोष:, अचिकित्स्यस्य चिकित्साकरणे च केवलं क्लेश इति तत्रैवोपेक्षा एव । यथोक्तं धर्मरत्नप्रकरणे --> अच्चंताऽजोग्गं पुण अरत्तदुट्ठो उवेहेइ <- [१२४] । तदुक्तं पञ्चवस्तुकेऽपि --> जह लोअम्मि वि विज्जो, असज्जवाहीण कुणइ जो किरियं । सो अप्पाणं तह वाहिए अ पाडेइ केसम्म ॥४७॥ - इति । इत्थमेव स्वस्य विज्ञत्वोपपत्तेः । तदुक्तं आचाराङ्गे - --> वेणं बहिया य लोगं से सव्वलोगम्मि जे विण्णू [१ / ४ / ३] इति । न च तत्र द्वेष - निन्दादिकं कार्यं सम्यग्दर्शनव्याघातापत्तेः, तदुक्तं पुष्पमालायां --→ सव्वत्थ उचियकरणं गुणाणुराओ रई य जिणवयणे । अगुणेसु य मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाई ॥ १११ ॥ - इति । साम्प्रतं तु विशेषत उपेक्षाऽऽत्मसात् कर्तव्या । तदुक्तं योगसारे कालानुभावतः । द्वेषस्तेषु न कर्तव्य: संविभाव्य भवस्थितिम् ॥ <- [ ३ / २८] इति भावनीयम् । < असदाचारिण: प्रायो लोकाः मैत्र्यादिकमुद्दिश्य योगशास्त्रेऽपि श्रीहेमचन्द्रसूरिभिः --> मा कार्षित् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदण्येषा मतिर्मैत्री निगद्यते ॥ अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः || प्रकीर्त्तितः ।। दीनेष्वार्त्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतीकारपरा बुद्धि:, कारुण्यमभिधीयते ।। क्रूरकर्मसु निःशङ्कं देवतागुरु| निन्दिषु । आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ - [ ४ / ११८-११९ - १२०-१२१] इति । अध्यात्मतत्त्वालोकेऽपि -> भवन्तु सर्वे सुखिनोऽसुभाजो मा कोऽपि पापाचरणानि कार्षीत् । एवं जगज्जन्तुषु चित्तवृत्तिं कल्याणभावां प्रवदन्ति मैत्रीम् ।। || देदीप्यमाना गुणगौरवेण महाशया ये सुजना जगत्याम् । गुणेषु तेषां बहुमानभावो यस्तं प्रमोदं परिकीर्त्तयन्ति ।। दीनेषु दारिद्रयपराहतेषु क्लिष्टेषु भीतेषु च रोगितेषु । वृत्तिः प्रतीकारपरायणा या कारुण्यभावः परिकीर्त्तिता सा । जगद् विचित्रं भविभिर्विचित्रैविचित्रकर्मेरितवृत्तिभाग्भिः । भजन्ति माध्यस्थ्यमवेक्ष्य धीरा दुष्टेषु दुष्टाचरणस्य कोऽर्थ ? || - [ ६ / १५ - १८] इत्येवं न्यायविजयेन भावनाचतुष्कस्वरूपवर्णनमकारि । ज्ञानार्णवे शुभचन्द्रेणाऽपि विस्तरतो मैत्र्यादिभावनाचतुष्टयस्वरूपमुपदर्शितं तत्ततः [ज्ञाना २७ / ४-१४] विज्ञेयम् । उपमितिभवप्रपञ्चाभिधानायां कथायां श्रीसिद्धर्षिगणिना जीवेन सत्त्व-गुणाधिक- क्लिश्यमानाऽविनेयेषु मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यानि समाचरणीयानि [पृ. ७३] इति तद्विषयमुक्त्वा बुद्धसूरिदेशनायां तत्रैव अनुकूलचारिणी मैत्री अकारणवत्सला करुणा सदानन्ददायिनी मुदिता सर्वोद्वेगविघातिनी उपेक्षेति ॥ <-- [पृ. ५१७] तत्स्वरूपमुक्तम् । आत्मदर्शनगीतायां श्रीबुद्धिसागरसूरिभिः -> मित्रभावश्च जीवेषु प्रमोदः सज्जनेषु च । कृपादृष्टिश्च दीनेषु माध्यस्थ्यं भावयेच्छुभम् ||२६|| इत्येवमुक्तम् । भावदेवसूरिभिः पार्श्वनाथचरित्रे --> मैत्री परहिते चिन्ता, परार्तिच्छेदधीः કરુણા. બીજા જીવોનું જે સુખ હોય તેનાથી અથવા તો તેના વિશે આનંદ થવો-અપ્રીતિ ન થવી તે મુદિતા = प्रभोध भाव भागवी. बेनो પ્રતીકાર થઈ ન શકે, જેને દૂર કરવાનો કોઈ ઉપાય ન હોય તેવા પરકીય અવિનયાદિ દોષની ઉપેક્ષા કરવી, તેના પ્રત્યે તટસ્થ રહેવું તે ઉપેક્ષા = મધ્યસ્થત્ત. જે દોષોને દૂર થવાના ઉપાય વિદ્યમાન હોય તેવા પરકીય દોષોની ઉપેક્ષા સાપેક્ષ યતિ = સ્થવીરકલ્પી સાધુએ ન કરવી. અર્થાત્ તે તે ઉપાયોમાં પ્રવૃત્તિ કરીને પ્રતીકાર્ય પરકીય દોષને દૂર કરવા. [જિનકલ્પી = निरपेक्ष साधु तो तेनी भाग उपेक्षा २. ][४/१५ ] | For Private & Personal Use Only www.jainelibrary.org --> = Jain Education Intemational =

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240