________________
ॐ माध्यस्थ्यभावनाया सावच्छिन्नत्व- निरवच्छिन्नता
१०९
तिन तस्मिन् वा तुष्टिः
अप्रीतिपरिहारो मुदिता । परेषां दोषा अविनयादयोऽप्रतीकार्यास्तेषां उपेक्षणं = अवधीरणं उपेक्षा । सम्भवत्प्रतीकारेषु तु दोषेषु सापेक्षयतिना जोपेक्षा विधेया ॥४ / १५ ॥ उपसंहरन्नाह - एतत्' इत्यादि ।
कल्याणकन्दली
विरत्या कषायेणाऽशुभेन योगेन च समुपार्जिताशुभकर्मपर्यायपुद्गलस्कन्धतदुपोद्भवा विपदो विवशाः प्राप्नुवन्ति इति करुणा - [१६९६/१५१६ / १३ ] इति प्रोक्तम् । परसुखतुष्टिः मुदिता इति । तदुक्तं सर्वार्थसिद्धौ --> वदनप्रसादादिभिरभिव्यज्यमानान्तर्भावित- रागः प्रमोद: <- [ ७ / ११ / ३४९] इति । तत्त्वार्थस्वोपज्ञभाष्ये तु → > गुणाधिकेषु प्रमोदो नाम विनयप्रयोगः <-[७/६] इत्युक्तम् । साम्प्रतं गुणदुर्लभे काले तु विशेषत इयं भावना कार्या, यथोक्तं . संपइ दुसमसमए, हदीस थोबो वि जस्स धम्मगुणो । बहुमाणो कायव्वो, तस्स सया धम्मबुद्धि || - [ ] इति ।
-->
तेषां = अप्रतीकार्याणां परदोषाणां उपेक्षणम्, जमालिं प्रति जगद्गुरोरिव । तदुक्तं शान्तसुधारसे - मिथ्या शंसन् वीरतीर्थेश्वरेण रोद्धुं शेके न स्वशिष्यो जमालिः । अन्यः को वा रोत्स्यते केन पापात्तस्मादौदासीन्यमेवात्मनीनम् ॥[१६ / ३] <- इति । प्रभानन्दसूरिभिरपि वीतरागस्तोत्रविवरणे - नास्तिक - निस्त्रिंशादिनिर्गुणजनमाध्यस्थ्यं = उपेक्षा <- [३ / १५] इत्युक्तम् । 'सापेक्षयतिना' इत्यनेन निरपेक्षयतीनां जिनकल्पप्रभृतीनां व्यवच्छेदः कृतः । ततश्च सापेक्षयत्यपेक्षया उपेक्षायाः सावच्छिन्नत्वं निरपेक्षयत्यपेक्षया च निरवच्छिन्नत्वमिति भास्वान् भगवान् स्याद्वाद एवात्राऽपि विजयी । अनधिकारिणः प्रवर्त्तने दोष: अधिकारिणश्चाऽप्रवर्तने दोष इति भावः । नोपेक्षा विधेयेति । तथा च चिकित्स्यस्योपेक्षणे चिकित्सकस्य दोष:, अचिकित्स्यस्य चिकित्साकरणे च केवलं क्लेश इति तत्रैवोपेक्षा एव । यथोक्तं धर्मरत्नप्रकरणे --> अच्चंताऽजोग्गं पुण अरत्तदुट्ठो उवेहेइ <- [१२४] । तदुक्तं पञ्चवस्तुकेऽपि --> जह लोअम्मि वि विज्जो, असज्जवाहीण कुणइ जो किरियं । सो अप्पाणं तह वाहिए अ पाडेइ केसम्म ॥४७॥ - इति । इत्थमेव स्वस्य विज्ञत्वोपपत्तेः । तदुक्तं आचाराङ्गे - --> वेणं बहिया य लोगं से सव्वलोगम्मि जे विण्णू [१ / ४ / ३] इति । न च तत्र द्वेष - निन्दादिकं कार्यं सम्यग्दर्शनव्याघातापत्तेः, तदुक्तं पुष्पमालायां --→ सव्वत्थ उचियकरणं गुणाणुराओ रई य जिणवयणे । अगुणेसु य मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाई ॥ १११ ॥ - इति । साम्प्रतं तु विशेषत उपेक्षाऽऽत्मसात् कर्तव्या । तदुक्तं योगसारे कालानुभावतः । द्वेषस्तेषु न कर्तव्य: संविभाव्य भवस्थितिम् ॥ <- [ ३ / २८] इति भावनीयम् ।
<
असदाचारिण: प्रायो लोकाः
मैत्र्यादिकमुद्दिश्य योगशास्त्रेऽपि श्रीहेमचन्द्रसूरिभिः --> मा कार्षित् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदण्येषा मतिर्मैत्री निगद्यते ॥ अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः || प्रकीर्त्तितः ।। दीनेष्वार्त्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतीकारपरा बुद्धि:, कारुण्यमभिधीयते ।। क्रूरकर्मसु निःशङ्कं देवतागुरु| निन्दिषु । आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ - [ ४ / ११८-११९ - १२०-१२१] इति । अध्यात्मतत्त्वालोकेऽपि -> भवन्तु सर्वे सुखिनोऽसुभाजो मा कोऽपि पापाचरणानि कार्षीत् । एवं जगज्जन्तुषु चित्तवृत्तिं कल्याणभावां प्रवदन्ति मैत्रीम् ।। || देदीप्यमाना गुणगौरवेण महाशया ये सुजना जगत्याम् । गुणेषु तेषां बहुमानभावो यस्तं प्रमोदं परिकीर्त्तयन्ति ।। दीनेषु दारिद्रयपराहतेषु क्लिष्टेषु भीतेषु च रोगितेषु । वृत्तिः प्रतीकारपरायणा या कारुण्यभावः परिकीर्त्तिता सा । जगद् विचित्रं भविभिर्विचित्रैविचित्रकर्मेरितवृत्तिभाग्भिः । भजन्ति माध्यस्थ्यमवेक्ष्य धीरा दुष्टेषु दुष्टाचरणस्य कोऽर्थ ? || - [ ६ / १५ - १८] इत्येवं न्यायविजयेन भावनाचतुष्कस्वरूपवर्णनमकारि । ज्ञानार्णवे शुभचन्द्रेणाऽपि विस्तरतो मैत्र्यादिभावनाचतुष्टयस्वरूपमुपदर्शितं तत्ततः [ज्ञाना २७ / ४-१४] विज्ञेयम् । उपमितिभवप्रपञ्चाभिधानायां कथायां श्रीसिद्धर्षिगणिना जीवेन सत्त्व-गुणाधिक- क्लिश्यमानाऽविनेयेषु मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यानि समाचरणीयानि [पृ. ७३] इति तद्विषयमुक्त्वा बुद्धसूरिदेशनायां तत्रैव अनुकूलचारिणी मैत्री अकारणवत्सला करुणा सदानन्ददायिनी मुदिता सर्वोद्वेगविघातिनी उपेक्षेति ॥ <-- [पृ. ५१७] तत्स्वरूपमुक्तम् । आत्मदर्शनगीतायां श्रीबुद्धिसागरसूरिभिः -> मित्रभावश्च जीवेषु प्रमोदः सज्जनेषु च । कृपादृष्टिश्च दीनेषु माध्यस्थ्यं भावयेच्छुभम् ||२६|| इत्येवमुक्तम् । भावदेवसूरिभिः पार्श्वनाथचरित्रे --> मैत्री परहिते चिन्ता, परार्तिच्छेदधीः કરુણા. બીજા જીવોનું જે સુખ હોય તેનાથી અથવા તો તેના વિશે આનંદ થવો-અપ્રીતિ ન થવી તે મુદિતા = प्रभोध भाव भागवी. बेनो પ્રતીકાર થઈ ન શકે, જેને દૂર કરવાનો કોઈ ઉપાય ન હોય તેવા પરકીય અવિનયાદિ દોષની ઉપેક્ષા કરવી, તેના પ્રત્યે તટસ્થ રહેવું તે ઉપેક્ષા = મધ્યસ્થત્ત. જે દોષોને દૂર થવાના ઉપાય વિદ્યમાન હોય તેવા પરકીય દોષોની ઉપેક્ષા સાપેક્ષ યતિ = સ્થવીરકલ્પી સાધુએ ન કરવી. અર્થાત્ તે તે ઉપાયોમાં પ્રવૃત્તિ કરીને પ્રતીકાર્ય પરકીય દોષને દૂર કરવા. [જિનકલ્પી = निरपेक्ष साधु तो तेनी भाग उपेक्षा २. ][४/१५ ] |
For Private & Personal Use Only
www.jainelibrary.org
-->
=
Jain Education Intemational
=