________________
११० चतुर्थं षोडशकम्
नानाशास्त्रानुसारेण मैत्र्यादिस्वरूपद्योतनम् 8 एतज्जिनप्रणीतं लिङ्गं खलु धर्मसिद्धिमज्जन्तोः । पुण्यादिसिद्धिसिद्धेः सिद्धं सद्धेतुभावेन ॥४/१६॥ एतत् पूर्वोक्तं औदार्यादि सर्वमव जिनप्रणीतं = जिनोक्तं लिङ्गं = लक्षणं, खलुशब्दो तातयाललारे जन्तोः
= कल्याणकन्दली कृपा । मुदिता सद्गुणे तृष्टिर्माध्यस्थ्यं पाप्युपेक्षणम् ।। - [सर्ग-६ गा.३८३] इत्युक्तम् । तत्त्वार्थसूत्रेऽपि -> मैत्री-प्रमोदकारुण्य-माध्यस्थ्यानि सत्त्व-गुणाधिक-क्लिश्यमानाऽविनेयेषु ---[७/६] इत्युक्तम् । योगबिन्दावपि -> मैत्री-प्रमोद-कारुण्यमाध्यस्थ्यपरिचिन्तनम् । सत्त्व-गुणाधिक-क्लिश्यमानाऽप्रज्ञाप्यगोचरम् ॥४०२।। --- इत्युक्तम् । योगशतकेऽपि --> सत्तेसु ताव मेत्तिं, तहा पमोयं गणाहिएसं ति । करुणा-मज्झत्थत्ते किलिस्समाणाऽविणेएस ॥७९॥ -- इति -> मैत्री परेषां हितचिन्तनं यत् भवेत् प्रमोदो गुणपक्षपातः । कारुण्यमार्ताङ्गिरुजां जिहीर्षेत्युपेक्षणं दुष्टधियामुपेक्षा ||[१३/३] इति विनयविजयवाचकेनोक्तम् । परमात्मद्वात्रिंशिकायां -> सत्त्वेषु मैत्री, गुणिषु प्रमोदं, क्लिष्टेषु जीवेषु कृपापरत्वम् । माध्यस्थ्यभावं विपरीतवृत्तौ, सदा ममात्मा विदधातु देव ! ।। [१]-- इति अमितगतिवचनमप्यत्रैवानुपतति । धर्म बिन्दी
अपि --> तथा सत्त्वादिषु मैत्र्यादियोगः -- [३/९३] इत्युक्तम् । ध्यानदीपिकायां श्रीसकलचन्द्रवाचकेन ---> प्राणभूतेषु | सर्वेष सुख-द:खस्थितेषु च । वैरिमित्रेष जीवेष मैत्री स्यात् हितधी: सताम् ॥१०८॥ वध-बन्धनरुद्धेषु निस्त्रिंशैः पीडितेषु च । जीवितं याचमानेषु दयालो: करुणा मता ॥१०९|| जिनधर्मजुषां ज्ञानचक्षुषां च तपस्विनाम् । नि:कषायजिताक्षाणां गुणे मोदः प्रमोदता ।।११०।। देवगुर्वागमाचारनिन्दकेष्वात्मशंसिषु । पापिष्ठेषु च माध्यस्थ्यं सोपेक्षा च प्रकीर्तिता ।।११।। e-- इत्येवं मैत्र्यादिस्वरूपमावेदितम्। योगसारे ---> परे हितमतिमैत्री मुदिता गुणमोदनम् । उपेक्षा दोषमाध्यस्थ्यं करुणा दु:खमोक्षधीः । मैत्री निखिलसत्त्वेषु प्रमोदो गुणशालिषु । माध्यस्थ्यमविनेयेषु करुणा दु:खदेहिषु ।। - [२/५-६] इत्येवं भावनाचतुष्कस्वरूपमावेदितम् । अध्यात्मकल्पद्रुमे मुनिसुन्दरसूरिभिः -> मैत्री परस्मिन् हितधीः समग्रे भवेत्प्रमोदो गुणपक्षपातः । कृपा भवार्ते प्रतिकर्तुमिहोपेक्षैव माध्यस्थ्यमवार्यदोषे ।। -- [१/११] इत्युक्तं संक्षेपतः । योगसारसङ्ग्रहे तु विज्ञानभिक्षुणा -> सुखितेषु मैत्री, दुःखितेषु करुणा, पुण्यशीलेषु हर्षः, पापशीलेषूपेक्षा «- [अ.२. पृ.२७] इति कथितम् । तदुक्तं पातञ्जलयोगसूत्रेऽपि --> मैत्री-प्रमोद-मुदितोपेक्षाणां सुखदु:ख-पुण्याऽपुण्यविषयाणां भावनातः चित्तप्रसादनम् -- [१/३३] इति । धर्मध्यानाधिकारि विशेषणविधया स्याद्वादकल्पलतायामपि -> मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यपवित्रितचित्तः -[पृ.३३६] इत्युक्तम् ।। वराहोपनिपदि --> मुदिता करुणा मैत्री उपेक्षा च चतुष्टयम् -- [१/१३] इति क्रमभेदो दृश्यते । इमाश्चतस्रोऽपि भावना: सुगतमतेप्रमादादिपदेन प्रोच्यन्ते । तदुक्तं 'अभिधम्मत्थसङ्गहे' अनुरुद्धाचार्येण → मेत्ता करुणा मुदिता, उपेक्खा चेति इमा चतस्सो । अप्पमझायो नाम, ब्रह्मविहारा ति पि बुच्चन्ति ।। -- इति । --> मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम् । । प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधा ।। - [१०/२६] इति चरकसंहितावचनात् मैत्र्याधुपयोगो वैद्यकशास्त्रेऽपि व्यापकः ।।
भक्तपरिज्ञायामपि मैत्र्यादिभावना: प्रत्याख्याताशनादिना भावयितव्याः । तदुक्तं चतु:शरणप्रकीर्णकेऽपि -> अन्नेसु अ जीवेसु मित्तीकरुणाइगोयरेसु कयं । परितावणाइ दुक्खं इण्ही गरिहामि तं पावं ॥५३।। --- इति । तदुक्तं पञ्चवस्तुके - -> मेत्तादी सत्ताइस, जिणिंदवयणेण तह य अच्चत्थं । भावेइ तिब्वभावो परमं संवेगमावण्णो ||१६७३।। - इति । ततश्चैतासामनुबन्धशुद्धिकारितयाऽत्युपयोगित्वमिति ध्येयम् । तदुक्तं मुक्तिकोपनिपदि अपि --> मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासनानाम्नीहाणामलवासनाः ।। <-- [२/३९] इति । युक्तश्चैतत् तासां तरणतुल्यत्वात्, यथोक्तं सूत्रकृताङ्गे -> भावणाजोगसुद्धप्पा जले णावा व आहिआ ॥ -- [१५/५] इति । धर्मसङ्ग्रहे -> मैत्र्या सर्वसत्त्वेषु प्रमोदेन गुणाधिके । माध्यस्थ्येनाऽविनीतेषु कृपया दुःखितेषु च ।। सततं वासितं स्वान्तं कस्यचित्पुण्यशालिनः । वितनुते शुभं कर्म द्विचत्वारिंशदात्मकम् ।। --- इत्येवं पुण्याश्रबहेतुता मैत्र्यादीनामुक्ता श्रीमानविजयवाचकेन । अमितगतिना सुभाषितसन्दोहे -> मैत्री सत्त्वेषु मोदं गुणवति करुणा क्लेशिते देहभाजि, मध्यस्थत्वं प्रतापे -[ ] इत्युक्तम् । सिंहसूरिणा साम्यशतके -> मैत्र्यादिवासनामोदसुरभिकृतदिङ्मुखम् । पुमांसं ध्रुवमायाति सिद्धिभृगाङ्गना स्वयम् ॥९८|| -- इत्युक्तम् । अध्यात्मसम्पादकतयाऽपि मैत्र्यादिकम्पयुज्यते प्रत्येकं चतुर्विधत्वादिना विभज्यते च । यथा चैतत्तत्त्वं तथा त्रयोदशे षोडशके स्पष्टीभविष्यति ॥४/१५॥
પ્રસ્તુત વિષયનો ઉપસંહાર કરતાં મૂલકારથી કહે છે કે – ગાથાર્ગ :- જીવનું આ જિનપ્રાશીત લિંગ ખરેખર ધર્મસિદ્ધિયુક્ત છે. પુણ્યાદિસિદ્ધિ નિષ્પન્ન થવાથી તે અવંધ્ય હેતુરૂપ સિદ્ધ થાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org