________________
१०८ चतुर्थं षोडशकम् 8 मैत्र्यादिमीमांसा + ब्राह्मणस्वरूपद्योतनम् 88
परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥४/१५॥ परेषां प्राणिनां हितचिन्ता मैत्री ज्ञेया । परेषां यत् दुःखं तद्विनाशिनी परिणति: करुणा । परेषां यत् सुख्खं
कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> परहितचिन्ता मैत्री, परदुःखविनाशिनी करुणा, परसुखतुष्टिर्मुदिता तथा परदोषोपेक्षणं उपेक्षा ॥४/१५।। इयञ्च कारिका अध्यात्मकल्पद्रुम-धर्मबिन्दुवृत्ति-धर्मरत्नप्रकरणवृत्त्यधिकारविंशिकावृत्ति-योगसूत्रटिप्पणादौ [अ.क.१२ ध.र.पृ.२८८ ध.बि.३/९३ वृ.पू.१०५ अ.वि.गा.१९ यो.सू.१/३३] समुद्भूता वर्तते ।
परहितचिन्ता मैत्रीति । परपदेन सर्वे प्राणिनो ग्राह्याः । तदुक्तं उत्तराध्ययनसूत्रे → सञ्चपाणभूअजीवसत्तेसु मित्तीभावं उप्पाएइ <- [२८/१७-पृ.५२४]। तदुक्तं आवश्यकसूत्रे -> मित्ती मे सञ्चभूएस' - [४९] । वैराग्यकल्पलतायामपि
> मैत्री समस्तसत्त्वेषु भावनीया प्रयत्नतः <- [९/३६८ पृ.२१०] इत्युक्तम् । शास्त्रवार्तासमुच्चयेऽपि → मैत्री सत्त्वेषु भावतः <- [१/६] इत्युक्तम् । उत्तराध्ययने [६/२] सूत्रकृताङ्गेऽपि -> मेत्तिं भूएसु कप्पए <-- [१/१५/३] इत्युक्तम् । प्रतिमाशतकेऽपि > मैत्री सत्त्वेष्वनेन विधिना भव्यः सुखी स्यादिति -[३३] प्रोक्तम् । समरादित्यकथायामपि → मेत्तीं सब्वेसु चेव जीवेसु - [भव-१ पृ.७० गाथा-१९] इत्युक्तम् । पञ्चाशकेऽपि → मेत्तादिगुणणिया य णियमेण सत्ताइसु होति दढं - [४२] इत्युक्तम् । वीतरागस्तोत्रावचूरिकारः सोमोदयगणी अपि -> मैत्री = हितबुद्धि: <- [१७/६]| इत्याह । हितचिन्ता च -> जीवन्तु जन्तवः सर्वे क्लेशव्यसनवर्जिताः । प्राप्नुवन्तु सुखं त्यक्त्वा, वैरं पापं पराभवम् ।। <- [२७/७] इत्येवं ज्ञानार्णवे शुभचन्द्रेण प्रदर्शिता । कालिदासेन विक्रमोर्वशीये -> सर्वस्तरतु दुर्गाणि सर्वे भद्राणि पश्यन्तु । सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु ॥ - [५/२५] इत्येवं हितचिन्तोक्ता । तदुक्तमन्यत्रापि -> सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दु:खभाग् भवेत् ।। [ ] - इति । भक्तपरिज्ञायां
> जह ते न पिअंदुक्खं जाणिअ एवमेव सव्वजीवाणं । सब्वायरमुवउत्तो अत्तोवमेण कुणसु दयं ॥९०|| - इत्येवं मैत्रीभाव| नोक्ता । निशीथचूर्णिकारमते -> मित्तभावो मैत्री -[नि.भा.गा.२७३४ भा.३-४.३०] सर्वार्थसिद्धिकारस्तु → परेषां | द:खानुत्पत्त्यभिलाषा मैत्री -[७/११/३८९] इत्याह । तत्त्वामृते → सर्वसत्त्वे दया मैत्री -२६३] इत्युक्तम् । स्याद्वादकल्पलतायां प्रोक्तं > मैत्री = प्रत्युपकारनिरपेक्षा प्रीतिः <-[१/६] । पुष्पामालायान्तु → सीलधम्म सञ्बजीवेसु निरीहभावेण मेत्तीकरणं -[ ] इत्युक्तम् । तत्त्वार्थसिद्धसेनीयवृत्ती च > मिद्यतीति मित्रं, स्निह्यतीत्यर्थः । तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री [७/६] इत्युक्तम् । आयुर्वेददीपिकाभिधानायां चरकसंहितावृत्ती चक्रपाणिदत्तेन -> मैत्री च सर्वप्राणिष्वात्मनीव बुद्धिः -- [१/३१] इत्युक्तम् । ततश्च समाधिप्राप्तिः, यथोक्तं विसुद्धिमग्गग्रन्थे -> मेत्ता-विहारिनो खिप्पमेव चित्तं समाधीयति -- [९/७३] । शुद्धप्रेमलभ्या मैत्री समाधये उपयुज्यते । तदुक्तं प्रेमगीतायां > सर्वजीवैः सह प्रेम मैत्रीभावाय जायते । ततः समत्वसंलाभात् समाधिर्जायते सताम् ।। - [१५५] इति । विशेषत इयं शत्रुप्रभृतौ भावनीया । तदुक्तं योगवाशिष्ठे व्यासेन -> अमृतत्वं विषं याति सदैवाऽमृतवेदनात् । शत्रुमित्रत्वमायाति, मित्रसंवित्तिवेद-नात् ।।
<-[ 1 इति । विष्णुपुराणेऽपि -> मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् - [३/८/२४] इत्युक्तम् । ब्राह्मणस्तु ||--> योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् ॥ -- [६/२०] इति वशिष्ठस्मृतिदर्शितो, यद्वा -> न जटाहि न गोत्तेहि न जच्चा होति ब्राह्मणो । यम्हि सच्चं च धम्मो च सो सुची सो च ब्राह्मणो ।। [२६/११] इति धम्मपदोक्तो, यद्वा -> न ब्राह्मणो बहिवण्णो अन्तो वण्णो हि ब्राह्मणो [२/१४०] इति थेरगाथादर्शितः, यद्वा -> अलोलुयं मुहाजीविं अणगारं अकिंचणं । असंसत्तं गिहत्थेहिं तं वयं बूम माहणं ।। [२५/ २८] इति उत्तराध्ययनसूत्रप्रदर्शितः ज्ञेयः ।
परदुःखविनाशिनी करुणेति । तदुक्तं तत्त्वार्थराजवार्त्तिके --> दीनानुग्रहभावः कारुण्यम् -- [७/११/३/५३८/ १९] इति । मूलाराधनायां हि -> शारीरं, मानसं, स्वाभाविकञ्च दु:खमसह्यमाप्नुवतो दृष्ट्वा 'हा ! वराका ! मिथ्यादर्शनेनाऽ
મૂલકારથી મૈત્રી વગેરેના લક્ષણ જણાવતાં કહે છે કે –
भावार्थ :- ५२डितQिता = मैत्री. ५२:५नाथ पति = . भीगना सुपमा आनंद - मुहिता [प्रमो]. तथा जीवना દોષની ઉપેક્ષા કરવી તે ઉપેક્ષા = મધ્યસ્થતા. [૪/૧૫].
ॐ मैत्री वगेरे धर्म छ ॐ ટીકાર્ગ :- બીબ પ્રાણીઓની હિતચિંતા કરવી તે મૈત્રી ભાણવી. બીજા પ્રાણીઓનું જે દુઃખ હોય તેનો નાશ કરનાર પરિગતિ એટલે
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org