Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 91
________________ ५८ द्वितीय षोडशकम् ॐ भगवत्स्वरूपोपयुक्तस्य भगवद्रूपता असौ भगवान् परः = प्रकृष्ट: चिन्तामणिः वर्तते । तेन इयं = सर्वत्र पुरस्क्रियमाणाऽऽगम सम्बन्धोद्बोधित| संस्कार जनित भगवद्दयस्थता समस्सापत्तिः = समताऽऽपत्तिः भवति, रसशब्दोऽत्र भावार्थ:, भगवत्स्वरूपोपयुक्तस्य तदुपयोगाऽनन्यवृत्तेः परमार्थतस्तद्रूपत्वात् बाह्याऽऽलम्बनाऽऽकारोपरवतत्वेन ध्यानविशेषरूपा तत्फलभूता वा मनसः कल्याणकन्दली फलदा [च] प्रोक्ता ||२ / १५ || इयं कारिका प्रतिमाशतकवृत्त्यादौ [ प्र.श.का. २ पृ.११] उद्धृता दृश्यते । दर्शितकारिके समुच्चित्य टीकाकृता देशनाद्वात्रिंशिकायां --> इत्थमाज्ञादरद्वारा हृदयस्थे जिने सति । भवेत्समरसापत्तिः फलं ध्यानस्य या | परम् ||२ / १५ || <- इत्युक्तम् । = S द्रव्यचिन्तामण्याद्यपेक्षया प्रकृष्टः अचिन्त्यः चिन्तामणिः । चिन्तामणिवत् भगवतः स्वयं राग - मोहादिविरहेऽपि विधिवदाऽऽराधकस्याऽभीष्टफलदायकत्वाच्चिन्तामणित्वोक्तिः, चिन्तामृतेऽपि सानुबन्धाऽऽमुष्मिक - शाश्वतफलदायकत्वात् देवाधिष्ठितचिन्तानुसार्यैहिकपरिमित फलदायकचिन्तामण्यपेक्षया च पारम्यमप्यस्य सङ्गतिमङ्गति । तेन कारणेन इयं सर्वत्र विचार - वचन - वर्तनेषु पुरस्क्रियमाणाऽऽगमसम्बन्धोद्बोधितसंस्कारजनितभगवद्हृदयस्थता = पुरस्क्रियमाणस्य जिनागमस्य स्वतन्त्रवक्तृत्वस्वरूपतत्संसर्गेण उद्बुद्वैः भगवद्गोचरैः संस्कारैः उपहिता सर्वज्ञस्मृतिलक्षणा भगवद् हृदयस्थता, निरन्तर - दीर्घकालादरादिवशेन कालान्तरे। समरसापत्तिः समतापत्तिः भवति । न च समरसस्य 'समता' इति विवरणं कुतः सङ्गच्छते ? इत्याशङ्कनीयम्, यतः समरसशब्दगतो रसशब्दः अत्र प्रक्रमे भावार्थ: = भाववाचकः इति भावार्थक - तल्प्रत्ययेन तद्विवरणं युक्तमेव । समतापत्तिः - तुल्यताप्राप्तिः प्रकृते भगवत्तुल्यताप्राप्तिरित्यर्थः न तु अनन्तानुबन्ध्यादिक्षयोपशमजनित-शमरसोपलब्धिरित्यर्थः, प्रस्तुतानुपयोगित्वात् तादृशार्थघटनस्य । भगवत्सादृश्यसम्प्राप्तिमेव समर्थयति ---> भगवत्स्वरूपोपयुक्तस्य पुरुषस्य ज्ञानात्मना तदुपयोगा||नन्यवृत्तेः = भगवत्स्वरूपोपयोगादन्यत्राऽवृत्तित्वात् परमार्थतः वस्तुत आगमत: तद्रूपत्वात् = भगवत्स्वरूपत्वात् । वह्निपरिणतोऽयस्पिण्डो वह्निरितिवत् भगवद्भावोपयोगपरिणत आत्मैव भगवान् सर्वज्ञः । तदुक्तं प्रवचनसारेऽपि परिणमदि जेण दव्वं, तक्कालं तम्मयत्ति पण्णत्तं - [प्र. सार. २ / ८ ] इति । तदुक्तं तत्त्वानुशासने > येन भावेन यद्रूपं ध्यायत्यात्मानमात्मवित् । तेन तन्मयतां याति सोपाधिः स्फटिको यथा ॥ ←- [६ / ९ ] इति । अन्यत्रापि परिणमते येनात्मा भावेन स तेन तन्मयो भवति । अर्हध्यानाऽऽवेष्टे भावार्हन् स्यात् स्वयं तस्मात् ॥[ ] -इत्युक्तम् । तदुक्तं योगसारेऽपि -> वीतरागमतो ध्यायन् वीतरागो भवेत् सुधीः । इलिका भ्रमरीभीता ध्यायन्ती भ्रमरी यथा ॥ [ १ / ४२ ] इति । पार्श्वनाथचरित्रेऽपि वीतरागं हृदि ध्यायन् वीतरागो यथा भवेत् । मुक्त्वाऽखिलमपध्यानं भ्रामरं ध्यानमाश्रय ॥ <- - [ सर्ग ६ / ७१९ ] इत्येव - मुक्तम् । ज्ञानार्णवेऽपि -> वीतरागं स्मरन् योगी वीतरागो विमुच्यते <- [४०/१] इत्येवं श्रीशुभचन्द्रेणोक्तम् । अपरोक्षानुभूतौ शङ्कराचार्येणापि --> भावितं तीव्रवेगेन यद् वस्तु निश्चयात्मना । पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥ --> <-- < --> - [ १४० ] इति । अन्यत्रापि इलिकाभ्रमरीध्यानात् भ्रमरी जायते यथा । तथा ध्यानानुरूपः स्यात् जीवोऽशुभ-शुभात्मवान् ।। -- [ ] अत एव भगवत्स्वरूपोपयुक्तस्य तदानीमागमतो भावनिक्षेपेन भगवत्ता अनुयोगद्वारसूत्रादौ सूचिता । न चैवं तस्याऽऽगमत एव भावभगवत्ताप्राप्तिः प्रतिपादयितुमर्हतीति न नोआगमतः समरसापत्तिरित्यारेकणीयम्, यतो मनसो बाह्यालम्बनाकारोपरक्तत्वेन = स्वेतरगोचराऽऽकृतिसमभिव्याप्तत्वेन ध्यानविशेपरूपा तत्र प्रत्ययैकतानता ध्यानम्' -- [यो.सू. ३ २] इति पातञ्जलयोगसूत्रोक्ततल्लक्षणस्य सत्त्वात् तत्फलभूता वा = ध्यानविशेषकार्य समाधिस्वरूपा वा तदेवार्थमात्र मोक्षइलहामी अडवायस छे. [२ / १५ ] - = = * समरसापत्ति योगीभाता * ટીડાર્થ :- સર્વજ્ઞ ભગવાન પ્રકૃષ્ટ [અચિંત્ય] ચિંતામણિ છે. તે કારણે આ સમરસાપત્તિ થાય છે. ‘આ' શબ્દનો અર્થ છે સર્વત્ર આદરપૂર્વક આગળ કરાતા આગમના સંસર્ગથી ઉત્બુદ્ધ = પ્રબુદ્ધ = પ્રગટ થયેલ સંસ્કારથી નિષ્પન્ન થયેલી ભગવાનની | ६६५स्थता = મનોગતતા. સમરસની આપત્તિનો અર્થ છે સમતાની = તુલ્યતાની પ્રાપ્તિ, કારણ કે રસશબ્દ ભાવ અર્થમાં અહીં વપરાયેલ છે. [‘મારું' એવા ભાવને જેમ મમતા શબ્દ જણાવે છે; તેમ સરખાપણાને ‘સમતા' શબ્દ બતાવે છે. પ્રસ્તૃતમાં સરખાપણું ભગવાનની અપેક્ષાએ જાણવાનું છે. અર્થાત્ જે સાધક દરેક ક્રિયા કરતાં કરતાં ભગવાનને હૃદયસ્થ બનાવે છે. તેને ભગવત્તુલ્યતા પ્રાપ્ત થાય છે. આનું કારણ એ છે કે] ભગવાનના સ્વરૂપમાં ઉપયુક્ત વ્યક્તિ ભગવાનના સ્વરૂપના ઉપયોગ સિવાય અન્યત્ર ક્યાંય [[ज्ञानात्मना ] ન રહેવાથી વાસ્તવમાં તે ભગવાનસ્વરૂપ જ બને છે. [અનુયોગદ્દાર સૂત્રમાં બતાવેલ નિક્ષેપવ્યવસ્થા અનુસારે તે Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240