Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 128
________________ जनप्रियत्वमाहात्म्यम् निरुपाधिकं. युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादेर्बीजाधानादिभावेन ॥४ /७ || युक्तं उचितं जनप्रियत्वं धर्मतत्त्वलिङ्गम् ज त्वयुक्तं यतः तत् = जनप्रियत्वं शुद्धं स्वाश्रयगुणनिमित्तेन जनानां धर्मप्रशंसनादेः सकाशात् आदिना करणेच्छाऽनुबन्ध-तदुपायान्वेषणा- तत्प्रवृत्तिगुरुसंयोग- सम्यवत्वलाभग्रहणं, बीजाधानं = धर्मतरोर्बीजस्य पुण्यानुबन्धिपुण्यस्य ज्यासः, आदिजा अङ्कुर-पत्र - पुष्पफलविशेष' परिग्रह:, तेषां भावेज उत्पादेन अलं = अत्यर्थं धर्मसिद्धिफलदं वर्तते । = = कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् युक्तं जनप्रियत्वम् । तत् शुद्धं धर्मप्रशंसनादे: बीजाधानादिभावेन अलं धर्मसिद्धिफलदम् ॥४ / ७॥ इयं कारिका योगविन्दुवृत्ति योगलक्षणद्वात्रिंशिकावृत्ति-धर्मरत्नप्रकरणवृत्त्यादौ [यो.बि.का. ९०वृ./ धर्म. प्र.गा. ११ वृत्ति ] समुद्धृता वर्तते । = --> 'जनप्रियत्वं = शिष्टलोकवल्लभभाव:' [यो.बि. का. ५२. ] इति योगबिन्दुवृत्तिकारः । न तु अयुक्तं अनुचितम् । अनेन राजसत्तादिप्राप्तिनिमित्तं बहुजनसम्मत्युपलब्ध्ये मदिरा - मांस - धनादिप्रदानद्वारा साम्प्रतं कैश्विद्राजनायकादिभिर्लभ्यमानमशिष्टजनप्रियत्वं धर्मतत्त्वलिङ्गत्वेन निरस्तम् । उचितस्यैव जनप्रियत्वस्य धर्मतत्त्वलिङ्गत्वे हेतुमाह --> यतो जनप्रियत्वं निरुपाधिकम् स्वीकीर्त्त्याद्युपाधिशून्यम्, अन्यथा धर्मक्रियाया अपि विपाकदारुणत्वापत्तेः । तदुक्तं योगविन्दी --> लोकाराधनहेतोर्या, मलिनेनान्तरात्मना । क्रियते सत्क्रिया साऽत्र लोकपङ्क्तिरुदाहृता । भवाभिनन्दिनो लोकपङ्क्त्या धर्मक्रियामपि । महतो हीनदृष्ट्यो दुरन्तां तद्विदो विदुः ॥ - [ ८८/८९ ] इति । शासनप्रभावना - बीजाधानाद्युद्देश्यकं यत् जनप्रियत्वं तदपि निरुपाधिकप्रायमवगन्तव्यम्, कुत्सितोपाधिशून्यत्वात् तादृशस्य जनप्रियत्वस्य विहितत्वाच्च । -> →> निरुपाधिकं जनप्रियत्वन्तु समाचारादिविशुद्धिजन्यत्वेन सम्मतम् । तदुक्तं योगदृष्टिसमुचये कान्तादृष्टिनिरूपणे --> अस्यां तु धर्ममाहात्म्यात् समाचारविशुद्धितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥ १६३ ॥ - इति । निष्पन्नयोगचिह्नत्वेन | विशुद्धजनप्रियत्वं वक्ष्यते [१३ / १२] | योगफलत्वेनाऽपि जनप्रियत्वमाम्नातम् । तदुक्तं योगविन्दौ किञ्चान्यद्योगतः स्थैर्यं धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वञ्च प्रातिभं तत्त्वभासनम् ॥ • [यो. बि. ५२ ] इति । श्रावकधर्माधिकारित्व| सम्पादकौचित्यवृत्तिलिङ्गतयाऽपि जनप्रियत्वमभिमतम् । यथोक्तं श्रावकधर्मविधिप्रकरणे मूलकारैरेव ---> सव्वजणवल्लहत्तं ||अगरहियं कम्मवीरया वसणे । जहसत्ती चागतवा सुलद्धलक्खत्तणं धम्मे || ११|| - इति । तदुक्तं स्कन्दपुराणेऽपि अनुरागं जनो याति परोक्षे गुणकीर्त्तनम् । न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुच्यते ॥ -- [माहेश्वरखण्ड-कुमारिकाखण्ड ५५ / | १३६ ] इति । मार्गानुसारिताऽप्यस्य सङ्गच्छते, जनवल्लभत्वस्य योगशास्त्रादिदर्शितपञ्चत्रिंशत्सु मार्गानुसारिगुणेषूक्तत्वात् । एकविंशतिषु धर्मसाधनार्हगुणेसु धर्मरत्नप्रकरणादिप्रदर्शितेषु लोकवल्लभत्वस्यान्तर्भावात् जनवल्लभस्य धर्मसाधनार्हताऽप्यनाविलेति व्यज्यते । अत एव स्वाश्रयगुणनिमित्तेन जनानां धर्मप्रशंसनादेः सकाशात् वीजाधानादिभावेन अलं धर्मसिद्धिफलदमित्यन्वयः स्वपदेन जनप्रियत्वं बोध्यम् । करणेच्छानुबन्ध तदुपायान्वेषणा- तत्प्रवृत्ति- गुरुसंयोग-सम्यक्त्वलाभग्रहणमिति । जनप्रियगतसदाचारशुद्धिप्रभृतिनिमित्तेन जनानां स्वयं धर्मकरणाभिलाषो जायते, ततो धर्मकरणाभिलाषप्रकर्षलक्षणोऽनुबन्धो भवति, तदनन्तरं धर्मप्रवृत्त्युपायविषयिणी जिज्ञासा शुश्रूषा गवेषणा च सञ्जायते, तदुत्तरं सदुपायलाभे सति धर्मे प्रवर्तते तस्माददृष्टादिसामर्थ्यात् सद्गुरुसमागमे तदुपदेश - श्रवण-बोध-मीमांसा - परिशुद्धप्रतिपत्त्यादिना सम्यक्त्वादिकं लभते । आदिना = कारिकाचतुर्थपादगताऽऽदिशब्देन अङ्कुर - पत्र-पुष्प फलविशेषपरिग्रहः । अङ्कुरस्थानीयः परेषां प्रेत्य बोधिलाभ:, पत्रस्थानीया देशविरतिप्राप्तिः पुष्पस्थानीयः Jain Education International ९५ < મૂલકારશ્રી સાતમી ગાથામાં જનપ્રિયત્વનું પ્રતિપાદન કરે છે કે - માથાર્થ :- [ધર્મતત્ત્વનું લિંગ] ઉચિત જનપ્રિયત્વ છે. તે શુદ્ધ હોય છે. તેમ જ ધર્મપ્રશંસા વગેરે દ્વારા બીજાધાન વગેરે ઉત્પન્ન કરવાથી અત્યંત ધર્મસિદ્ધિનું ફળ આપે છે. [૪/૭] ॥ જનપ્રિયનો ધર્મ પ્રશંસાસ્પદ બને ટીડાર્થ :- ઉચિત જનપ્રિયત્ન એ ધર્મતત્ત્વનું લિંગ છે, નહીં કે અયુક્ત = અનુચિત એવું જનપ્રિયત્વ; કારણ કે તે જનપ્રિયત્ન નિરૂપાધિક હોય છે. જનપ્રિયત્વના આશ્રયીભૂત ધર્મી જીવના ગુણોના નિમિત્તે લોકો ધર્મની પ્રશંસા આદિ કરે છે. આદિશબ્દથી કરણેચ્છા વગેરેનું ગ્રહણ કરવું. અર્થાત્ જનપ્રિય ધર્મીના ગુણના નિમિત્તે લોકોને ધર્મ કરવાની ઈચ્છા થાય છે; તે ઈચ્છા સાનુબંધ થાય છે; પછી તે ધર્મના ઉપાયોની શોધખોળ કરે છે, પછી તે ઉપાયોમાં પ્રવૃત્તિ કરે છે, સદ્ગુરુની પ્રાપ્તિ થાય છે, સમ્યક્ત્વ મળે છે. આ રીતે ધર્મપ્રશંસાદિથી ધર્મવૃક્ષના બીજ સ્વરૂપ પુણ્યાનુબંધી પુણ્યની વાવણી થાય છે. મૂળ શ્લોકના ચોથા પાદમાં રહેલ આદિ શબ્દથી બીજની આગળની અવસ્થાસ્વરૂપ અંકુર, પાંદડા, ફૂલ, ફલનું ગ્રહણ કરવું - એમ ઉપાધ્યાયજી મહારાજ જણાવે છે. તેથી સમુદાયાર્થ એવો થશે કે જનપ્રિયનો જ ધર્મ અન્યને १. मुद्रितप्रती 'विशेष' पदं नास्ति । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240