Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 131
________________ ९८ चतुर्थं षोडशकम् * गम्यागम्यविवेकस्यावश्यकता गम्यागम्ये लोकप्रतीते तयोविभाग आसेवन-परिहाररूपः तं त्यक्त्वा यतः = यस्याः सकाशात् विषयेषु = शब्द-स्पर्श-रस-रूप-गन्धेषु भृशं = अत्यर्थ अवितृप्तात्मा = अप्रशान्ताभिलाष एव सर्वत्र जन्तुः वर्तत = प्रवर्तते, इयं विषयतृष्णा उच्यते ॥४/१०|| दृष्टिसम्मोहं लक्षयति > 'गुणत' इत्यादि। गुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोपः खलु दृष्टिसम्मोहः ॥४/११॥ गुणः = उपकारफलं, तदाश्रित्य, तुल्ये = समाने तत्त्वे = द्वयोर्वस्तुनोः स्वरूपे संज्ञाभेदस्य = नामभेदस्या आगमः = अवतारः यस्यां सा तथा, अन्यथा - विपरीता दृष्टि: - मति: यतो । दोषात् असौ दोषः अधमः खलु। कल्याणकन्दली - सर्वत्र = गम्यागम्ययोः समानमेव प्रवर्तते । मण्डलतन्त्रवादिनो हि गम्यागम्ययोरविवेकतो माध्यस्थ्यमिच्छन्ति, अन्यथा गम्यायां रागेण प्रवृत्ती अगम्यायाश्च द्वेषादिना निवृत्ती माध्यस्थ्यभङ्गापातात, समप्रवृत्तौ च न सक्लेश इति विषयवितृष्णातिरेकतो वदन्ति, तन्न, गम्यागम्यविवेकेनाऽमर्यादेच्छानिवृत्तौ स्वल्पेन्धनाग्नेरिव स्वल्पकालस्थितिकतया देशनिवृत्तिगर्भतया च माध्यस्थ्यबीजत्वमिति गम्यागम्यविवेकधर्माऽऽहितशुभाशयादेव चाचिरेण परममाध्यस्थ्योपपत्तेः । तदुक्तं धर्मव्यवस्थाद्वात्रिंशिकायां -> माध्यस्थ्यो। केचिदिच्छन्ति गम्यागम्याऽविवेकत: । तन्नो विपर्ययादेवाऽनर्गलेच्छानिरोधतः ।। - [द्वा.द्वा.७/२४] इति । इयं विषयतृष्णा उच्यते, पापा हि सा सर्वधा त्याज्या, तदुक्तं महाभारतेऽपि -> तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता । अधर्मबह चैव घोरा पापानुबन्धिनी | - [वनपर्व-२/३५] । अष्टावक्रगीतायामपि -> यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै -~-[१०/३] इत्युक्तम् । इयश्च मोहजन्या तज्जनिका च भवति, यथोक्तं उत्तराध्ययनसूत्रे -> जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हा मोहं च तण्हाययणं वयन्ति ।। - [३२/६] इति । तदुक्त शङ्करेणापि छान्दोग्योपनिपदभाष्ये --> तृष्णा च द:खबीजम् --- [७/२३/१] । चरकसंहितायामपि -> तृष्णा च सुख-11 दुःखानां कारणं पुनरुच्यते - [४/१/१३४] इत्युक्तम् । धम्मपदग्रन्थेऽपि -> तण्हाय जायती सोको, तण्हाय जायती|| भयं -- [१५/८] इति प्रोक्तम् । गम्यागम्यविभागश्चोपलक्षणं भक्ष्याभक्ष्यविभागादेः । तदक्तं योगशास्त्राऽऽन्तरश्लोकेषु ---> भक्षणीयं सतां मांसं प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं ये चानुमिमते जडाः । गोसम्भवत्वात्ते मूत्रं पयोवन्न पिबन्ति किम् ? प्राण्यङ्गतानिमित्ता च नौदनादिषु भक्ष्यता ? || शङ्खादि शुचि नास्थ्यादि प्राण्यङ्गत्वेन समे यथा । ओदनादि तथा भक्ष्यमभक्ष्यं पिशितादिकम् ।। - [प्र.३/ गा.३३/आं.९-१०-११] इत्यादिकम् । अष्टकप्रकरणे मूलकारैरपि -> तत्र प्राण्यङ्गमप्येकं भक्ष्यमन्यत्तु नो तथा । सिद्धं गवादिसत्क्षीर-रुधिरादौ तथेक्षणात् ।। प्राण्यङ्गत्वेन न च नोऽभक्षणीयमिदं मतम् । किन्त्वन्यजीवभावेन तथाशास्त्रप्रसिद्भितः ।। भिक्षमांसनिषेधोऽपि न चैवं युज्यते क्वचित् । अस्याद्यपि च भक्ष्यं स्यात्प्राण्यङ्गत्वाविशेषतः ।। - [१७/३-४-५] इति| कथितं तत् भावनीयम् ॥४/१०॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् --> गुणत: तुल्ये तत्त्वे यत: संज्ञाभेदागमा अन्यथादृष्टिः भवति असौ दृष्टिसंमोहो दोषः अधमः खलु ।।४/११शा इय कारिका उपदेशपदवृत्ति-धर्मपरीक्षावृत्त्यादी समृद्धृता वर्तते [उ.प.गा.६९३ध.प.गा.२४] इति ध्येयम् । गुणः = उपकारफलमिति । उप = सामीप्येन कारः = करणमिति, सामीप्येन करणस्य यत् फलं तत् गुण इत्यर्थः, साक्षाक्रियाफलमिति भावः । --> 'गम्ययपः कर्माधारे' -सि.हे.२/२/७४] इति सिद्धहेमसूत्रेण प्रकृते पञ्चम्या: प्राप्तत्वादाह 'तदाश्रित्य' = उपकारफलमधिकृत्येति । इदश्च व्याख्यातपदगतलिङ्गस्य विवक्षया बोध्यम्, अन्यथा तमाश्रित्येत्युक्तं स्यात् । सा तथा = संज्ञाभेदाऽऽगमा । इदश्च हेतुगर्भविशेषणम् । नामभेदावतारनिमित्तेत्यर्थः । दर्शन-ज्ञानयोरभेदविवक्षयाऽऽह|| -> दृष्टिः = मतिरिति । नामभेदावतारनिमित्तो दृष्टिविपर्यासो यस्मात् असौ अधम एव, सम्यग्दर्शनमालिन्यकारित्वेनाभिधानात्, टाडा :- सभ्य-बाय बोप्रसिद्ध छे. [पत्नी गम्य वाय अने माता, अन, उन्या, परखी वगैरे असभ्य = समो५ वा.] ગમનું આસેવન = ઉપભોગ થાય અને અગમ્યનો ભોગવવા રૂપે ત્યાગ થાય- આ ગમ્યાગમ વિભાગ છે. તે વિભાગને ફેંકીને જેના કારણે શબ્દ, સ્પર્શ, રસ, રૂપ અને ગંધસ્વરૂપ પાંચ વિષયોમાં અત્યન્ત અતૃપ્ત [= જેની ભોગવવાની અભિલાષા શાંત નથી પડી તેવો] જ જીવ સર્વત્ર = ગમ અને અગમાં ભોગસુખ માટે] પ્રવૃત્તિ કરે એ વિષયતૃપણ કહેવાય છે. [૪/૧] દૃષ્ટિસંમોહ નામના બીજા દોષનું લક્ષાણ બતાવતાં મૂલકારથી કહે છે કે – ગાથાણે :- ગુણથી તુલ્ય તત્વ હોવા છતાં જેના લીધે નામભેદના અવતારવાળી વિપરીત દષ્ટિ થાય છે તે દૃષ્ટિસંમોહ દોષ અધમ|| ७. [४/५१] अधम घोष हटिभोस ટીડાઈ :- ગુગશબ્દનો અર્થ છે ઉપકારનું ફલ. અર્થાત્ સામીપ્યરૂપે ક્રિયા કરવાનું ફળ. અર્થાત્ સાક્ષાત્ ક્રિયા કરવાના ફલને આશ્રયીને Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240