________________
९८ चतुर्थं षोडशकम्
* गम्यागम्यविवेकस्यावश्यकता गम्यागम्ये लोकप्रतीते तयोविभाग आसेवन-परिहाररूपः तं त्यक्त्वा यतः = यस्याः सकाशात् विषयेषु = शब्द-स्पर्श-रस-रूप-गन्धेषु भृशं = अत्यर्थ अवितृप्तात्मा = अप्रशान्ताभिलाष एव सर्वत्र जन्तुः वर्तत = प्रवर्तते, इयं विषयतृष्णा उच्यते ॥४/१०|| दृष्टिसम्मोहं लक्षयति > 'गुणत' इत्यादि।
गुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोपः खलु दृष्टिसम्मोहः ॥४/११॥ गुणः = उपकारफलं, तदाश्रित्य, तुल्ये = समाने तत्त्वे = द्वयोर्वस्तुनोः स्वरूपे संज्ञाभेदस्य = नामभेदस्या आगमः = अवतारः यस्यां सा तथा, अन्यथा - विपरीता दृष्टि: - मति: यतो । दोषात् असौ दोषः अधमः खलु।
कल्याणकन्दली - सर्वत्र = गम्यागम्ययोः समानमेव प्रवर्तते । मण्डलतन्त्रवादिनो हि गम्यागम्ययोरविवेकतो माध्यस्थ्यमिच्छन्ति, अन्यथा गम्यायां रागेण प्रवृत्ती अगम्यायाश्च द्वेषादिना निवृत्ती माध्यस्थ्यभङ्गापातात, समप्रवृत्तौ च न सक्लेश इति विषयवितृष्णातिरेकतो वदन्ति, तन्न, गम्यागम्यविवेकेनाऽमर्यादेच्छानिवृत्तौ स्वल्पेन्धनाग्नेरिव स्वल्पकालस्थितिकतया देशनिवृत्तिगर्भतया च माध्यस्थ्यबीजत्वमिति गम्यागम्यविवेकधर्माऽऽहितशुभाशयादेव चाचिरेण परममाध्यस्थ्योपपत्तेः । तदुक्तं धर्मव्यवस्थाद्वात्रिंशिकायां -> माध्यस्थ्यो। केचिदिच्छन्ति गम्यागम्याऽविवेकत: । तन्नो विपर्ययादेवाऽनर्गलेच्छानिरोधतः ।। - [द्वा.द्वा.७/२४] इति । इयं विषयतृष्णा उच्यते, पापा हि सा सर्वधा त्याज्या, तदुक्तं महाभारतेऽपि -> तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता । अधर्मबह चैव घोरा पापानुबन्धिनी | - [वनपर्व-२/३५] । अष्टावक्रगीतायामपि -> यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै -~-[१०/३] इत्युक्तम् । इयश्च मोहजन्या तज्जनिका च भवति, यथोक्तं उत्तराध्ययनसूत्रे -> जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हा मोहं च तण्हाययणं वयन्ति ।। - [३२/६] इति । तदुक्त शङ्करेणापि छान्दोग्योपनिपदभाष्ये --> तृष्णा च द:खबीजम् --- [७/२३/१] । चरकसंहितायामपि -> तृष्णा च सुख-11 दुःखानां कारणं पुनरुच्यते - [४/१/१३४] इत्युक्तम् । धम्मपदग्रन्थेऽपि -> तण्हाय जायती सोको, तण्हाय जायती|| भयं -- [१५/८] इति प्रोक्तम् ।
गम्यागम्यविभागश्चोपलक्षणं भक्ष्याभक्ष्यविभागादेः । तदक्तं योगशास्त्राऽऽन्तरश्लोकेषु ---> भक्षणीयं सतां मांसं प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं ये चानुमिमते जडाः । गोसम्भवत्वात्ते मूत्रं पयोवन्न पिबन्ति किम् ? प्राण्यङ्गतानिमित्ता च नौदनादिषु भक्ष्यता ? || शङ्खादि शुचि नास्थ्यादि प्राण्यङ्गत्वेन समे यथा । ओदनादि तथा भक्ष्यमभक्ष्यं पिशितादिकम् ।। - [प्र.३/ गा.३३/आं.९-१०-११] इत्यादिकम् । अष्टकप्रकरणे मूलकारैरपि -> तत्र प्राण्यङ्गमप्येकं भक्ष्यमन्यत्तु नो तथा । सिद्धं गवादिसत्क्षीर-रुधिरादौ तथेक्षणात् ।। प्राण्यङ्गत्वेन न च नोऽभक्षणीयमिदं मतम् । किन्त्वन्यजीवभावेन तथाशास्त्रप्रसिद्भितः ।। भिक्षमांसनिषेधोऽपि न चैवं युज्यते क्वचित् । अस्याद्यपि च भक्ष्यं स्यात्प्राण्यङ्गत्वाविशेषतः ।। - [१७/३-४-५] इति| कथितं तत् भावनीयम् ॥४/१०॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् --> गुणत: तुल्ये तत्त्वे यत: संज्ञाभेदागमा अन्यथादृष्टिः भवति असौ दृष्टिसंमोहो दोषः अधमः खलु ।।४/११शा इय कारिका उपदेशपदवृत्ति-धर्मपरीक्षावृत्त्यादी समृद्धृता वर्तते [उ.प.गा.६९३ध.प.गा.२४] इति ध्येयम् ।
गुणः = उपकारफलमिति । उप = सामीप्येन कारः = करणमिति, सामीप्येन करणस्य यत् फलं तत् गुण इत्यर्थः, साक्षाक्रियाफलमिति भावः । --> 'गम्ययपः कर्माधारे' -सि.हे.२/२/७४] इति सिद्धहेमसूत्रेण प्रकृते पञ्चम्या: प्राप्तत्वादाह 'तदाश्रित्य' = उपकारफलमधिकृत्येति । इदश्च व्याख्यातपदगतलिङ्गस्य विवक्षया बोध्यम्, अन्यथा तमाश्रित्येत्युक्तं स्यात् । सा तथा = संज्ञाभेदाऽऽगमा । इदश्च हेतुगर्भविशेषणम् । नामभेदावतारनिमित्तेत्यर्थः । दर्शन-ज्ञानयोरभेदविवक्षयाऽऽह|| -> दृष्टिः = मतिरिति । नामभेदावतारनिमित्तो दृष्टिविपर्यासो यस्मात् असौ अधम एव, सम्यग्दर्शनमालिन्यकारित्वेनाभिधानात्,
टाडा :- सभ्य-बाय बोप्रसिद्ध छे. [पत्नी गम्य वाय अने माता, अन, उन्या, परखी वगैरे असभ्य = समो५ वा.] ગમનું આસેવન = ઉપભોગ થાય અને અગમ્યનો ભોગવવા રૂપે ત્યાગ થાય- આ ગમ્યાગમ વિભાગ છે. તે વિભાગને ફેંકીને જેના કારણે શબ્દ, સ્પર્શ, રસ, રૂપ અને ગંધસ્વરૂપ પાંચ વિષયોમાં અત્યન્ત અતૃપ્ત [= જેની ભોગવવાની અભિલાષા શાંત નથી પડી તેવો] જ જીવ સર્વત્ર = ગમ અને અગમાં ભોગસુખ માટે] પ્રવૃત્તિ કરે એ વિષયતૃપણ કહેવાય છે. [૪/૧]
દૃષ્ટિસંમોહ નામના બીજા દોષનું લક્ષાણ બતાવતાં મૂલકારથી કહે છે કે – ગાથાણે :- ગુણથી તુલ્ય તત્વ હોવા છતાં જેના લીધે નામભેદના અવતારવાળી વિપરીત દષ્ટિ થાય છે તે દૃષ્ટિસંમોહ દોષ અધમ|| ७. [४/५१]
अधम घोष हटिभोस ટીડાઈ :- ગુગશબ્દનો અર્થ છે ઉપકારનું ફલ. અર્થાત્ સામીપ્યરૂપે ક્રિયા કરવાનું ફળ. અર્થાત્ સાક્ષાત્ ક્રિયા કરવાના ફલને આશ્રયીને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org