________________
५८ द्वितीय षोडशकम्
ॐ भगवत्स्वरूपोपयुक्तस्य भगवद्रूपता
असौ भगवान् परः = प्रकृष्ट: चिन्तामणिः वर्तते । तेन इयं = सर्वत्र पुरस्क्रियमाणाऽऽगम सम्बन्धोद्बोधित| संस्कार जनित भगवद्दयस्थता समस्सापत्तिः = समताऽऽपत्तिः भवति, रसशब्दोऽत्र भावार्थ:, भगवत्स्वरूपोपयुक्तस्य तदुपयोगाऽनन्यवृत्तेः परमार्थतस्तद्रूपत्वात् बाह्याऽऽलम्बनाऽऽकारोपरवतत्वेन ध्यानविशेषरूपा तत्फलभूता वा मनसः
कल्याणकन्दली
फलदा [च] प्रोक्ता ||२ / १५ || इयं कारिका प्रतिमाशतकवृत्त्यादौ [ प्र.श.का. २ पृ.११] उद्धृता दृश्यते । दर्शितकारिके समुच्चित्य टीकाकृता देशनाद्वात्रिंशिकायां --> इत्थमाज्ञादरद्वारा हृदयस्थे जिने सति । भवेत्समरसापत्तिः फलं ध्यानस्य या | परम् ||२ / १५ || <- इत्युक्तम् ।
=
S
द्रव्यचिन्तामण्याद्यपेक्षया प्रकृष्टः अचिन्त्यः चिन्तामणिः । चिन्तामणिवत् भगवतः स्वयं राग - मोहादिविरहेऽपि विधिवदाऽऽराधकस्याऽभीष्टफलदायकत्वाच्चिन्तामणित्वोक्तिः, चिन्तामृतेऽपि सानुबन्धाऽऽमुष्मिक - शाश्वतफलदायकत्वात् देवाधिष्ठितचिन्तानुसार्यैहिकपरिमित फलदायकचिन्तामण्यपेक्षया च पारम्यमप्यस्य सङ्गतिमङ्गति । तेन कारणेन इयं सर्वत्र विचार - वचन - वर्तनेषु पुरस्क्रियमाणाऽऽगमसम्बन्धोद्बोधितसंस्कारजनितभगवद्हृदयस्थता = पुरस्क्रियमाणस्य जिनागमस्य स्वतन्त्रवक्तृत्वस्वरूपतत्संसर्गेण उद्बुद्वैः भगवद्गोचरैः संस्कारैः उपहिता सर्वज्ञस्मृतिलक्षणा भगवद् हृदयस्थता, निरन्तर - दीर्घकालादरादिवशेन कालान्तरे। समरसापत्तिः समतापत्तिः भवति । न च समरसस्य 'समता' इति विवरणं कुतः सङ्गच्छते ? इत्याशङ्कनीयम्, यतः समरसशब्दगतो रसशब्दः अत्र प्रक्रमे भावार्थ: = भाववाचकः इति भावार्थक - तल्प्रत्ययेन तद्विवरणं युक्तमेव । समतापत्तिः - तुल्यताप्राप्तिः प्रकृते भगवत्तुल्यताप्राप्तिरित्यर्थः न तु अनन्तानुबन्ध्यादिक्षयोपशमजनित-शमरसोपलब्धिरित्यर्थः, प्रस्तुतानुपयोगित्वात् तादृशार्थघटनस्य । भगवत्सादृश्यसम्प्राप्तिमेव समर्थयति ---> भगवत्स्वरूपोपयुक्तस्य पुरुषस्य ज्ञानात्मना तदुपयोगा||नन्यवृत्तेः = भगवत्स्वरूपोपयोगादन्यत्राऽवृत्तित्वात् परमार्थतः वस्तुत आगमत: तद्रूपत्वात् = भगवत्स्वरूपत्वात् । वह्निपरिणतोऽयस्पिण्डो वह्निरितिवत् भगवद्भावोपयोगपरिणत आत्मैव भगवान् सर्वज्ञः । तदुक्तं प्रवचनसारेऽपि परिणमदि जेण दव्वं, तक्कालं तम्मयत्ति पण्णत्तं - [प्र. सार. २ / ८ ] इति । तदुक्तं तत्त्वानुशासने > येन भावेन यद्रूपं ध्यायत्यात्मानमात्मवित् । तेन तन्मयतां याति सोपाधिः स्फटिको यथा ॥ ←- [६ / ९ ] इति । अन्यत्रापि परिणमते येनात्मा भावेन स तेन तन्मयो भवति । अर्हध्यानाऽऽवेष्टे भावार्हन् स्यात् स्वयं तस्मात् ॥[ ] -इत्युक्तम् । तदुक्तं योगसारेऽपि -> वीतरागमतो ध्यायन् वीतरागो भवेत् सुधीः । इलिका भ्रमरीभीता ध्यायन्ती भ्रमरी यथा ॥ [ १ / ४२ ] इति । पार्श्वनाथचरित्रेऽपि वीतरागं हृदि ध्यायन् वीतरागो यथा भवेत् । मुक्त्वाऽखिलमपध्यानं भ्रामरं ध्यानमाश्रय ॥ <- - [ सर्ग ६ / ७१९ ] इत्येव - मुक्तम् । ज्ञानार्णवेऽपि -> वीतरागं स्मरन् योगी वीतरागो विमुच्यते <- [४०/१] इत्येवं श्रीशुभचन्द्रेणोक्तम् । अपरोक्षानुभूतौ शङ्कराचार्येणापि --> भावितं तीव्रवेगेन यद् वस्तु निश्चयात्मना । पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥
-->
<--
<
-->
- [ १४० ] इति । अन्यत्रापि इलिकाभ्रमरीध्यानात् भ्रमरी जायते यथा । तथा ध्यानानुरूपः स्यात् जीवोऽशुभ-शुभात्मवान् ।। -- [ ] अत एव भगवत्स्वरूपोपयुक्तस्य तदानीमागमतो भावनिक्षेपेन भगवत्ता अनुयोगद्वारसूत्रादौ सूचिता । न चैवं तस्याऽऽगमत एव भावभगवत्ताप्राप्तिः प्रतिपादयितुमर्हतीति न नोआगमतः समरसापत्तिरित्यारेकणीयम्, यतो मनसो बाह्यालम्बनाकारोपरक्तत्वेन = स्वेतरगोचराऽऽकृतिसमभिव्याप्तत्वेन ध्यानविशेपरूपा तत्र प्रत्ययैकतानता ध्यानम्' -- [यो.सू. ३ २] इति पातञ्जलयोगसूत्रोक्ततल्लक्षणस्य सत्त्वात् तत्फलभूता वा = ध्यानविशेषकार्य समाधिस्वरूपा वा तदेवार्थमात्र
मोक्षइलहामी अडवायस छे. [२ / १५ ]
-
=
=
* समरसापत्ति योगीभाता *
ટીડાર્થ :- સર્વજ્ઞ ભગવાન પ્રકૃષ્ટ [અચિંત્ય] ચિંતામણિ છે. તે કારણે આ સમરસાપત્તિ થાય છે. ‘આ' શબ્દનો અર્થ છે સર્વત્ર આદરપૂર્વક આગળ કરાતા આગમના સંસર્ગથી ઉત્બુદ્ધ = પ્રબુદ્ધ = પ્રગટ થયેલ સંસ્કારથી નિષ્પન્ન થયેલી ભગવાનની | ६६५स्थता = મનોગતતા. સમરસની આપત્તિનો અર્થ છે સમતાની = તુલ્યતાની પ્રાપ્તિ, કારણ કે રસશબ્દ ભાવ અર્થમાં અહીં વપરાયેલ છે. [‘મારું' એવા ભાવને જેમ મમતા શબ્દ જણાવે છે; તેમ સરખાપણાને ‘સમતા' શબ્દ બતાવે છે. પ્રસ્તૃતમાં સરખાપણું ભગવાનની અપેક્ષાએ જાણવાનું છે. અર્થાત્ જે સાધક દરેક ક્રિયા કરતાં કરતાં ભગવાનને હૃદયસ્થ બનાવે છે. તેને ભગવત્તુલ્યતા પ્રાપ્ત થાય છે. આનું કારણ એ છે કે] ભગવાનના સ્વરૂપમાં ઉપયુક્ત વ્યક્તિ ભગવાનના સ્વરૂપના ઉપયોગ સિવાય અન્યત્ર ક્યાંય [[ज्ञानात्मना ] ન રહેવાથી વાસ્તવમાં તે ભગવાનસ્વરૂપ જ બને છે. [અનુયોગદ્દાર સૂત્રમાં બતાવેલ નિક્ષેપવ્યવસ્થા અનુસારે તે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org