________________
* समापत्तिस्वरूपमीमांसा समापत्तिरभिधीयते । तथोक्तं योगशास्त्रे -> "क्षीणतृत्तेरभिजात्यस्येव मणेाह्य-ग्रहीत-ग्रहणेषु तत्स्थ-तदअनता समापत्तिः"
- कल्याणकन्दली - निर्भासं स्वरूपशून्यमिव समाधिः' «- [यो.सू.३/३] इति पातञ्जलयोगसूत्रोक्ततल्लक्षणसमन्वयात्, समापत्तिः इति योगाचार्यः अभिधीयते । न चास्या ध्यानरूपता स्वमते कथं ? इत्याशङ्कनीयम्, विस्रोतसिकापरिहारेण सुदृढप्रयत्नव्यापाररूपतया स्वमतेऽपि ध्यानलक्षणोपपत्तेः, तदुक्तं विशेषावश्यकभाष्ये -> सृदढप्पयत्तवावारणं, निरोहो वा विजमाणाणं । झाणं करणाण मयं ण उ चित्तणिरोहमेत्तागं ।। - [वि.आ.भा.३०७१] इति । तदुक्तं ध्यानशतके -> जं थिरमज्झवसाणं तं झाणं -- [ध्या.श.गा.२] इति । समरसापत्तेः समाधित्वमते ध्यानफलरूपताऽपि सङ्गच्छत एव, तदुक्तं तत्त्वानुशासने -> सोऽयं समरसीभावस्तदेकीकरणं स्मृतम् । एतदेव समाधिः स्याल्लोकद्वयफलप्रदः ।।१३७|| ६- इति । मतान्तरे तु ध्यान-समाध्योर्नार्थभेदः कश्चित, तदुक्तं आदिपुराणे -> योगो ध्यानं समाधिश्च धीरोध: स्वान्तनिग्रहः । अन्तःसंलीनता चेति तत्पर्याया: स्मृता बुधैः ।। [२१/१२] &- इति । प्राथमिककक्षायामियं समापत्तिः ध्यानविशेषरूपा उत्तरत्र च समाधिविशेषस्वरूपेति
योगप्रदीपेच --> ध्यात-ध्यानोभयाभावे ध्येयनैक्यं यदा व्रजेत् । सोऽयं समरसीमावस्तदकीकरणं मतम् ॥६५॥ - इत्येवं समाधिविशेषरूपा समापत्तिरुपदर्शिता ध्येयम ।
तथोक्तं योगशास्त्रे = पातञ्जलयोगसूत्रे -> क्षीणवृत्तेरभिजात्यस्येव मणेः ग्राह्य-ग्रहीतृ-ग्रहणेषु तत्स्थ-तदञ्जनता समापत्तिः -- इति । यद्यपि योगसूत्रे 'ग्रहीत-ग्रहण-ग्राह्येष' इति पाठः तथापि 'सौत्रक्रमात् आर्थक्रमो बलीयान' इति न्यायेन ‘ग्राह्य-ग्रहीतृ-ग्रहणेषु' इत्यत्रोक्तम् । वस्तुतो 'ग्राह्य-ग्रहण-ग्रहीतृषु' इत्येव पाठः समीचीन:, यतो भूमिकाक्रमवशेन प्रथमं ग्राह्यनिष्ठः समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण गृहीतृनिष्ठः, केवलस्य पुरुषस्य गृहीतु: भाव्यत्वासम्भवादिति व्यक्तमुक्तं टीकाकृता द्वात्रिंशिकाप्रकरणे -> मणेरिवाऽभिजातस्य क्षीणवृत्तेरसंशयम् । तात्स्थ्यात् तदञ्जनत्वाच समापत्ति प्रकीर्तिता ।।२०/१०|| <-- इति कारिकाव्याख्यायाम् । तद्व्याख्यालेशस्त्वेवम् --> मणेरिव = स्फटिकादिरत्नस्येव, अभिजातस्य = जात्यस्य, क्षीणवृत्तेः = क्षीणमलस्य, असंशयं = निश्चितं, तात्स्थ्यात् = तत्रैकाग्रत्वात्, तदञ्जनत्वाच्च = तन्मयत्वाच्च, न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात समापत्तिः प्रकीर्तिता । यथा हि निर्मलस्फटिकमणेस्तद्रूपाश्रयवशात् तद्रूपतापत्तिरेवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तूपरागात्तद्रूपतापत्तिः इति । तदुक्तं स्याद्वादकल्पलतायामपि --> तत्स्थता = तदेकाग्रता, तदञ्जनता = न्यग्भूते चित्ते भाव्यमानोत्कर्षः स्फटिकोपरागस्थानीय: [१/२१] -- इति । इदश्च भोजवृत्तिमवलम्ब्योक्तम् । तदुक्तं भोजवृत्तौ --> क्षीणा वृत्तयो यस्य तत् क्षीणवृत्ति, तस्य ग्रहीतृ-ग्रहण-ग्राह्येषु आत्मेन्द्रियविषयेषु तत्स्थ-तदञ्जनता समापत्तिर्भवति । तत्स्थत्वं = तत्रैकाग्रता, तदञ्जनता = तन्मयत्वं, क्षीणभूते [न्यग्भूते] चित्ते विषयस्य भाव्यमानस्यैवोत्कर्षः तथाविधा समापत्तिः = तद्रूपः परिणामो भवतीत्यर्थः । दृष्टान्तमाह - अभिजातस्येव मणे:, यथाऽभिजातस्य =निर्मलस्य स्फटिकमणेस्तत्त दुपाधिवशात्तत्तद्रूपतापत्तिः एवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपतापत्तिः । यद्यपि 'ग्रहीतृग्रहण-ग्राह्येषु' इत्युक्तं तथापि भूमिकाक्रमवशात् ग्राह्य-ग्रहण-ग्रहीतृषु इति बोध्यम् । यतः प्रथमं ग्राह्यनिष्ठ एव समाधिस्ततो ग्रहणनिष्ठस्ततोऽस्मितामात्ररूपो ग्रहीतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वाऽसम्भवात् । ततश्च स्थूल-सूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति । एवं ग्रहणे ग्रहीतरि च समापन्नं तद्रूपपरिणामत्वं बोद्भयम् - [पा.यो.सू.१/४१ भो.त.प्र.४७] इति । ___ भावागणेशवृत्तिकारस्तु --> क्षीणवृत्तेः = निरुद्धध्येयातिरिक्तवृत्तेः निष्पन्नसंप्रज्ञातयोगस्येति यावत् । एतच्च हेतुगर्भविशेषणम् समापत्तिरिति च साक्षात्कारपरिभाषा । तथा च यतश्चित्तं स्वत एव सर्वार्थग्रहणसमर्थं विषयान्तरव्यासङ्गदोषादेव तत्प्रतिबद्धम्, अतो वृत्त्यन्तरनिरोधरूपे प्रतिबन्धाऽपगमे सति ग्रहीवादिषु ध्येयेष समापत्तिः = साक्षात्काररूपवृत्तिः चित्तस्य स्वत एव भवति ।। सा च तत्स्थ-तदअनतारूपा तेषु ग्रहीत्रादिषु स्थितस्य चित्तस्याऽशेषविशेषैः सम्यक्तदाकारतारूपेत्यर्थः । अत्र दृष्टान्तः अभि-|| વ્યકિત આગમથી ભાવ અરિહંત બને છે મન બાહ્ય આલંબનના આકારથી ઉપરકત = બામ થવાથી સમાપત્તિ ધ્યાનવિશેષ સ્વરૂપ અથવા ધ્યાનફલસ્વરૂપ કહેવાય છે. યોગશાસ્ત્ર = પાતંજલ યોગસૂત્રમાં જણાવેલ છે કે-જેનો મલ ક્ષીણ થયેલ છે તેવા શ્રેષ્ઠ મણિ જેવા મિનમાં] ચાહ્ય, ચહીતા [= ગ્રાહક] અને ગ્રહણને વિશે તાવ્ય અને તરંજનતા એ સમાપત્તિ છે. તિાનો અર્થ છે તેમાં એકાગ્રતા અર્થાત્ પ્રસ્તુતમાં ભગવાનમાં એકાગ્રતા તથા ઇજનતા = તન્મયતા. આ વાત ઉપાધ્યાયજી મહારાજે जत्रीशीराम छ. अन्यमते 'तात्स्थ्य सेवेमंतरात्मामा ५२मा-माना गोनो संसशिप तथा 'तदञ्जनत्व' = तमामा
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org