________________
६० द्वितीय-षोडशकम
8 पातञ्जलयोगदर्शनसम्मतप्रक्रियाप्रदर्शनम् 88 (योगसूत्र १/४१) । सा च 'मयि तद्रूपं', 'स एवाहमित्यादिध्यालोल्लिख्यमान-वैज्ञानिकसम्बन्धविशेषरुपा। सैव
कल्याणकन्दली जातस्येव मणेरिति यथाऽभिजातस्य = स्वभावतो निर्मलस्य मणे:बाह्यमलापगमे सन्निकृष्टवस्त्वाकारता तद्वदित्यर्थः <- [पा.यो.। सू.१/४१ भा.बृ.पृ.४७] इत्याद्याह । नागोजीभट्टवृत्तिरपि प्राय एवंविधैव । चन्द्रिकाकारस्तु --> क्षीणा वृत्तयो यस्य तस्य चेतसः स्फटिकमणेरिव ग्रहीतृ-ग्रहण-ग्राह्येषु तत्स्थं तदेकाग्रता, तदञ्जनता = तन्मयत्वं तद्पपरिणामो भवतीत्यर्थ:इति संक्षेपेण प्रोक्तवान् । योगसूत्रभाष्यकारस्तु --> अभिजातमणिकल्पस्य चेतसो ग्रहीतृ-ग्रहण-ग्राह्येषु या तत्स्थ-तदञ्जनता = तेषु स्थितस्य तदाकारतापत्तिः सा समापत्तिरित्युच्यते - इति व्याचष्टे । केचित्तु -> तात्स्थ्यं = अन्तरात्मनि परमात्मगुणसंसर्गारोपः तदअनत्वञ्च अन्तरात्मनि परमात्माऽभेदारोपः - इत्याचक्षते । मूलकारास्त -> समापत्तिः =ध्यानत: स्पर्शना - [यो.दृ.समु. ६४] इति योगदृष्टिसमुच्चयवृत्ती व्याचक्षते ।।
ज्ञानसारेऽपि --> ध्यातान्तरात्मा ध्येयस्तु परमात्मा प्रकीर्तितः । ध्यानश्चैकाग्यसंवित्तिः समापत्तिस्तदेकता || मणाविव प्रतिच्छाया समापत्तिः परात्मनः । क्षीणवृत्ती भवेद ध्यानादन्तरात्मनि निर्मले ॥ आपत्तिश्च तत: पुण्यतीर्थकतकर्मबन्धतः ।। तद्भावाभिमुखत्वेन संपत्तिश्च क्रमाद् भवेत् ॥ -- [ज्ञा.सा.३०/२-३-४] इत्युक्तं टीकाकृता । तदुक्तं अध्यात्मसारेऽपि --> समापत्तिरिह व्यक्तमात्मनः परमात्मनि । अभेदोपासनारूपस्ततः श्रेष्ठतरो ह्ययम् ॥ ८- [अ.सा.१५/५९] इति । सोपयोगित्वादत्र पातञ्जलयोगप्रक्रिया लेशतो दर्यते --> संप्रज्ञाताऽसंप्रज्ञातभेदात् द्विधा योगो भिद्यते । भाव्यस्य भावनाभेदात् संप्रज्ञातश्चतुर्विधः । तदुक्तं पातञ्जलयोगसूत्रे -> विर्तक-विचाराऽऽनन्दाऽस्मितारूपानुगमात् संप्रज्ञातः - [१/१७] पूर्वापरयोरर्थयोरनुसन्धानाच्छब्दोल्लेखशून्यत्वेन भावनायां तु निर्वितर्कः समाधिः । पञ्चतन्मात्राऽन्तःकरणयोः दिक्कालधर्मावच्छेदेन भावना सविचार: समाधिः । अस्मिन्नेवालम्बने देश-काल-धर्मावच्छेदभेदं विना धर्मिमात्रावभासित्वेन भावनायां निर्विचार: समाधिः । यदा रजस्तमोलेशानाक्रान्तं सत्त्वं भाव्यते तदा शुद्धसत्त्वस्याऽनुद्रेकात् चितिशक्तेश्वोद्रेकात् सत्तामात्रावशेषत्वाच्च सास्मितः समाधिः । सास्मितसमाधिपर्यन्ते विवेकख्याती ग्रहीतसमापत्तिः, सानन्दसमाधिपर्यन्ते ग्रहणसमापत्तिः, निर्विचारसमाधिपर्यन्ते। च ग्राह्यसमापत्ति: विश्रान्ता । समापत्तिरपि सवितर्क-निर्वितर्क-सविचार-निर्विचारभेदात् चतुर्विधा । तदुक्तं तत्र --> शब्दार्थज्ञानविकल्पैः सवितर्का । महास्मृतिपरिशुद्धौ स्वरूपशून्ये वाऽर्थमात्रनिर्भासा निर्वितर्का । एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । यो.सू.१/४२-४३-४४] इतरासां तिसृणां समापत्तीनां निर्विचारफलत्वं निर्विचारायाश्च अध्यात्मप्रसादः ऋतम्भरा तत्र प्रज्ञा - [यो.सू.१/४८] लभ्यते । ऋतंभराजन्य: संस्कारान्तरबाधकः तत्त्वसंस्कारोऽसंप्रज्ञातः समाधिर्गीयते इति :साम्प्रतं प्रकृतं प्रस्तुम: --> सा च = निरुक्तलक्षणा समापत्तिश्च 'मयि तद्रूपं = भगवत्स्वरूपं', 'स सर्वज्ञ एवाहम्' इत्यादिध्यानोल्लिख्यमान-वैज्ञानिकसम्बन्धविशेषरूपा --> वैज्ञानिकसम्बन्धश्च तनिष्ठतया ज्ञायमानत्वम् - [त.चिं.चू.पृ.१०] इति तत्त्वचिन्तामणिचूडामणिकारः । ततश्च 'मयि भगवत्स्वरूपमि' ति ध्याने स्वनिष्ठतया भगवतो ज्ञायमानत्वेन सा ज्ञायमानता भगवत्समापत्तिरभिधीयते इत्यर्थः । विशेषपदोपादानात् दीर्घकालनैरन्तर्यादरगर्भिततादशध्यानेन भगवतो या ज्ञायमानता सा भगवत्समापत्तिरिति तात्पर्यार्थः । तदक्तं पातञ्जलयोगसूत्रे --> स तु दीर्घकाल-नैरन्तर्य-सत्काराऽऽसेवितो दृढभूमि: - [पा. यो.सू.१/१४] इति । 'धर्मिगतभेदाऽग्रहसहकृत-स्वनिष्ठविशेष्यतानिरूपितप्रकारताया वैज्ञानिकसम्बन्धत्वमिति मते ‘स एवाहम् | इति ध्याने तत्पदार्थस्य भगवतः प्रकारत्वेन स प्रकारताभिधानविषयताविशेषो भगवत्समापत्तिरिति भावः । आदिपदेन भगवद्गणारोपादिग्रहणम् । तदुक्तं श्रीहेमसूरिभिः योगशास्त्रे --> इत्यजस्रं स्मरन् योगी, तत्स्वरूपावलम्बनः । तन्मयत्वमवाप्नोति, ग्राह्यग्राहकवर्जितम् ॥ अनन्यशरणीभूय स तस्मिन् लीयते तथा । ध्यातृ-ध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् ॥ सोऽयं समरसीभावः तदेकीकरणं मतम् । आत्मा यदपथक्त्वेन लीयते परमात्मनि ।। ८- [यो.शा.१०/२-३-४] इति । इदमेव चेतसिकृत्य श्रीसकलचन्द्रोपाध्यायेनापि ध्यानदीपिकायां --> सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यात: सर्ववेदीति मन्यते ॥१६६।। येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥१६८|| तत्स्वरूपाऽऽहितं स्वान्तं तद्गृणग्रामरञ्जितम् । योजयत्यात्मनाऽऽत्मानं स्वस्मिन् तद्रूपसिद्धये ॥१७३|| इत्यजस्रं स्मरन् योगी પરમાત્માનો અભેદારોપ.] તેથી પ્રસ્તૃત ભગવન્સમાપત્તિનો અર્થ છે - “મારામાં ભગવાનનું સ્વરૂપ છે', ‘હું ભગવસ્વરૂપ જ છું' SALE यानी मायाननो पोतानामा निसंबंधविशेष. [Aaiनियनो अर्थ छ 'तनिष्ठतया ज्ञायमानलं' अर्थात् ‘ભગવાન મારામાં રહ્યા છે' આ રીતે જણાવાપણું. આવું ભાન એકાદ વાર નહિ પણ અનેકવાર સતત આદરપૂર્વક થાય ત્યારે
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org