________________
* आगमवाद-हेतवादव्यवस्थोपदर्शनम * परलोकविधौ - आमुष्मिकालोपदेशे मानं = स्वतन्त्रप्रमाणं वचनं = आगमः | तत् = वचनं अतीन्द्रियार्थदृशा : सर्वोन व्यक्तं = प्रतिपादितार्थ, अज्यस्याऽदृष्टार्थाभिधानशक्त्यभावात् । सर्वमिदं वचनं अनादि स्यात्. 'सर्वक्षेत्रापेक्षप्रवाहत: ।
कल्याणकन्दली आगमपुरस्सरं चिय करेइ तो सचकिच्चाई ।। --- [६९] इत्येवं धर्मरत्नप्रकरणे । आमुप्मिकफलोपदेशे = अतीन्द्रियपारलौकिकफल-तदवन्ध्योपायादिगोचरविधि-प्रतिषेधादी स्वतन्त्रप्रमाणं = अन्यप्रमाणानुपर्जीवि प्रमाणं आगम एव, न च तर्कस्यात्र स्वातन्त्र्येण सामर्थ्यम् । तदुक्तं मूलकारैरेव योगदृष्टिसमुच्चये --> अतीन्द्रियार्थसिद्धयर्थं यथाऽऽलोचितकारिणाम् । प्रयास: शुष्कतर्कस्य न चासौ गोचर: क्वचित् ।। गोचरस्त्वागमस्यैव ततस्तदुपलब्धित: <-- [यो.स.९८/९९ पूर्वार्ध:] इति । अत एवाउडसन्नभन्यस्य तत्रादरो महान, तदक्तं मूलकारैरेव योगविन्दी -> परलोकविधी शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान श्रद्धाधनसमन्वितः ।।२२।। --- इति । एतदनुवादरूपेण योगसारप्राभृते दिगम्बराऽमितगतिनापि ---> परलोकविधी शास्त्रं प्रमाणं प्रायशः परम् । यतोऽत्राऽऽसन्नभव्यानामादर: परमः ततः ।।--[८/६९] इति गदितम् । अन्यत्रापि-> जम्हा न मोक्खमग्गे, मोत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं तम्हा तत्थेव जइयत्वं ॥[ ] -- इत्युक्तम् । अत एवानुमानस्यापि स्वातन्त्र्येण सम्यगतीन्द्रियार्थनिश्चयार्थमवकाशो नैव । तदक्तं वाक्यपदीये भर्तृहरिणा --> यत्नेनानुमितोऽप्यर्थः, कुशलग्नुमातृभिः । अभियुक्ततररन्यैरन्यथैवोपपाद्यते ।। <-- [वा.प.कां.१/का.३४] इति । वादस्याऽप्यत्रा प्रचार एव । तदुक्तं पतञ्जलिना -> वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ ।। --- इति । अतीन्द्रियतत्त्वमित्यर्थमागमस्यैव स्वातन्त्र्यण सामर्थ्य , अतीन्द्रियार्थप्रतीत्यर्थश्चाऽध्यात्ममेव परम उपाय:, वादग्रन्थास्तूभयत्राऽकिञ्चित्कराः। तदुक्तं योगविन्दी ---> अध्यात्ममत्र परम उपाय: परिकीर्तितः । गती सन्मार्गगमनं यथैव ह्यप्रमादिनः ।। मुक्त्वाऽतो वादसघट्टमध्यात्ममनुचिन्त्यताम् । नाऽविधूते तमःस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ।। - [यो.बि.६८/६९] इति । इदमेवाभिप्रेत्य देशनाद्वात्रिंशिकायामपि -> परलोकविधी मानं बलवन्नाऽत्र दृश्यते -- २/१९] इत्युक्तम् । । इदश्चात्रावधेयम -> अतीन्द्रियार्थे आगममुपजीव्य लब्धात्मलाभस्याऽनुमानादेरपि प्रवृत्तियुज्यत एव, किन्तु तस्याउगममूलकतयेव प्रामाण्यं. न तु स्वातन्त्र्येण । अत एवातीन्द्रियार्थस्या गमवादविषयत्वव्यवस्थाऽप्यनाविला । तदुक्तं टीकाकृता स्याद्वादकल्पलतायां ---> यद्यप्यतीन्द्रियार्थे पूर्वमागमस्य प्रमाणान्तरानधिगतवस्तुप्रतिपादकत्वेना हेतुवादत्वं तथाप्यग्रे तदुपर्जाव्यप्रमाणप्रवृत्ती हेतुवादत्वेऽपि न व्यवस्थानुपपत्तिः, आद्यदशापेक्षयैव व्यवस्थाभिधानात् <-- [स्या.क.स्त.२/का.१३] इति । आगमगम्यस्याऽपि तदत्तरमनमानविषयत्वं योगविन्दी --> आत्माद्यतीन्द्रियं वस्तु योगिप्रत्यक्षभावतः । परोक्षमपि चान्येषां न हि युक्त्या न युज्यते ।। <--- [यो.चि.५१] इत्युक्त्योक्तमिति विभावनीयम् । परलोकविधावागमस्य स्वातन्त्र्येण प्रामाण्ये हेतुगर्भितमागमविशेषणमाहसर्वज्ञन प्रतिपादितार्थमिति. --> 'अत्थं भासइ अरहा' --- [आ.नि.९२ वि.भा.१११९] इति विशेपावश्यकभाष्यवचनात 'सर्व वाक्यं सावधारणमिटतोऽवधारणमिति न्यायाभ्यां व्यवच्छेद्यमाह- अन्यस्य = सर्वज्ञेतरस्य अदृष्टार्थाभिधानशक्त्ययोगात् = अतीन्द्रियार्थगोचरयथार्थाभिलापसामर्थ्याऽसम्भवात् । न च सर्वज्ञ एव नास्तीति सर्वमिदं फल्गुरिति शङ्कनीयम्, असम्भवद्भाधकप्रमाणत्वेन तसिद्भः । तदुक्तं ---> वीतरागोऽस्ति सर्वज्ञः, प्रमाणाऽबाधितत्वतः । सर्वदा विदितः सद्भिः सुखादिकमिव ध्रुवम् ।।१।। क्षीयते सर्वधा राग: क्यापि कारणहानितः । ज्वलनो हीयते किं न ? काष्ठादीनां वियोगत: ।।२।। प्रकर्षस्य प्रतिष्ठानं, ज्ञानं क्वापि प्रपठ्यते । परिमाणमिवान्कादो तारतम्योपलब्धितः ॥३॥ -- इत्यादि । अधिकं तु मत्कृत-जयलतायामवगन्तव्यम् [पृष्ठ-४५३] ।
सर्वं इदं सर्वज्ञादितं वचनं अनादि स्यात् । उपलक्षणादनन्तत्वमप्यस्यावसेयम् । यद्यपि अर्थतोऽनादित्वं शब्दात्मकद्धादशाग्या।
सूत्रता द्वादशाझ्यास्तु पौरुषेयत्वेन सादित्वमेव तथापि सर्व क्षेत्रापेक्षप्रवाहतः = महाविदेहादिवांपक्षसमूहमाश्रित्य वचनस्वरूपद्वादशाङ्ग्या अयनादित्वमनपायम् । न च सूत्रात्मकद्वादशाझ्या अनादित्वेऽपौरुषेयत्वप्रसङ्ग इति शङ्कनीयम्, कर्मभूम्यन्तर्गते यस्मिन् कस्मिंश्चिदपि क्षेत्रे सर्वदा उपलभ्यमानाया द्वादशांग्याः सूत्रतो गणधरग्रथितत्वेन पौरुषेयत्वानपायात् । अतो नापौरुषेयागमवादिमीमांसकमतसाम्राज्यम् । न चैवमसर्वज्ञगणधरोदितत्वेन सूत्रात्मकद्वादशाङ्ग्या : प्रामाण्यमनुपपन्नमिति शङ्कनीयम्, द्वादशाङ्गार्थभाषकसर्वज्ञोदितवचनस्यैव स्वातन्त्र्येण प्रमाणत्वेऽपि तन्मूलकतया गणधरसन्दधद्वाददाग्या अपि प्रामाण्यानतिक्रमात् । एतेन સર્વજ્ઞ ભગવંતે બોલેલા અર્થથી ગર્ભિત વચનાત્મક હોય છે, કેમ કે અન્ય અસર્વજ્ઞ પાસે અતીન્દ્રિય અર્થને યથાર્થ રીતે જાણાવવાની બોલવાની સ્વતંત્ર શકિત જ નથી. આ સર્વ સર્વજ્ઞભાષિત આગમ સર્વ ક્ષેત્રની અપેક્ષાએ પ્રવાહથી અનાદિ છે. માટે ઉપલક દષ્ટિએ १. ह. पती . 'सर्वक्षत्रापक्ष प्रवाहतः' इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org