________________
.. 11-1-11राकम्
88 दुर्गमशास्त्रवचनानां श्रद्धेयत्वसमर्थनम् 88 तत आपातविरुद्धेऽप्यः एतत् = आजैव प्रमाणमित्येवंप्रकारैः ऐदम्पर्यस्य शुद्धिः अतसेगा ॥१/१२|| ___ एवं सद्धर्मपरीक्षकाणां बालादिभेदत्रयमुक्त्वा तद्रतदेशनाविधिमाह → 'बालादीत्यादि ।
- कल्याणकन्दली -> अणाइमन्ता तित्थयरा, तप्परूविओ य धम्मो अणाइमं चेव <-- [भव.९ पृ.९४०] इति समरादित्यकेवलिचरित्रवचनमपि व्याख्यातम्, व्यक्त्यपेक्षया सादित्वेऽपि प्रवाहापेक्षयाऽनादित्वसङ्गते:, कालवत् । इत्थमेव ---> काले अणाइणिहणे.. -- [४९.] इति जीवविचारप्रमुखवचनोपपत्तेः ।
वस्तुतस्त्वत्र अनाद्यतीन्द्रियाद्यर्थव्यवस्थां साक्षादपलभ्य तत्प्रतिपादकतया सर्वज्ञवचनस्यानादित्वं प्रतिपादयितुमभिमतं याकिनी-. महत्तरासूनोरिति प्रतिभात्यस्माकम् । एतेन 'अरहा अत्थं भासति' [१९३] इति वृहत्कल्पभाष्यवचनात् अर्थतोऽपि वैयक्तिकद्वादशाझ्याः सादित्वापात इत्यपि समाहितम्, तथापि सर्वज्ञोक्तसार्वदिकज्ञेयहेयोपादेयार्थव्यवस्थाया अनादित्वेन तत्प्रयुक्तानादित्वानपायात् । गणधरक्षयोपशमवैविध्यात् द्वादशाग्यां सूत्रभेदसम्भवापेक्षया सूत्रतो द्वादशाङ्ग्याः सादित्वप्रवादः । न च गणधरग्रथितद्वादशाङ्ग्यां सूत्रभिन्नत्वमिवार्थतो भिन्नत्वं नानाविधतीर्थङ्करीयदेशनायां सम्भवति । नानातीर्थङ्करदेशनायां शब्दभेदस्तु नार्थदशनाभेदप्रयोजकः । अत एव टीकाकृतः “तत आपातविरुद्धेऽप्यर्थे 'एतत् = आज्ञैव प्रमाणमित्येवंप्रकारैः ऐदम्पर्यस्य शुद्धिः अवसेये"ति वचनमपि सुष्ठ घटाकोटिसण्टङ्कमाटीकते, अनाद्यर्थव्यवस्थाया अपर्यनुयोज्यत्वात् । तथैव तत्प्रतिपादकतया परममुनीनां पर्यनुयोगानहत्वोक्तिः प्रसिद्भा, तत्र विरोधाऽसाङ्गत्यादिदर्शनस्य श्रोतृगतदोषप्रयुक्तत्वात् । तदुक्तं ध्यानशतकेऽपि --> कत्थ य मइबल्लेण, तबिहायरियविरहओ वावि । नेयगहणतणेण य, नाणावरणोदण्णं च ॥ हेऊदाहरणासंभवे अ, सइ सुट्ट जं न बुज्झेज्जा । सञ्चन्नुमयमवितहं तहावि तं चिंतए मइमं ।। अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियराग-दोस-मोहा य नन्नहा वाइणो तेणं ।। --- [४७/४८/४९] इति । तदक्तं आचाराङ्गेऽपि -> तमेव सचं नीसंकं जं जिणेहिं पवेइ - [५/५/१६२] । आत्मदर्शनगीतायामपि -> रागद्वेषविमुक्तत्वात् सत्यं ब्रूते जिनेश्वरः । धार्या श्रद्धा जिनप्रोक्ता ब्रह्मदर्शनहेतवे ।।७६।। --- इत्युक्तम् । अन्यत्रापि -> आगमो ह्याप्तवचनमाप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद् हेत्वसम्भवात् ।। - [ ] इत्युक्तम् । ततश्च सर्वज्ञाऽभिप्रायान्वेषणे एव सर्वादरेण यतितव्यम् । तत्सामर्थ्य विरहे च हेतुवादविषयेऽपि तच्छ्रद्धानपरतया भाव्यम्, न त्वेवमेव तत्प्रतिक्षेपो युज्यते । तदुक्तमन्यत्रापि -> वीतरागा हि सर्वज्ञा मिथ्या न खते क्वचित् । यस्मात्तस्मादचस्तेषां तथ्यं भूतार्थदर्शनम् ॥ -- [] इति । न हि स्थाणोरयमपराधो यदेनमन्धो न पश्यति । इदमेवाभिप्रेत्योक्तं योगदृष्टिसमुच्चये -> तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ।।१३।। निशानाथप्रतिक्षेपो यथान्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवाग्दिशामयम् ॥१४०|| न युज्यते प्रतिक्षेप: सामान्यस्यापि तत्सताम् । आर्यापवादस्त पुनर्जिह्वाच्छेदाधिको मतः ॥१४॥ -- इत्यादि । तदक्तं अध्यात्मोपनिपदि --> वीतरागो नृतं नैव बयानद्धत्वभावतः । यस्तद्वाक्येष्वनाश्वासस्तन्महामोहविजृम्भितम् ।। --[१/१३] । अत एव पारलौकिकफले कर्तव्ये शास्त्रान्यप्रमाणमासन्नभव्यो नैवापेक्षते । तदुक्तं योगविन्दी -> तस्मात् सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते लोके मोहान्धकारेऽस्मिन् शास्रा लोक: प्रवर्तकः ||२२|| पापामयौषधं शास्त्रं, शास्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं,
વિરુદ્ધ જાણીતા અર્થને વિશે પાગ “આ જિનાજ્ઞા જ પ્રમાણ છે' આ રીતે વિચારવું તે ઔદંપર્યની શુદ્ધિ જાણવી. [૧/૧૨] ' વિશેષાર્થ :- અતીન્દ્રિય પરલોકસંબંધી ફળની પ્રાપ્તિના અમોઘ ઉપાયોને સ્વતંત્ર રીતે બનાવવાનું સમ્યફ સામર્થ્ય કેવલ આગમ વચનમાં જ રહેલું હોવાથી તે વિશે સ્વતંત્ર પ્રમાણ આગમ જ છે. સ્વતંત્ર પ્રમાણે કહેવાનો મતલબ એ છે કે આગમ પ્રમાણને પારલૌકિક ફલને કે તેના ઉપાયોને બતાવવામાં અન્ય પ્રમાણનું આલંબન લેવાની જરૂર નથી રહેતી. આનું કારણ એ છે કે સર્વજ્ઞ मगत गतीन्द्रिय पदार्थ भने तेना यथार्थ उपायोने साक्षात् उ न को ने तेनु प्रतिपान ३ छे. 'अत्धं भासइ अरहा') એ વચનથી સર્વ આગમ અર્થની દષ્ટિએ સર્વજ્ઞ અરિહંતે જ ભાખેલા છે, બીજા કોઈ પણ પ્રમાણનું આલંબન લીધા વિના સર્વજ્ઞાત અર્થને વથ રીતે બતાવવાનું સામર્થ્ય અસર્વજ્ઞ પાસે નથી સંભવતું. મહાવિદેહ, ઐરાવત, ભરત સર્વ ક્ષેત્રની અપેક્ષાએ પ્રવાહને माश्रयीने सिनाम अनादि छे. तेनो 5 Starting point नथी. उसाथी तेनो 5 Ending point पास नथी. भाटे જ તેના અર્થમાં ક્યારેય પણ વિસંવાદ ન સંભવી શકે. કદાચ આપાણી મંદ બુદ્ધિના લીધે જિનાગમના અર્થમાં ક્યાંય ઉપર છેલ્લો વિરોધ દેખાય તો પણ તેના અર્થમાં સર્વજ્ઞનિરૂપિતપણું રહેલું હોવાથી વાસ્તવિક વિરોધ ત્યાં સંભવિત નથી. માટે તે વખતે ‘શાશ્વત અર્થવ્યવસ્થાને સાક્ષાત્ જાગીને, જોઈને તે રીતે જ તેને બતાવવાનાં લીધે જિનાજ્ઞા પ્રમાણ છે.’ આ રીતે વિચાર કરવો તે દંપર્યશુદ્ધિ કહેવાય છે. તેવા સ્થાનમાં અપ્રામાયની ઘોષણા કરવાનું દુઃસાહસ ન કરવું. [૧/૧૨]
આ રીતે સધર્મપરીક્ષકના બાલાદિ ત્રાગ ભેદને જાણાવીને બાલાદિસંબંધી દેશનાની વિધિને જણાવતાં મૂલકારથી ફરમાવે છે કે – |
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org