________________
se आक्षेपण्यादिकधाचतुष्कनिरूपणम् 8 बालादिभावमेवं सम्यग्विज्ञाय देहिनां गुरुणा । सद्धर्मदेशनाऽपि हि कर्तव्या तदनुसारेण ॥१/१३॥ बालादीनां भावं = रुचिविशेषं एवं = उक्तरीत्या, सम्यग = अवैपरीत्येन विज्ञाय = अवबुद्भय देहिनां गुरुणा सद्धर्मदेशनाऽपि हि तदनुसारेण = बालादिपरिणामाऽनुरूपेण' कर्तव्या, तथैव तदुपकारसम्पत्तेः ॥१/१३॥
कल्याणकन्दली. शास्त्रं सर्वार्थसाधनम् ।।२२५||--- इति । इत्थञ्च धर्मपरीक्षापेक्षया आगमतत्त्वमीमांसकत्वं आचारापेक्षया रत्नत्रयानुसारित्वं स्वरूपतश्वाऽगमतत्त्वसदनुष्ठानादिगतविशेषविज्ञानगोचरविशिष्टतरविवेकदृष्टिकलितत्वमिति त्रिविधं बुधलक्षणमपदर्शितमेतावतेति निष्कर्षः ॥१/१२॥ | मूलग्रन्धे दण्डान्वयस्त्वेवम् ---> एवं देहिनां बालादिभावं सम्यग विज्ञाय गुरुणा सद्धर्मदेशनाऽपि हि तदनुसारेण कर्तव्या ॥१/१३॥ इयञ्च कारिका पष्ठिशतक-पञ्चाशकवृत्त्यादौ [ष.श.१३७ पं.९/१५] समुद्भता । अवबुध्येति । न च रुचिविशेषस्य मनोगतत्वादवबोधः कथमर्वाग्दृशामिति शङ्कनीयम्,आकारादिभिः सम्यक् तद्बोधसम्भवात् । तदुक्तं मनुस्मृतौ > आकारैरिङ्गितैर्गत्या. चेष्टया भाषणेन च । नेत्र-वक्त्र-विकारश्च गृह्यतेऽन्तर्गतं मनः || <-- [८/२६] इति । गुरुणा = अज्ञानान्धकारनिरोधिना, तदुक्तं -> गुशब्दस्त्वन्धकारः रुशब्दो रोध उच्यते । अन्धकारनिरोधित्वात् तस्माद्गुरुरिति स्मृतः ॥ -- [ ] इति । यद्वा गृणाति शास्त्रार्थमिति गुरुरित्यन्वर्थसमन्वितेन । बालादिपरिणामानुरूपेण इति । प्रत्यन्तरे 'बालादिपरिणामानुरूप्येण' इत्यपि पाठो दश्यते । सोऽपि शुद्धः । तथैव = श्रोतुगतबालादिपरिणामानसारिसद्भर्मदेशनाकरणेनैव तदपकारसम्पत्तेः = बालादिश्रोतृभावोपकारसम्भवात् । तदक्तं टीकाकृता देशनाद्वात्रिंशिकायामपि -> यथास्थानं गुणोत्पत्ते: सुवैद्येनेव भेषजम् । बालाद्यपेक्षया देया देशना क्लेशनाशिनी ।। -- [२/१] इति । तदुक्तं मूलकारैः योगशतकेऽपि -> गुरुणा लिंगेहिं तओ एएसिं भूमिगं मुणेऊण । उवएसो दायब्वो जहोचियं ओसहाऽऽहरणा ।।२४।। एवं चिय अवयारो जायइ मग्गम्मि हंदि एयस्स । रणे पहभट्ठोऽवट्टाए वट्टमोयरइ ।।२६।। एयम्मि परिणयम्मि पवत्तमाणस्स अहिगठाणेसु । एस विही अइणिउणं पायं साहारणो णेओ ॥३८।। <-- इति । न चान्त:तत्त्वमालिन्ये किं सद्धर्मदेशनाश्रवणेनेति शङ्कनीयम्, सद्धर्मश्रवणस्याचिन्त्यसामर्थ्यात् महाप्रभावत्वात् । तदुक्तं योगदृष्टिसमुच्चये -> क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः ॥६१।। क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ।।६२।। अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं, लोकद्वयहितावहम् ।।६३।। --- इति । तदुक्तं योगबिन्दावपि -> मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शोधनम् । अन्त:करणरत्नस्य तथा शास्त्रं विदर्बुधाः ।।२२९|| -- इति । ज्ञानावरण-दर्शनावरण-मिथ्यात्वक्षयोपशमद्वारा शास्त्रश्रवणस्य सम्यग्दर्शनजनकत्वात् । तदुक्तं धर्मबिन्दी -> जिनवंचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनमिति --- [३/६] इति । रोहिणेय-चिलातिपुत्रादिदृष्टान्ता अत्र भावनीयाः। तदुक्तं ग्रन्थकृतैव उपदेशपदे -> उवएसो वि हु सफलो गुणठाणारंभगाण जीवाण । परिवडमाणाण तहा, पायं न हु तट्ठियाणं पि ॥४९९॥[ ] <-- इति । पठ्यते चाऽन्यत्रापि -> क्लान्तमपोज्झति खेदं, तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥ --- इति । ततश्च गुरुणाऽप्यनुद्विग्नेन सद्भावानयनहेतुभिराक्षेपणविक्षेपणादिप्रकारैर्यथार्हमुपदेशदानपरतया भाव्यमिति तात्पर्यम् । । तदुक्तं प्रशमरती -> आक्षेपणीं विक्षेपणी विमार्गबाधनसमर्थविन्यासाम् । श्रोतृजनश्रोत्रमन:प्रसादजननीं यथा जननीम् ॥ संवेदनी च निर्वेदनी च श्राव्यां कथां सदा कुर्यात् । स्त्री-भक्त-चौर-जनपदकथाश्च दूरात् परित्याज्या: ।। <-- [प्र.र.१८२/ १८३] इति । अत्र तदवचूरिकारः -> आक्षिप्यन्ते = धर्मं प्रत्यभिमुखाः प्राणिनो यया सा आक्षेपणी । विक्षिप्यन्ते पराउपरदेवादिदोषकथनेन प्रेर्यन्ते प्राणिनो यत्र सा विक्षेपणी । सम्यग विवेच्यते = नरकादिद:खेभ्यो भयं ग्राह्यते यया सा संवेजनी । निर्वेदं कामभोगेभ्यो यया सा एवं [= निर्वेदनी] - इत्याह । तट्टीकाकार: श्रीहरिभद्रसूरिः तु --> आक्षिपति = आवर्जयति = अभिमुखीकरोति या सा आक्षेपणी कथा शङ्गारादिप्राया। विक्षिपति भोगाभिलाषात् या कामभोगेष वैमुख्यमा
માશાસ્ત્ર :- આ રીતે જીવોના બાલાદિ ભાવને સારી રીતે જાણીને ગુરુએ સધર્મદશના પણ ખરેખર તેને અનુસારે કરવી मे. [4/13]
ટીકાર્ય :- બાલ, મધ્યમ વગેરે જીવોની વિશેષ રૂચિને ઉપરોક્ત રીતે યથાર્થ રીતે- અવિરુદ્ધ રીતે જાણીને ગુરુએ સધર્મ! દેશના પણ જીવોના બાલાદિ પરિણામને અનુસારે કરવી જોઈએ; કેમ કે બાલાદિ જીવોના પરિણામને અનુસારે ધર્મની દેશના આપવા દ્વારા જ બાલ વગેરે શ્રોતાઓ ઉપર ભાવ ઉપકાર થઈ શકે છે. [૧/૧૩] १. '....माऽऽनुरूप्येण' इति मुद्रितप्रती पाठः । सोऽपि शुद्धः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org