________________
२६ प्रथम-षोडशकम्
88 परिणतादित्रितयस्वरूपद्योतनम् 88 | उत्तमेवाण व्यतिरेकेण दृढयति → 'यदित्यादि ।
यद्भापितं मुनीन्द्रः पापं खलु देशना परस्थाने । उन्मार्गनयनमेतद्भवगहने दारुणविपाकम् ॥१/१४॥ यत् = यस्मात् भाषितं मुनीन्द्रैः = परमज्ञानिभिः पापं खलु वर्तते देशना परस्थाने बालादियोग्या मध्यमादिस्थाले एतत् - विपरीतदेशजाकरणं अपरिणामस्यातिपरिणामस्य वा जननात् श्रोतु: उन्मार्गनयनं भवगहने
कल्याणकन्दली पादयति सा विक्षेपणी - इत्याचष्टे । अन्यत्र च -> स्थाप्यते हेतु-दृष्टान्तैः स्वमतं यत्र पण्डितैः । स्याद्वादध्वनिसंयुक्तं सा कथाक्षेपणी मता ।। मिथ्यादृशां मतं यत्र पूर्वापरविरोधकृत् । तन्निराक्रियते सद्भिस्सा च विक्षेपणी मता ।। यस्याः श्रवणमात्रेण भवेन्मोक्षाभिलाषिता । भन्यानां सा च विद्वद्भिः प्रोक्ता संवेदनी कथा ।। यत्र संसारभोगाङ्गस्थितिलक्षणवर्णनम् । वैराग्यकारणं भव्यः सोक्ता निर्वेदनी कथा ।। - [ ] इत्युक्तम् । धर्मविन्दुवृत्तौ तु -> आक्षिप्यन्ते = आकृष्यन्ते मोहात् तत्त्वं प्रति भत्र्यप्राणिनोऽनयेत्याक्षेपणी तस्याः कथायाः प्रयोग:]: सा चाऽऽचार-व्यवहार-प्रज्ञप्ति-दृष्टिवादभेदाच्चतुर्धा । तत्राऽऽचारो लोचाऽस्नानादिसाधुक्रियारूप: [१], व्यवहारः कथञ्चिदापनदोषव्यपोहाय प्रायश्चित्तलक्षण: २], प्रज्ञप्तिः = संशयापत्रस्य मधुरवचनैः प्रज्ञापनं [३], दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनम् [४] - [ध.बि.२/१० पृ.३४] इत्युक्तम् । आक्षेपण्यादीनां प्रत्येकं चतुर्विधत्वादिकं स्थानाङ्गवृत्तितोऽवसेयम् [४/२/२८२] । दशवैकालिकनियुक्ति [गा.१९५-२०१] मूलाराधना [६५६-६५७] धवला [प्रथम भाग- पृ.१०५-१०६] प्रभृतिग्रन्थावलोकनादातासां नानारूपताऽवसेया ।
___ इदश्चात्राबधेयम् - भवाभिनन्दिनां तूपदेशाऽविषयत्वमेव तदुपदेशस्य तत्त्वावबोधादिकार्याकरणात्, विपर्ययसाधनाच्च यथोक्तं उपदेशपदे ---> समणीयंपि जरुदये दोसफल चेव हंत सिद्धमिणं । एवं चिय सुत्तं पि हु मिच्छत्ते जरोदए णेयं ।।
--[२८] । ततश्च धर्मदेशनाधिकारात् प्रकृते बालादयोऽपुनर्बन्धकादिस्वरूपा एव समवसेयाः, तेषामेव यथोपदेशं क्षयोपशमानुगुण्येन मार्गप्रवेशादिफलप्राप्तिसम्भवादिति । धर्मसङग्रहेऽपि ---> स धर्मदेशनायोग्यो मध्यस्थत्वाज्जिनैर्मतः । योगदृष्ट्युदयात् सार्थं यद् गुणस्थानमादिमम् ।।१८।। - इत्युक्तम् । 'स:' = आदिधार्मिकः, शिष्टं स्पष्टम् ॥१/१३॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत् परस्थाने देशना खलु पापं [इति] मुनीन्द्रः भाषितम् । एतत् भवगहने उन्मार्गनयनं दारुणविपाकम् ।।१/१४|| इयं कारिका श्रीसागरानन्दसूरिभिः अधिकार-लोकविंशिकावृत्तौ समुद्भूता [अ.वि.गा.१२ लो.वि.७] ।। परस्थानदेशनागतं पापदेशनात्वं ह्युपरितनभूमिको चितस्य श्रोतुरधस्तनस्थाननेतृत्वं तत्स्थानप्रतिबन्धकारित्वं वा एवमधस्तनभूमिकोचितस्य श्रोतुरगम्योपरितनोपदेशदानादिनाउनास्थाजनकत्वमधस्तमस्थाननेतृत्वादिकं वाञ्वगन्तव्यम् । ततश्चोपदेशकस्यापि सम्मोहभावनाभावितत्वं स्यात् । तदुक्तं बृहत्कल्पभाष्ये --> उम्मग्गदेसणा मग्गदसणा, मग्गविप्पडीवत्ती । मोहेण य मोहित्ता, संमोहं, भावणं कुणइ ।।१३२१।। <-- इति । ततश्चाऽऽत्मनो बोधिदर्लभता । तदुक्तं बृहत्कल्पभाष्य एव --> सम्मोहं भावणं सो पकरेड़ अबोहिलाभाय ।।१३२६।। --- इति । बालादियोग्या मध्यमादिस्थाने, एवं मध्यमयोग्या पण्डितादिस्थाने पण्डितयोग्या च बालादिस्थान इति बोध्यम, विपरीतदेशनाकरणं अपरिणामस्य = अस्थानोत्सर्गरुचेः अतिपरिणामस्य वा = अस्थानाऽपवादरुचेर्वा जननात्, -> उत्सर्गे उत्सर्गमपवादे चापवादं यथाभणितं श्रद्दधति आचरन्ति च ये ते सूत्रार्थविदः परिणताः ।। ये पुनरुत्सर्गमव श्रद्दधति आचरन्ति चापवादन्तु न श्रद्दधति नाचरन्ति स्वस्थाने तेऽपरिणताः । ये चापवादमेवाचरन्ति वदन्ति च नोत्सर्ग तेतिपरिणताः - इति प्रकल्पग्रन्थकतः । निरुक्ताऽपरिणामाऽतिपरिणामोत्पादनात श्रोत: उन्मार्गनयनं, तदुक्तं
વિશેષાર્થ :- થોતાની જે ભૂમિકા હોય તેને અનુસરીને જે ધર્મદશના આપવામાં આવે તો જ શ્રોતા ધર્મને સારી રીતે સમજી શકે તથા ઉપદિશ્યમાન ધર્મ પ્રત્યે આકર્ષિત થઈ શકે. તેમ જ પોતાની શક્તિ, રુચિ અને સંયોગને અનુસરીને ધર્મમાર્ગે પ્રગતિ કરી શકે. માટે થતા ઉપર તાત્ત્વિક ભાવ ઉપકાર કરવા માટે ધર્મદશકે થોતાની ભૂમિકાને વ્યવસ્થિત રીતે જાણવાનો ઉદ્યમ કરીને તે ધર્મ પામે, સ્થિર થાય, આગળ વધે એ રીતે ધર્મદશકે ધર્મદેશના આપવી જોઈએ. [૧/૧૩]
ઉપરોકત હકીકતને વ્યતિરેકથી = નિષેધમુખે દઢ કરવા માટે મૂલકારથી ફરમાવે છે કે –
ગાથાર્ચ :- ‘પરથાનમાં દેશના આપવી તે ખરેખર પાપ છે' આ પ્રમાણે મુનીન્દ્રોએ જણાવેલ છે. પરસ્થાન દેશના શ્રોતાને]|| સંસારરૂપી જંગલમાં ઉન્માર્ગે દોરે છે અને દારુણવિપાક [લાવે છે. [૧/૧૪]
ટીકાર્ય :- દિશના થોતાની ભૂમિકા મુજબ કરવી જોઈએ;] કારણ કે ‘પરસ્થાનમાં દેશના ખરેખર પાપ છે' એમ પરમજ્ઞાની પુરુષોએ કહેલ છે. પરસ્થાન દેશનાનો અર્થ છે વિપરીત દેશના. જેમ કે બાલ આદિને યોગ્ય દેશના મધ્યમબુદ્ધિ આદિ શ્રોતાને કરવી. આ રીતે દેશનાને વિપરીત રીતે કહેવાથી થોતાના અપરિણામ કે અતિપરિણામ ઉત્પન્ન થવાના લીધે થોતાને સંસારરૂપી જંગલમાં લઈ જવાનું થાય છે. તથા ધર્મદેશકને ભયંકર વિપાક-કર્મના કડવાં ફળ ભોગવવા પડે છે, કારણ કે [વિપરીત દેશના કરવી તે કુશીલતાનું લક્ષણ છે અને કુશીલતા એ મહાઅનર્થનો હેતુ છે- એવું શાસ્ત્રમાં બતાવવામાં આવેલ છે. [૧૪].
કરી પપદેશના મોળખી લો અને
-
-
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org