________________
8 विपरीतदेशनातो दारुणविपाकः
संसारकाने दारुणविपाकं वा, कुशीलताया महानर्थहेतुत्वप्रतिपादनात् ॥१ / १४॥
कल्याणकन्दली
--->
=
-->
<---
सूत्रकृताङ्गे --> अंधो अंधं पहं णिंतो दूरमद्धाणुगच्छइ -- [१/१/२/१९] । ततश्च --> अइपरिणइ अपरिणइ दुहवि | मग्गं जणो अणासंसी । तम्हा देसणमाइक्खइ सुहगुरु मग्गरक्खट्ठा ॥ -- [ ] इति प्रकल्पग्रन्धवचनमाश्रित्य मार्गरक्षार्थमतिपरिणामकादे: मार्गावतारणाय सद्धर्मदेशनौचित्येन दातव्या धर्मदेशकेन । तत्सामर्थ्यं तु गीतार्थे एव । तदुक्तं बृहत्कल्पभाप्ये • संसारदुक्खमहणो विबोहओ भवियपुंडरियाणं । धम्मो जिणपन्नत्तो प्रकम्पजइणा कहेयव्वो - ॥ ११३५ ॥ ---> जिनप्रज्ञप्तो धर्म: प्रकल्पयतिना निशीथाध्ययनसूत्रार्थधारिणा साधुना कथयितव्यः । स हि संविग्नगीतार्थतयोत्सर्गापवादपदानि स्वस्थाने स्वस्थाने विनियुञ्जानो न विपरीतप्ररूपणया आत्मानं परं वा दीर्घभवभ्रमणभाजनतामातनोतीति -तट्टीकायां श्री क्षेमकीर्तिसूरयः । ननु कदाचिच्छ्रोतुर्निरुक्तदोषभाक्त्वं नाऽपि स्यात् यद्वा श्रोतुर्धर्मो भवतु मा वा किन्तु सद्धर्मदेशकस्य त्वेकान्ततो निर्जरालक्षण फलमवश्यम्भावि । तदुक्तं वाचकमुख्येन -> न भवति धर्मः श्रोतु:, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥ -- [ तत्त्वा. का. २९ ] इति । ततश्च श्रोतृभेदभावमपहाय सर्वेषामेव श्रोतॄणामेकरूपतयैव देशना दातव्या । तदुक्तं आचाराङ्गेऽपि --> 'जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति, जहा तुच्छस्स कत्थति तहा पुण्णस्स कत्थति <- [आचा. १/२/६/सू.१०२] इति । देशकेन हि धर्मपरिणामलक्षणं श्रोतृगतफलमप्यनपेक्षणीयमेव, तदुक्तं भगवद्गीतायां कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ← [म.गा. २/४७] इति । ततश्च सद्धमदेशकेन हि मुक्त्वा पक्षपातमनपेक्ष्य च परिणाममनुग्रहबुद्धचा सर्वदैव सर्वत्रैव समानरूपेण सद्धर्मदेशना प्रतन्येत्याशङ्कामपाकर्तुमाह - दारुणविपाकं वेति । वाकारो न भजनायां किन्तु व्यवस्थायाम् । उन्मार्गनयनलक्षणं परस्थानदेशनाफलं श्रोत्रपेक्षया दारुणविपाकलक्षणं च तत् सद्धर्मदेशकापेक्षयेति व्यवस्था प्रकृतेऽवगन्तव्या । अर्थादावविध्यासेवने केवलमर्थाद्यभाव एवं धर्मदेशनादिलक्षणे धर्मे त्वविध्यादितोऽनर्थं एव, श्रोतुरनिष्टापादनात् आज्ञाविराधनाच्च । तदुक्तं योगविन्दौ --> अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात्परः || २२३|| - इति । सद्धर्मदेशनालक्षणधर्मानुष्ठानवितथकरणे प्रत्यपायस्तु --> धर्मानुष्ठानवेतध्यात् प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको दुष्प्रयुक्तादिवौषधात् ॥ -- [] इत्यादिना प्रसिद्ध एव । विपरीतचिकित्सादिवत् मुख्यतो विपरीतंदेशनाकरणलक्षणमविधिमधिकृत्यैव --> अविहि-कया वरमक [] इत्युक्तिः प्रसिद्धा । अतो गुरुणा प्रथमं सर्वादरेण श्रोतृभूमिका परिज्ञातव्या, न त्येवमेवोपदेशदाने प्रयतितव्यम् । तदुक्तं कालिदासेनापि अभिज्ञानशाकुन्तले विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य [३ / ७] इति । 'वक्तुस्त्वेकान्तत' इति वाचकमुख्यवचनं तु स्वस्थान|देशनापेक्षयैवावगन्तव्यम् । 'जहा तुच्छस्स..' इत्यपि सद्धर्मदेशकस्य निरभिष्वङ्गतामात्रबोधनायैव बोध्यम् । तदुक्तं धर्मरत्नप्रकरणे -> मज्झत्थो देसणं कुणइ -- [ध.र.प्र.गा.९५] इति । राजाद्यभिप्रायाननुसरणे प्रकटदोषोपदर्शनपूर्वमनुपदमेव तत्र पुरुषादि - | | देशादिपरिज्ञानवत्त्वेन देशनाधिकारित्वाभिव्यञ्जनात् । तदुक्तं आचारा अवि य हणे अणातियमाणे । एत्थंपि जाण सेयं ति णत्थि । केज्यं पुरिसे कंच गए ? एस वीरे पसंसिए जे बद्धे पडिमोयए [आ. श्रु.स्क. १/अ.२/ उद्दे.६/ सू. १०३ ] इति । श्रोतृभूमिकानिश्चयपूर्वमपायपरिहारपरतया वक्तव्यमिति भावः । तदुक्तं निशीथचूर्णो अपि -> कारणे चरगादिभावितेसु खेत्तेसु ठियस्स जति ते चरगादिया बहुजणमज्झे ससिद्धतं पन्नवेंति तत्थ उवेहं कुज्जा, मा पडिवहकरणे खेत्तातो गीणिजेज्ज । उवसगादिपुट्ठो 'अत्थि णं एतेसिं भिक्खुयाणं वए वा नियमे वा ? ' ताहे तेसिं दाणसङ्काणं अणुयत्तीए भणिज्ज- एते वि भव्ययं धरेति, आदिसदातो जीवेसु दयालुया <- [नि.मा. ३३५६ भाग. ३ पृ. १९६] । अत्र प्रतिपथकरणं नाम प्रतिपक्षस्थापनं, उपासकः बौद्धधर्मोपासकः, भिक्षुः रक्तपटो बौद्धसाधुरिति ध्येयम् । निशीथपीठिकायामपि -> मिच्छुगा रत्तपडा, आदिसदातो परिव्वायगादि । तेहिं भावियं जं खेत्तं तत्थ उवासगा पुच्छंति सढतात [ = शाठ्यात् ] | परमत्थेण वा 'भगवं ! अम्हे भिच्छुगादीआण दाणं दलयामो एयस्स फलं किं अत्थि न वत्थि त्ति' । सो एवं पुट्ठो भगति [= भण्यते = उपदिश्यते] दाणस्स णत्थि णासोत्ति । जति वि य तेसिं दाणं दिण्णं अफलं, तहा चेव [ = तथैव = 'तद्दाननाशो नास्ती' ति] भणाति मा ते उद्धरुट्ठा धाडेहंतीत्यर्थः <- [गा. ३२३ पृ.११३] । न तु तत्र 'शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसन्त्रासनसिंहनादः <- इति ललितविस्तरादिवचनमनुसृत्य यथार्थमेव स्वसिद्धान्तप्ररूपणं श्रोतृभूमिका ननुरूपमुपदेष्टव्यम्, सिद्धान्तविराधनात् । योगशतकेऽपि --> उवएसोसियम्मी विसए वि अणीइसो अणुवएसो । बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो || ३६ || गुरुणो अजोगिजोगो अच्चंत विवागदारुणो णेओ । जोगीगुणहीलगा णासणा धम्मलाघवओ ||३७|| -- इत्युक्तम् । कुशीलताया इति । प्रत्यन्तरे 'कुशीलतया' इति पाठः । ननु श्रोतृ भूमिकामनपेक्ष्य विशेषार्थ :- પરસ્થાનદેશનાનો મતલબ એ છે કે બાલયોગ્યદેશના મધ્યમને કે પંડિતને કરવી તથા મધ્યમયોગ્યદેશના બાલને
-->
<---
-->
<--
Jain Education Intemational
=
-
२७
For Private & Personal Use Only
www.jainelibrary.org