Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 60
________________ 8 विपरीतदेशनातो दारुणविपाकः संसारकाने दारुणविपाकं वा, कुशीलताया महानर्थहेतुत्वप्रतिपादनात् ॥१ / १४॥ कल्याणकन्दली ---> = --> <--- सूत्रकृताङ्गे --> अंधो अंधं पहं णिंतो दूरमद्धाणुगच्छइ -- [१/१/२/१९] । ततश्च --> अइपरिणइ अपरिणइ दुहवि | मग्गं जणो अणासंसी । तम्हा देसणमाइक्खइ सुहगुरु मग्गरक्खट्ठा ॥ -- [ ] इति प्रकल्पग्रन्धवचनमाश्रित्य मार्गरक्षार्थमतिपरिणामकादे: मार्गावतारणाय सद्धर्मदेशनौचित्येन दातव्या धर्मदेशकेन । तत्सामर्थ्यं तु गीतार्थे एव । तदुक्तं बृहत्कल्पभाप्ये • संसारदुक्खमहणो विबोहओ भवियपुंडरियाणं । धम्मो जिणपन्नत्तो प्रकम्पजइणा कहेयव्वो - ॥ ११३५ ॥ ---> जिनप्रज्ञप्तो धर्म: प्रकल्पयतिना निशीथाध्ययनसूत्रार्थधारिणा साधुना कथयितव्यः । स हि संविग्नगीतार्थतयोत्सर्गापवादपदानि स्वस्थाने स्वस्थाने विनियुञ्जानो न विपरीतप्ररूपणया आत्मानं परं वा दीर्घभवभ्रमणभाजनतामातनोतीति -तट्टीकायां श्री क्षेमकीर्तिसूरयः । ननु कदाचिच्छ्रोतुर्निरुक्तदोषभाक्त्वं नाऽपि स्यात् यद्वा श्रोतुर्धर्मो भवतु मा वा किन्तु सद्धर्मदेशकस्य त्वेकान्ततो निर्जरालक्षण फलमवश्यम्भावि । तदुक्तं वाचकमुख्येन -> न भवति धर्मः श्रोतु:, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥ -- [ तत्त्वा. का. २९ ] इति । ततश्च श्रोतृभेदभावमपहाय सर्वेषामेव श्रोतॄणामेकरूपतयैव देशना दातव्या । तदुक्तं आचाराङ्गेऽपि --> 'जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति, जहा तुच्छस्स कत्थति तहा पुण्णस्स कत्थति <- [आचा. १/२/६/सू.१०२] इति । देशकेन हि धर्मपरिणामलक्षणं श्रोतृगतफलमप्यनपेक्षणीयमेव, तदुक्तं भगवद्गीतायां कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ← [म.गा. २/४७] इति । ततश्च सद्धमदेशकेन हि मुक्त्वा पक्षपातमनपेक्ष्य च परिणाममनुग्रहबुद्धचा सर्वदैव सर्वत्रैव समानरूपेण सद्धर्मदेशना प्रतन्येत्याशङ्कामपाकर्तुमाह - दारुणविपाकं वेति । वाकारो न भजनायां किन्तु व्यवस्थायाम् । उन्मार्गनयनलक्षणं परस्थानदेशनाफलं श्रोत्रपेक्षया दारुणविपाकलक्षणं च तत् सद्धर्मदेशकापेक्षयेति व्यवस्था प्रकृतेऽवगन्तव्या । अर्थादावविध्यासेवने केवलमर्थाद्यभाव एवं धर्मदेशनादिलक्षणे धर्मे त्वविध्यादितोऽनर्थं एव, श्रोतुरनिष्टापादनात् आज्ञाविराधनाच्च । तदुक्तं योगविन्दौ --> अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात्परः || २२३|| - इति । सद्धर्मदेशनालक्षणधर्मानुष्ठानवितथकरणे प्रत्यपायस्तु --> धर्मानुष्ठानवेतध्यात् प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको दुष्प्रयुक्तादिवौषधात् ॥ -- [] इत्यादिना प्रसिद्ध एव । विपरीतचिकित्सादिवत् मुख्यतो विपरीतंदेशनाकरणलक्षणमविधिमधिकृत्यैव --> अविहि-कया वरमक [] इत्युक्तिः प्रसिद्धा । अतो गुरुणा प्रथमं सर्वादरेण श्रोतृभूमिका परिज्ञातव्या, न त्येवमेवोपदेशदाने प्रयतितव्यम् । तदुक्तं कालिदासेनापि अभिज्ञानशाकुन्तले विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य [३ / ७] इति । 'वक्तुस्त्वेकान्तत' इति वाचकमुख्यवचनं तु स्वस्थान|देशनापेक्षयैवावगन्तव्यम् । 'जहा तुच्छस्स..' इत्यपि सद्धर्मदेशकस्य निरभिष्वङ्गतामात्रबोधनायैव बोध्यम् । तदुक्तं धर्मरत्नप्रकरणे -> मज्झत्थो देसणं कुणइ -- [ध.र.प्र.गा.९५] इति । राजाद्यभिप्रायाननुसरणे प्रकटदोषोपदर्शनपूर्वमनुपदमेव तत्र पुरुषादि - | | देशादिपरिज्ञानवत्त्वेन देशनाधिकारित्वाभिव्यञ्जनात् । तदुक्तं आचारा अवि य हणे अणातियमाणे । एत्थंपि जाण सेयं ति णत्थि । केज्यं पुरिसे कंच गए ? एस वीरे पसंसिए जे बद्धे पडिमोयए [आ. श्रु.स्क. १/अ.२/ उद्दे.६/ सू. १०३ ] इति । श्रोतृभूमिकानिश्चयपूर्वमपायपरिहारपरतया वक्तव्यमिति भावः । तदुक्तं निशीथचूर्णो अपि -> कारणे चरगादिभावितेसु खेत्तेसु ठियस्स जति ते चरगादिया बहुजणमज्झे ससिद्धतं पन्नवेंति तत्थ उवेहं कुज्जा, मा पडिवहकरणे खेत्तातो गीणिजेज्ज । उवसगादिपुट्ठो 'अत्थि णं एतेसिं भिक्खुयाणं वए वा नियमे वा ? ' ताहे तेसिं दाणसङ्काणं अणुयत्तीए भणिज्ज- एते वि भव्ययं धरेति, आदिसदातो जीवेसु दयालुया <- [नि.मा. ३३५६ भाग. ३ पृ. १९६] । अत्र प्रतिपथकरणं नाम प्रतिपक्षस्थापनं, उपासकः बौद्धधर्मोपासकः, भिक्षुः रक्तपटो बौद्धसाधुरिति ध्येयम् । निशीथपीठिकायामपि -> मिच्छुगा रत्तपडा, आदिसदातो परिव्वायगादि । तेहिं भावियं जं खेत्तं तत्थ उवासगा पुच्छंति सढतात [ = शाठ्यात् ] | परमत्थेण वा 'भगवं ! अम्हे भिच्छुगादीआण दाणं दलयामो एयस्स फलं किं अत्थि न वत्थि त्ति' । सो एवं पुट्ठो भगति [= भण्यते = उपदिश्यते] दाणस्स णत्थि णासोत्ति । जति वि य तेसिं दाणं दिण्णं अफलं, तहा चेव [ = तथैव = 'तद्दाननाशो नास्ती' ति] भणाति मा ते उद्धरुट्ठा धाडेहंतीत्यर्थः <- [गा. ३२३ पृ.११३] । न तु तत्र 'शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसन्त्रासनसिंहनादः <- इति ललितविस्तरादिवचनमनुसृत्य यथार्थमेव स्वसिद्धान्तप्ररूपणं श्रोतृभूमिका ननुरूपमुपदेष्टव्यम्, सिद्धान्तविराधनात् । योगशतकेऽपि --> उवएसोसियम्मी विसए वि अणीइसो अणुवएसो । बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो || ३६ || गुरुणो अजोगिजोगो अच्चंत विवागदारुणो णेओ । जोगीगुणहीलगा णासणा धम्मलाघवओ ||३७|| -- इत्युक्तम् । कुशीलताया इति । प्रत्यन्तरे 'कुशीलतया' इति पाठः । ननु श्रोतृ भूमिकामनपेक्ष्य विशेषार्थ :- પરસ્થાનદેશનાનો મતલબ એ છે કે બાલયોગ્યદેશના મધ્યમને કે પંડિતને કરવી તથા મધ્યમયોગ્યદેશના બાલને --> <--- --> <-- Jain Education Intemational = - २७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240