Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 88
________________ 8 प्रवर्तकादिस्वरूपद्योतनम् अथ किमिति सकलानुष्ठानोपसर्जनीभावाऽऽपादनेन वचनस्यैव प्राधान्यं ख्याप्यते ? इत्याशङ्कायामाह → 'यस्मादित्यादि । यस्मात्प्रवर्त्तकं भुवि निवर्त्तकञ्चान्तरात्मनो वचनम् । धर्मवैतत्संस्थो मौनीन्द्रञ्चैतदिह परमम् ||२/१३॥ यस्मात् प्रवर्त्तकं भुवि = भव्यलोके स्वाध्यायादौ विधेये, निवर्त्तकथ हिंसादे: अन्तरात्मन: - मनसो वचनम् । धर्मश्च प्रवृत्ति - निवृत्तिफलजननव्यापारीभूत एतस्मिन् वचने ज्ञापकतासम्बन्धेन सन्दिष्ट इति एतत्संस्थ: । मौनीन्द्रं = मुनीन्द्रोक्तेनाऽबाधितप्रामाण्यं चैतत् वचनं इह प्रक्रमे परमं अनुष्ठानानुपजीविप्रामाण्यम् । तत इदमेव प्रधानमुद्धुष्यतेऽनुष्ठानादिक चैतदुपजीवकत्वेनोपसर्जनीक्रियत इति भावः ॥२/१३॥ कल्याणकन्दली पद्येते अभयकुमारवदिति विभावनीयम् ||२ / १२ ॥ -> धर्मश्व प्रवृत्ति - निवृत्तिफलजननव्यापारीभूतः मूलग्रन्थे दण्डान्वयस्त्वेवम् --> यस्मात् भुवि अन्तरात्मनः प्रवर्त्तकं निवर्त्तकं च वचनम् । धर्मश्च एतत्संस्थः, इह च परमं एतत् मानीन्द्रम् ||२ / १३ || इयं कारिका पञ्चाशकवृत्ति-धर्मरत्नप्रकरणवृत्त्यादी [पं.७/३ ६.गा.८० पृ. २४६] उद्धृता स्वाध्यायादौ पारलौकिकफले सदनुष्ठाने = विधेये मनसः प्रवर्तकं, हिंसादेः निषिद्धात् मनसो निवर्तकञ्च वचनं = सदागमवचनम् । आचाराङ्गटीकायामपि तीर्थकृदादीनां वचनं हिताहितप्राप्तिपरिहारप्रवर्तकं <- (७/३/२०४- पृ. २४८) इत्युक्तम् । प्रवर्त्तन- निवर्त्तनयोः फले जननीये वचनद्वारीभूतः पुण्याद्यभिधानः न हि साक्षादेव प्रवृत्त्यादेः सकाशात् व्यवहितकालं फलं सम्भवति किन्तु भावात्मकव्यापारविशेषद्वारैव । स च प्रकृते धर्मपदे| नाभिहितः । न चैवमलसस्याऽपि वचनाद्विधेयार्थे प्रवृत्त्यापत्तिरिति शङ्कनीयम्, तत्तदर्धज्ञानानां तद्विषयकवीर्यान्तरायक्षयोपशमजनकत्वेनैव प्रवृत्तिहेतुत्वात्, अलसस्य विध्यर्धमानेऽपि आलस्यदोषप्रतिबन्धेन वीर्यान्तरायक्षयोपशमाऽ निष्पत्तेरप्रवृत्त्युपपत्तेः ॥ इत्थमेव चाऽविरतसम्यग्दृष्ट्यादेः शक्यविरत्यादौ प्रवृत्त्यभावोपपत्तेरिति [अ.स.वि.पृष्ठ ५२A श्लो. ३वृ.] व्यक्तमुक्तं टीकाकृता अष्टसहस्रीतात्पर्यविवरणे । जिनवचनादेव विज्ञायते यदुत ' विहितप्रवृत्त्यादिजन्यः प्रवृत्त्यादिफलजननव्यापारीभूतो धर्मो वर्तते ' तज्जन्यत्वे सति तज्जन्यजनकत्वस्य व्यापारलक्षणत्वात् । अतः धर्मो वचने ज्ञापकतासम्बन्धेन = स्वनिष्ठज्ञाप्यतानिरूपितज्ञापकतासम्बन्धेन सन्दिष्टः । स्वपदेन अतीन्द्रियः पुण्यादिस्वरूपो धर्मो ग्राह्य इति ध्येयम् । मुनीन्द्रोक्तेन सर्वज्ञोक्तत्वेन अबाधितप्रामाण्यं = प्रामाण्यव्याघातशून्यं चैतत् वचनं इह प्रकमे परमम् । तदुक्तं प्रशमरती शासनसामर्थ्येन, सन्त्राणबलेन चाऽनवद्येन । युक्तं यत् तच्छास्त्रं तचैतत् सर्वविद्वचनम् ॥ १८८ ॥ - इति । इदमेवाऽभिप्रेत्य टीकाकृताऽपि ज्ञानसारे शासनात् त्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य तत्तु नाऽन्यस्य कस्यचित् ॥ <- [ज्ञा.सा. २४ / ३] इति । प्रकृते वचनगतं पारम्यञ्च परतीर्थिकवचनाद्यपेक्षयाऽतिशयस्वरूपं प्रमाणान्तरानुपजीविप्रामाण्यलक्षणं वा तथापि उपक्रमोपसंहारविरोधपरिहाराय ‘परमं = अनुष्ठानाऽनुपजीविप्रामाण्य' मिति टीकाकृता व्याख्यातं, | सदनुष्ठानानवलम्बिप्रामाण्यकमित्यर्थः । अनुष्ठानं जिनवचनस्योपजीवकं जिनवचनञ्चानुष्ठानस्योजीव्यम् । उपजीव्यस्योपजीवकापेक्षया बलवत्त्वात् इदं = जिनवचनं एव सदनुष्ठानापेक्षया प्रधानं = अनुपसर्जनीभूतमिति उद्घुप्यते, अनुष्ठानादिकञ्च एतदुपजीव|कत्वेन = जिनवचनावलम्बित्वेन उपसर्जनीक्रियते गौणभावमापाद्यत इति भावः । उपजीवतीति उपजीवकः, उपजीवयतीति = = = < –> દરેક અનુષ્ઠાનને ગૌણ કરીને શા માટે જિનવચનની જ પ્રધાનતા પંડિત જીવને જણાવાય છે ? કરતાં મૂલકારથી ફરમાવે છે કે -> Jain Education International એવી શંકાનું સમાધાન गाथार्थ :- [જિનવચન સર્વપ્રધાન છે,] કારણ કે લોકમાં અંતરાત્માનું પ્રવર્તક અને નિવર્તક વચન જ છે.તથા ધર્મ વચનમાં રહેલો છે. પ્રસ્તુતમાં મૌનીન્દ્ર सर्वशोक्त वथन [४] प्रवचन [2/13] આગમનું વચન જ પ્રવર્તક-નિવર્તક દહીડાર્થ :- ભવ્યલોકમાં સ્વાધ્યાય વગેરે કર્તવ્ય યોગોમાં મનનું પ્રવર્તક તથા હિંસાદિ નિષેધ્ય વ્યાપારથી મનનું નિવર્તક છે આગમનું वचन प्रवृत्ति ने निवृत्तिना इाने उत्पन्न वामां धर्म व्यापार = द्वार जने छे. 'तज्जन्यत्वे सति तज्जन्यजनकं द्वारं' आ पथनानुसार વિહિત પ્રવૃત્તિ વગેરે દ્વારા ધર્મ ઉત્પન્ન થાય છે. તેમ જ તે વચનજન્ય પ્રવૃત્તિ-નિવૃત્તિના ફળને પણ ઉત્પન્ન કરે છે. તે ધર્મ પ્રસ્તુતમાં પુણ્ય વગેરે સ્વરૂપ લેવાનો છે. તેનું જ્ઞાપક વચન હોવાથી વચનમાં તેની જ્ઞાપકતા રહેશે. માટે ધર્મ સ્વજ્ઞાપકતા સંબંધથી વચનમાં રહેલો છે-એમ જણાવેલ છે. પ્રસ્તુતમાં મુનીન્દ્ર = સર્વજ્ઞે કહેલ હોવાથી અબાધિત પ્રામાણ્યવાળું વચન અનુષ્ઠાનઅવલંબિત ન હોવાથી અનુષ્ઠાન કરતાં પરમ = પ્રધાન છે. તેથી ‘જિનેન્દ્રવચન જ પ્રધાન છે' એવું કહેવાય છે. મતલબ કે જિનવચનની અપેક્ષાએ અનુષ્ઠાન For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240