________________
8 प्रवर्तकादिस्वरूपद्योतनम्
अथ किमिति सकलानुष्ठानोपसर्जनीभावाऽऽपादनेन वचनस्यैव प्राधान्यं ख्याप्यते ? इत्याशङ्कायामाह → 'यस्मादित्यादि ।
यस्मात्प्रवर्त्तकं भुवि निवर्त्तकञ्चान्तरात्मनो वचनम् । धर्मवैतत्संस्थो मौनीन्द्रञ्चैतदिह परमम् ||२/१३॥
यस्मात् प्रवर्त्तकं भुवि = भव्यलोके स्वाध्यायादौ विधेये, निवर्त्तकथ हिंसादे: अन्तरात्मन: - मनसो वचनम् । धर्मश्च प्रवृत्ति - निवृत्तिफलजननव्यापारीभूत एतस्मिन् वचने ज्ञापकतासम्बन्धेन सन्दिष्ट इति एतत्संस्थ: । मौनीन्द्रं = मुनीन्द्रोक्तेनाऽबाधितप्रामाण्यं चैतत् वचनं इह प्रक्रमे परमं अनुष्ठानानुपजीविप्रामाण्यम् । तत इदमेव प्रधानमुद्धुष्यतेऽनुष्ठानादिक चैतदुपजीवकत्वेनोपसर्जनीक्रियत इति भावः ॥२/१३॥
कल्याणकन्दली
पद्येते अभयकुमारवदिति विभावनीयम् ||२ / १२ ॥
->
धर्मश्व प्रवृत्ति - निवृत्तिफलजननव्यापारीभूतः
मूलग्रन्थे दण्डान्वयस्त्वेवम् --> यस्मात् भुवि अन्तरात्मनः प्रवर्त्तकं निवर्त्तकं च वचनम् । धर्मश्च एतत्संस्थः, इह च परमं एतत् मानीन्द्रम् ||२ / १३ || इयं कारिका पञ्चाशकवृत्ति-धर्मरत्नप्रकरणवृत्त्यादी [पं.७/३ ६.गा.८० पृ. २४६] उद्धृता स्वाध्यायादौ पारलौकिकफले सदनुष्ठाने = विधेये मनसः प्रवर्तकं, हिंसादेः निषिद्धात् मनसो निवर्तकञ्च वचनं = सदागमवचनम् । आचाराङ्गटीकायामपि तीर्थकृदादीनां वचनं हिताहितप्राप्तिपरिहारप्रवर्तकं <- (७/३/२०४- पृ. २४८) इत्युक्तम् । प्रवर्त्तन- निवर्त्तनयोः फले जननीये वचनद्वारीभूतः पुण्याद्यभिधानः न हि साक्षादेव प्रवृत्त्यादेः सकाशात् व्यवहितकालं फलं सम्भवति किन्तु भावात्मकव्यापारविशेषद्वारैव । स च प्रकृते धर्मपदे| नाभिहितः । न चैवमलसस्याऽपि वचनाद्विधेयार्थे प्रवृत्त्यापत्तिरिति शङ्कनीयम्, तत्तदर्धज्ञानानां तद्विषयकवीर्यान्तरायक्षयोपशमजनकत्वेनैव प्रवृत्तिहेतुत्वात्, अलसस्य विध्यर्धमानेऽपि आलस्यदोषप्रतिबन्धेन वीर्यान्तरायक्षयोपशमाऽ निष्पत्तेरप्रवृत्त्युपपत्तेः ॥ इत्थमेव चाऽविरतसम्यग्दृष्ट्यादेः शक्यविरत्यादौ प्रवृत्त्यभावोपपत्तेरिति [अ.स.वि.पृष्ठ ५२A श्लो. ३वृ.] व्यक्तमुक्तं टीकाकृता अष्टसहस्रीतात्पर्यविवरणे । जिनवचनादेव विज्ञायते यदुत ' विहितप्रवृत्त्यादिजन्यः प्रवृत्त्यादिफलजननव्यापारीभूतो धर्मो वर्तते ' तज्जन्यत्वे सति तज्जन्यजनकत्वस्य व्यापारलक्षणत्वात् । अतः धर्मो वचने ज्ञापकतासम्बन्धेन = स्वनिष्ठज्ञाप्यतानिरूपितज्ञापकतासम्बन्धेन सन्दिष्टः । स्वपदेन अतीन्द्रियः पुण्यादिस्वरूपो धर्मो ग्राह्य इति ध्येयम् । मुनीन्द्रोक्तेन सर्वज्ञोक्तत्वेन अबाधितप्रामाण्यं = प्रामाण्यव्याघातशून्यं चैतत् वचनं इह प्रकमे परमम् । तदुक्तं प्रशमरती शासनसामर्थ्येन, सन्त्राणबलेन चाऽनवद्येन । युक्तं यत् तच्छास्त्रं तचैतत् सर्वविद्वचनम् ॥ १८८ ॥ - इति । इदमेवाऽभिप्रेत्य टीकाकृताऽपि ज्ञानसारे शासनात् त्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य तत्तु नाऽन्यस्य कस्यचित् ॥ <- [ज्ञा.सा. २४ / ३] इति । प्रकृते वचनगतं पारम्यञ्च परतीर्थिकवचनाद्यपेक्षयाऽतिशयस्वरूपं प्रमाणान्तरानुपजीविप्रामाण्यलक्षणं वा तथापि उपक्रमोपसंहारविरोधपरिहाराय ‘परमं = अनुष्ठानाऽनुपजीविप्रामाण्य' मिति टीकाकृता व्याख्यातं, | सदनुष्ठानानवलम्बिप्रामाण्यकमित्यर्थः । अनुष्ठानं जिनवचनस्योपजीवकं जिनवचनञ्चानुष्ठानस्योजीव्यम् । उपजीव्यस्योपजीवकापेक्षया बलवत्त्वात् इदं = जिनवचनं एव सदनुष्ठानापेक्षया प्रधानं = अनुपसर्जनीभूतमिति उद्घुप्यते, अनुष्ठानादिकञ्च एतदुपजीव|कत्वेन = जिनवचनावलम्बित्वेन उपसर्जनीक्रियते गौणभावमापाद्यत इति भावः । उपजीवतीति उपजीवकः, उपजीवयतीति
=
=
=
<
–> દરેક અનુષ્ઠાનને ગૌણ કરીને શા માટે જિનવચનની જ પ્રધાનતા પંડિત જીવને જણાવાય છે ? કરતાં મૂલકારથી ફરમાવે છે કે ->
Jain Education International
એવી શંકાનું સમાધાન
गाथार्थ :- [જિનવચન સર્વપ્રધાન છે,] કારણ કે લોકમાં અંતરાત્માનું પ્રવર્તક અને નિવર્તક વચન જ છે.તથા ધર્મ વચનમાં રહેલો છે. પ્રસ્તુતમાં મૌનીન્દ્ર सर्वशोक्त वथन [४] प्रवचन [2/13]
આગમનું વચન જ પ્રવર્તક-નિવર્તક
દહીડાર્થ :- ભવ્યલોકમાં સ્વાધ્યાય વગેરે કર્તવ્ય યોગોમાં મનનું પ્રવર્તક તથા હિંસાદિ નિષેધ્ય વ્યાપારથી મનનું નિવર્તક છે આગમનું वचन प्रवृत्ति ने निवृत्तिना इाने उत्पन्न वामां धर्म व्यापार = द्वार जने छे. 'तज्जन्यत्वे सति तज्जन्यजनकं द्वारं' आ पथनानुसार વિહિત પ્રવૃત્તિ વગેરે દ્વારા ધર્મ ઉત્પન્ન થાય છે. તેમ જ તે વચનજન્ય પ્રવૃત્તિ-નિવૃત્તિના ફળને પણ ઉત્પન્ન કરે છે. તે ધર્મ પ્રસ્તુતમાં પુણ્ય વગેરે સ્વરૂપ લેવાનો છે. તેનું જ્ઞાપક વચન હોવાથી વચનમાં તેની જ્ઞાપકતા રહેશે. માટે ધર્મ સ્વજ્ઞાપકતા સંબંધથી વચનમાં રહેલો છે-એમ જણાવેલ છે. પ્રસ્તુતમાં મુનીન્દ્ર = સર્વજ્ઞે કહેલ હોવાથી અબાધિત પ્રામાણ્યવાળું વચન અનુષ્ઠાનઅવલંબિત ન હોવાથી અનુષ્ઠાન કરતાં પરમ = પ્રધાન છે. તેથી ‘જિનેન્દ્રવચન જ પ્રધાન છે' એવું કહેવાય છે. મતલબ કે જિનવચનની અપેક્ષાએ અનુષ્ઠાન
For Private & Personal Use Only
www.jainelibrary.org