________________
8 नयभेदन हिंसानिरूपणम्
कल्याणकन्दली
पिण्डनिर्युक्ति-प्रभृतिवचनानि कथनीयानि । ईर्ष्यासमित्युपयुक्तस्य व्यवहारतो जीवविराधनासम्भवेऽपि सांपरायिकी क्रिया) | नाभिमता । तदुक्तं व्याख्याप्रज्ञप्ती - अणगारस्स णं भंते ! भाविअप्पणी पुरओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोए वा वट्टपोए वा कुलिंगच्छावए वा परियावज्जेज्जा, तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जति ? गोयमा ! णो संपराइया किरिया कज्जइ, इरियावहिया किरिया कज्जइ - [श. १८ उद्दे. ८ ] || बुधस्य नयभेदेन हिंसादि प्ररूपणीयम् । तथाहि ओघनिर्युक्तिवृत्त्यनुसारेण -> तत्र जीवेष्वजीवेषु हिंसा, ‘जीवोऽनेन हिंसितः, घटोऽनेन हिंसितः विनाशित:' इति व्यवहारात्, सङ्ग्रह-व्यवहारयोः षट्सु जीवनिकायेषु हिंसा । सङ्ग्रहश्चात्र देशग्राही द्रष्टव्यः, सामान्यरूपस्य नैगमेऽन्तर्भावात् । व्यवहारोऽपि स्थूलविशेषग्राही, लोकव्यवहरणशीलश्च । लोको हि बाहुल्येन षट्सु | जीवनिकायेष्वेव हिंसामिच्छति । ऋजुसूत्रश्च प्रत्येकं प्रत्येकं जीवे जीवें हिंसां पृथक् इच्छति । शब्द समभिरूढैवम्भूताश्च नया आत्मैव हिंसेतीच्छन्तीत्यादि <- ।
५४ द्वितीय षोडशकम्
=
-->
एवं सर्वत्र सद्भावसारेण भाव्यं न तु मातृस्थानतो यत्किञ्चिदालम्बनीयमित्युपदेष्टव्यं बुधस्य । तदुक्तं निशीथभाष्यबृहत्कल्पभाष्यादी ----> ण वि किंचि अगुण्णायं पडिसिद्धं वा वि जिणवरिंदेहिं । एसा तेसिं आणा कज्जे सच्चेण होअव्वं ॥ [ नि.मा. ५२४८ / ५३७१ बृ.क.भा.३३३०] - इत्यादि । तदुक्तं पुष्पमालायामपि डिसेहो अ अणुन्ना एगंतेणं न विन्निया समए । एसा जिणाण आणा कज्जे सचेण होअन्यं || २४७|| - इति । तदुक्तं मूलकारैरेव श्रावकधर्मविधौ --> धम्मो आणाए पडिबद्धो <-- [३] । तदुक्तं पञ्चाशकेऽपि -> आरहणाइ तीए पुष्णं, पावं विराहणाएं उ । एवं धम्मरहस्सं, विष्णेयं बुद्धिमंतेहिं ॥७/३ || इति । संबोधसप्ततिप्रकरणे श्रीरत्नशेखरसूरिभिरपि -> आणाइ तवो आणाइ संजमो तह य दाणमाणाए । आणारहिओ धम्मो पलालपूलव्व पडिहार ||४०|| <- इत्युक्तम् । श्रीनेमिचन्द्रेणापि पष्ठिशतकप्रकरणे --> किञ्चपि धम्मकिचं पूयापमुहं जिगिंदआणाए । भूयमणुग्गहरहियं आणाभंगाओ दुहदायं || ४५ || आणारहियं कोहाइसंजुयं अपसंसणत्थं च । धम्मं सेवंताणं न य कित्ती नेव धम्मो य ॥ ५५ ॥ - इत्युक्तम् । व्यवहारभाष्येऽपि --> इह लोगंमि य कित्ती परलोगे सोगतीं धुवा तेसिं । आणाए जिगिंदाणं जे ववहरति ॥ <- [ ३/३५२] इत्यनेनाऽज्ञासापेक्षताया ऐहिक पारलौकिकसत्फलसाधकतो पदर्शिता ।
<
एवं राग-द्वेषाद्यन्तरङ्गारिविजयपरतयैव सर्वादरेण प्रवर्तितव्यम्, न तु केवलं ज्ञाननिष्ठतया क्रियानिष्ठतया तपोनिष्ठतया गुरुकुलवासपरतया एकाकितया वेति बुधस्यैव कथनीयम्, तस्यैव विवेकप्रधानत्वेन धर्ममर्मज्ञत्वात्, धर्मस्यापि विवेकप्रधानत्वात्, यथोक्तं धर्मरत्नप्रकरणे --> धम्मो विवेगसारुत्ति <- [२०] इति । तदुक्तं अध्यात्ममतपरीक्षादी -> किं बहुणा जह जह रागदोसा लहुं विलिज्जति । तह तह पयद्वियव्वं एसा आणा जिशिंदागं ॥ [अ.प. १८३, उ.रह. २०१] इति तदुक्तं वीतरागस्तोत्रेऽपि श्रीहेमसूरिभिः --> आश्रवो भवहेतुः स्यात्, संवरो मोक्षकारणम् । इतीयमार्हती मुष्टिरन्यदस्याः | प्रपञ्श्ञ्चनम् ॥ <- - [वी. स्तो. १९/६] इति । एवञ्च -> दोसा जेण निरुज्झंति, जेण खिज्झति पुष्वकम्माई । सो सो मुक्खोवाओ, रोगावस्थासु समणं व ॥ - • [ नि. भा. ५२५० पु. २४८] इत्यादिनिशीथभाष्य- पुष्पमालाप्रभृतिवचनानि बुधस्य कथनीयानि । | तदुक्तं श्रीसिद्धसेनदिवाकरेणापि द्वात्रिंशिकाप्रकरणे येन दोषा निरुध्यन्ते ज्ञानेनाऽऽचरितेन वा । स सोऽभ्युपायस्त|च्छान्तावनासक्तमवेद्यवत् ॥ - [ २० / ६] इति । न च 'समणोवासगा बालपंडिया' [१७ / २] इति व्याख्याप्रज्ञप्तिवचनाच्छ्रावकस्य | मध्यमत्वनिर्णयान्न पण्डितत्वसम्भव इति वाच्यम्, विरत्यपेक्षया मध्यमत्वेऽपि परिणतत्वैदम्पयार्थावगमयोग्यत्वापेक्षया पंडितत्वसम्भवात् । न चैवं श्रावकस्य सतः पण्डितस्य कथमित्थमपवादमार्गप्रदर्शनं युक्तमिति शङ्कनीयम्, अपेक्षितोत्सर्गापवादावगमे एव भावश्रावकत्वसम्भवात्, तदुक्तं भावश्रावकलक्षणप्रदर्शनावसरे धर्मरत्नप्रकरणे --> > सुत्ते अत्थे अ तहा उस्सग्गववाय भावववहारे । जो कुसलत्तं पत्तो पवयणकुसलो तओ छद्धा || ५२ || उस्सग्गववायाणं विसयविभागं वियाणाइ [ ५३ ] इति । इत्थमेव तुङ्गिकाश्रावकवर्णनपरं -> लट्ठा गहियट्ठा पुच्छियट्टा अभिगयट्ठा विणिच्छियट्ठा <- . [२/५/१०७] इति व्याख्याप्रज्ञप्तिसूत्रमपि सङ्गच्छते । विनिश्चितार्थत्वमैदम्पर्यार्थस्योपलम्भादिति तद्वृत्तौ व्यक्तम् । अत एव श्रावकस्य व्यवहारकुशलत्वं प्रवचनकुशलत्वश्चोपજ છે. જિનાજ્ઞાની વિરાધના કરીને માસક્ષમણ વગેરે ઉગ્ર તપશ્ચર્યા કરે કે ઉગ્રવિહારાદિ કરે તો પણ તે અધર્મનું જ ભાજન બને છે. માટે સ્વપતિને પ્રધાન બનાવ્યા વિના શાસ્રમતિ-જિનવચન જ સર્વત્ર યથાર્થ રીતે આગળ કરવા યોગ્ય છે. [૨/૧૨]
<
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
-->