Page #1
--------------------------------------------------------------------------
________________
'
', .:.
नन्दनपनकल्पतरः
११
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
: सङ्कलनम् : कीर्तित्रयी उत्तरायणम् वि.सं. २०६०
caron International
Pos Private & Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
எஎஎகா:
११
११
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
: सङ्कलनम् : कीर्तित्रयी उत्तरायणम् वि.सं. २०६०
AN
Richi.co.
Page #3
--------------------------------------------------------------------------
________________
OOOK
नन्दनवनकल्पतरुः ॥ एकादशी शाखा ||ACK (संस्कृतभाषामयं अयन-पत्रम् |)
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०६०, ई.सं. २००४
मूल्यम् : संस्कृतसाहित्यरुचिः ॥
AOCIOKOK
TOEAKO
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर में
१२, भगतबाग शेठ आणंदजी कल्याणजीनी पेढी समीप, bra पालडी, अमदावाद - 380007 दूरभाष : 6622465
CONCHAND
CO
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007
दूरभाष : 66888790 मुद्रण : 'क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद || GY
दूरभाष : 079 - 7494393 LIAN
Page #4
--------------------------------------------------------------------------
________________
प्रास्ताविकम्
वर्तमानः युगः अयं चिन्तन-लेखन-विचार-भाषणप्रधानः युगः अस्ति । कतिकतिविषयेषु कियत् कियत् वा चिन्त्यते उच्यते च इत्यत्र न अस्ति अनभिज्ञता कस्य अपि । उत्तमः एषः प्रयासः मार्गः वा यत् वयं विचाराणां लेखन-कथनादिरूपेण परस्परम् आदानप्रदानेन सत्यस्य उद्घाटने प्रयत्नशीलाः स्मः । एवं सति अपि एकः प्रश्नः सततम् उद्वेजयति यत् एतावति भवति सत्यपि किमर्थं मनुष्यः क्षीणतेजाः अनुभूयते ? केन कारणेन अस्माकं तेजः सततं क्षीयमाणम् एव दृश्यते ? इति ।
सर्वे अपि सर्वं घटमानं निरीक्षन्ते तत्रगतं शोभनम् अशोभनं च अपि समीक्षन्ते । पश्चात् स्वस्वविचारानुगुणं दृष्ट्यनुरूपं च तत् अभिव्यक्तम् अपि कुर्वन्ति, लेखनेन भाषणेन वा । पश्चात् किम् ? न किम् अपि । पुनः अपि अरहट्टघटीन्यायेन अपरिवर्तितम् एव सर्वं यथापूर्वं प्रचलति; पुनः का अपि घटना, तन्निरीक्षणम्, समीक्षणम्, विवेचनम्.... इति । अनन्तः अयं क्रमः । एतत् दृष्ट्वा अपरः अपि प्रश्नः समुपतिष्ठते यत् किं वयं विचारशीलाः उत विचारमूढाः ? विचारशीलः फलनिरपेक्षं न किम् अपि आचरति परं विचारमूढः तु निष्फलम् एव प्रवर्तते, विचारेषु एव सः मग्नः इव तिष्ठति । वर्तमानकाले एतादृशां विचारमूढानाम् एव साम्राज्यं सर्वत्र प्रसृतं दृश्यते । तेषां कोलाहले तु विचारशीलानां शब्दरवः विलीनाति । एतादृश्यां स्थितौ कः नाम एनं प्रश्न पुरस्कृत्य चिन्तयेत् यत् कथं नाम वयं हीनतेजसः भवामः ? इति । सर्वे अपि परस्य विषये अङ्गलिनिर्देशेन किम् अपि सूचयितुम् उत्सुकाः किन्तु स्वविषये न कः अपि । परोपकारिणः खलु वयम् ? किन्तु अद्य तु स्वोपकारः एव उपकारकः न परोपकारः । यथा वयं विचारशूराः तथा एव आचारशूरैः अपि अस्माभिः भवितव्यम्, तदा एव विच्छायतां गता अस्माकं तेजस्विता पुनः प्रादुर्भविष्यति न अन्यथा । एवम् एव च संस्कृतस्य संस्कृतेः वा कृते क्रियमाणं किम् अपि अर्थवत् फलवत् च अपि भविष्यति । किन्तु प्रथमं तावत् परिवर्तनं स्वस्मिन् एव करणीयम्, एतेन एव 'दीपात् दीपशतम्' इव सर्वम् अपि तेजस्विनं प्रकाशमानं च अनुभविष्यामः । कः खलु अत्र प्रथमः भवेत् ?
आचाररहितैः केवलं विचारैः न कः अपि तेजस्वितां प्राप्तुं शक्नुयात् । इति शम्। | वि.सं. २०६०
कीर्तित्रयी कार्तिकशुक्ला पञ्चमी, चेन्नई
iiii
Page #5
--------------------------------------------------------------------------
________________
॥ दैवेन वा तत्करयोग एव ॥
( ॥ पादपूर्तिरूपं अष्टकम् 11)
आ. विजयप्रद्युम्नसूरि :
परः सहस्रा गुरुगौतमीया, शिष्या नवीना मुनिभावमाप्त्वा । सर्वेऽपि ते केवलरत्नमापु-र्दैवेन वा तत्करयोग एव
क्रूरत्रिकेणाऽधमपालकेन, निष्पीडिताः स्कंदकसूरिशिष्याः । समस्त कर्मक्षयतः शमाप्ता, दैवेन वा तत्करयोग एव
V
तस्यां क्षपायां प्रभवादिचौराः, पत्न्यश्च तास्तज्जनकादयोऽपि । जम्बूकुमारेण सहैव दीक्षिता, दैवेन वा तत्करयोग एव आदर्शगेहे भरतेन प्राप्तं ज्ञानं परं भावनया तदौच्चैः । तदादि याऽभूत् सदृशी परम्परा, दैवेन वा तत्करयोग एव ॥४॥ बुद्ध्याकरेणाऽभयमन्त्रिणा समं कुर्वन्ति ये मैत्र्यमनाविलाशयम् । भवन्ति भव्या भविनः किलैते, दैवेन वा तत्करयोग एव ॥५॥ श्रुतं श्रुते यत् किल विस्मयावहं ये शेरते वज्रमुनीशसन्निधौ । ते तत्समं यान्ति परत्र लोके, दैवेन वा तत्करयोग एव ॥६॥ जिनाय दाता जिनतो ग्रहीता, कदाऽप्यभव्यो न भवेन्नु भव्यः । अनादिकालान्नियमश्चकास्ति, दैवेन वा तत्करयोग एव છો यशस्विनः सद्गुरुतोऽत्र विद्यां गृह्णन्ति ये ते भविनोऽविलम्बम् । यशोऽधिगच्छन्ति शशाङ्कुशुभ्रं, दैवेन वा तत्करयोग एव
n
iv
Page #6
--------------------------------------------------------------------------
________________
अरैयर् श्रीरामशर्मा
नं-१०, जानकीरामनिलयम् औट हाउस् १. श्रेणी, सिरुरपार्क रोड्
मल्लेश्वरम्, बेंगलूरु- ५६०००३
वाचकानां प्रतिभावः
श्रीरामशर्मा विजयशीलचन्द्रमुनिं स्तुवे । नन्दनवनकल्पतरौ यत् कीत्रित्रयी धृता ॥१॥ प्रहितं पत्रमेकं तु पक्षात् पूर्वं मया तु तत् । प्राप्तं स्यादिति मन्येऽहं त्वया स्याद्वादलाञ्छन् ! ॥२॥ लेखनीयं किमप्यत्र लिखित्वा प्रेष्यतामिति । कीर्तित्रय्या प्रणुनोऽहं यदृच्छोपनतं त्विह ॥३॥ आप्राकृतप्राकृतयो-औषया विलिखामि यत् । सोढव्यमूढकरणैः तरणैर्व तरङ्गितम् नन्दनवनकप्पतरु फुरत्फुरंतेहिं दिव्बसद्देहिं ।। दूरे एव्व जणाणां आकारणयेच दिसइ सोहग्गम् ॥५॥ नन्दनवनकल्पतरुः स्फुरत्स्फुरद्विर्दिव्यशब्दैः । 7 | दूरे एव जनानाम् आकारणयेव दिशति सौभाग्यम् ॥ |
જો
-
Page #7
--------------------------------------------------------------------------
________________
-
।।६।।
वाचकानां प्रतिभावः
वैराग्यभक्तिनीत्यादिगुणैस्सर्वज्ञमानिता । नन्दनवनकल्पतरोः शाखा नवमी शुभा जराजिण्णो देहो हवइ जु किसो भत्तभरिओ विराओ जो निच्चं हवइ परिदिटे वि विसये । सराओ राओ सो हरिअ सअलं भूतलमलं
परालोमे लोओ जिअइ सुहपुण्णो उवरि अ ॥७॥ । जराजीर्णो देहो भवति खलु कृशो भक्त भरितो - विरागो यो नित्यं भवति परिदृष्टेऽपि विषये । सरागो राजा स हृत्वा सकलं भूतलमलं परालोके लोके जीवति सुखपूर्णः उपरि च ॥ ।
इति श्रीरामशर्मा।
vi
Page #8
--------------------------------------------------------------------------
________________
ANSWER HESHWAR
वाचकानां प्रतिभावः
M.A. Ravindran Saraswati Nilayam Subramaniyam Puram
Palghat City-P.O. Palakhad - 678014
हे उदारात्मन् !
नन्दनवनकल्पतरुः इत्यस्य अयनपत्रस्य नवमी शाखा कृपया प्रेषिता अत्र प्राप्ता । धन्यवादः ।
ANANALDING
तदयनपत्रं कुतूहलेन मया पठितम् । सर्वाः कृतयः मह्यम् अतीव अरोचन्त ।
एकैकायाः रचनायाः अन्ते दत्तानि सुभाषितानि सुन्दराणि हि । दृढकागदे सुन्दरलिप्या मुद्रिता अयनपत्रिका इयं पुनः पठनाय सुरक्षिता अस्ति ।।
भूयोभूयः धन्यवादाः ।
इति भवदीयः रवीन्द्रः ।
D
vii
Page #9
--------------------------------------------------------------------------
________________
-
वाचकानां प्रतिभावः
208038-
000+ श्री: अयि संस्कृतसंस्कृत्योरनन्यनायकमुनीश्वराः श्रीसूरीश्वराः कीर्तितकीर्तयश्च !
श्रमणसंस्कृतिसौरभवासिता विशदवैदिक संस्कृतिसङ्गता । भरतभूर्विभवोर्जितसाहिती फलति नन्दनकल्पतरौ श्रिया ॥१॥ सुरगवी कलिपङ्कमुपेयुषी क्वचिदसौ यदि मज्जनशङ्किता । भरतशूरसुतास्तपसा धिया परमया परिपान्ति सनातनीम् ॥२॥ विजयशीलशशीद्धमुनित्रयीं कृतमतिं समवेक्ष्य सरस्वती । स्मितसितांशुविभासितवल्लभं किमिह कल्पतरूं कृतवत्यसौ ॥३॥ दशमसंख्यकशाखया पुनर्नवलया तरुरुत्सवभावितः । स पुरुषार्थचतुष्टयशेवधिर्जयति सूरिभिरत्तयशा निधिः ॥४॥ अध्यात्मसारानुगमः प्रसन्न आचार्यसूरिशुभवासनोत्थः । तत्पादपूर्तिश्च तथाष्टकञ्च पुनन्ति चात्मानमनूनशान्त्या ॥५॥ प्रीत्युपालम्भयोर्दुग्धगरलाभ्यां हितं हरत् । गुरूपास्तिवचस्तस्य श्रीधुरन्धरसन्मुनेः
ોદ્દો जयशिवगौरीसपर्या त्रिवेणीकवेरभिदधाति हृदयम् । शिवगौरीगङ्गावनौ कथं भक्तचेतो नाभिराजताम् ब्रह्मानन्देन्द्रदृब्धं रङ्गेऽपि नागानन्दनवनीतम् । सरसभाषया सचित्रं मनोविनोदायाऽलं सुधियाम् ॥८॥ आप्राकृतान्तं समे चाऽन्ये नवनवदिशो दिशन्तोऽपि । संस्कृतलेखन्या खलु साम्प्रतमनवद्याः प्रबन्धाः ॥९॥ अनवरतमभिनवं रसं प्रतिशाखमभिख्यापयन् श्यामलः । कल्पतरुः सत्तरुण: कामं रसिकमावर्जयन् भाति ॥१०॥
मुनिवर्येषु प्रणामाभिनन्दनाबद्धाञ्जलिः
सुरेन्द्रमोहनमिश्रः कुरुक्षेत्रविश्वविद्यालये संस्कृतपालिप्राकृतविभागाध्यापकः ।
viii
Page #10
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
मान्याः
डॉ. रूपनारायण पाण्डेयः
एम् - II / ३३० राज्यशिक्षा संस्थान कॉलोनी, एलनगञ्ज
प्रयागः उ.प्र. २११००२
सादरं प्रणामाः
तत्रभवद्भिः प्रहितः नन्दनवनकल्पतरुः (दशमः ) मया अधिगतः । अत्र डॉ. राजेन्द्र मिश्रस्य " जय शिव ! गौरि ! जननि ! जय गङ्गे !" इति कविता वाराणस्याः वैदुष्यपरम्परां संस्मारयति, तस्याः सांस्कृतिकं च गौरवं गायति । आचार्य धर्मधुरन्धरसूरे: "अध्यात्मसारानुगमः” सरल भाषया अध्यात्मतत्त्वं विशदीकरोति । स्वामिश्रीब्रह्मानन्देन्द्रसरस्वतीस्वामिनः " अहिंसातत्त्वअनुष्ठानं च’” “नागानन्दनवनीतम्" इति रचनाद्वयं सिद्धान्तेन व्यवहारेण रूपकेण च अहिंसायाः याथार्थ्यं प्रस्तौति । "नागानन्दनवनीते" नागानन्दरूपकं भागवतादिपुराणगतकथां च अनुसृत्य अहिंसायाः रम्या प्रतिष्ठा विहिता ! अन्याः अपि रचना: हृदयं प्रसादयन्ति ।
सन्धिराहित्यस्य साहित्यस्य प्रकाशनस्य विचारः संस्तुत्यः अस्ति, किन्तु समासादिषु यत्र सन्धेः अनिवार्यता विद्यते सा कथम् अपि न उपेक्षणीया इति चिन्तनीयम् ।
जयतु संस्कृतं संस्कृतिश्च ॥
ix
Page #11
--------------------------------------------------------------------------
________________
अनुक्रमः 0000000
कृति:
अध्यात्मसारानुगमः
अष्टादशपापस्थानकालोचनाशतकम् ॥
स्वाध्याय योगबिन्दु दोहनम् ॥
नमि-प्रकच्य
आस्वाद:
0000000
कर्ता
आ. धर्मधुरन्धरसूरिः
पृष्ठम्
आ. विजयहेमचन्द्रसूरिः २३
मुनिरत्नकीर्तिविजयः ३५
चिन्तनधारा साम्प्रतचिन्तनम् शाखी व्रजलालः उपाध्याय
मुनिकल्याणकीर्तिविजयः ७०
मुनिरत्न कीर्तिविजयः ७३
७६
Page #12
--------------------------------------------------------------------------
________________
अनुक्रमः wwwwwwwwwwwwwww कृतिः
Ayaरकर्ता पृष्ठम्
पत्रम
मुनिधर्मकीतिविजयः
अनुवादः स्वभावदर्शनम मुनिकल्याणकीर्तिविजय: ८५
प्राज्ञपुरुषस्य उत्तराः - मुनि
मुनिकल्याणकीर्तिविजय
कथा
अहो।नदिमा
विजयसूर्योदयसूरिः ।।
विजयसूर्योदयसूरिः
श्रुतिव्यसनम् द्वयोः द्वन्द्वे सफलः तृतीयः
विजयसूर्योदयसूरिः ९२
मुनिरत्नकीर्तिविजयः । ९३
চুনছি
Page #13
--------------------------------------------------------------------------
________________
अनुक्रमः 0000000
कृति:
कथा
व्यङ्गकथा
प्राकृतम्
आचरणेन सिद्धिः
देवधनभक्षणदोषः
रङ्गमञ्च: धनेन दानवः दयया मानवः
तवपि न मुञ्चत्याशापिण्डम्
मर्म नर्म
धम्मो न विक्केयला
0
000000000000
कर्ता
पृष्ठम्
मुनिधर्मकीर्तिविजयः ९७
मुनिधर्मकीर्तिविजयः ९८
मुनिरत्नकीर्तिविजय: ९९
स्वामी श्रीब्रह्मानन्देन्द्रसरस्वती १०१
कीर्तित्रयी १९१
मुनिकल्याणकीर्तिविजय: ११५
Page #14
--------------------------------------------------------------------------
________________
RSS
الوداع ولاعدموع
अध्यात्मसारानुगम. (अवशिष्टः अंशः)
चतुर्थः प्रबन्धः द्वादशोऽधिकारः सम्यक्त्वम् [वंशस्थम्]
कर्ता : आ. धर्मधुरन्धरसूरिः
प्रेषक : आ. प्रद्युम्नसूरिः सुदर्शनं चक्रमहो महोदयं,
ददाति दुष्टान् विनिहत्य सन्ततम् । तथैव सद्दर्शनमात्मसम्पदं,
तनोति दुर्दान्तभवभ्रम हरत् ॥१॥
क्रियाः प्रदानादिमुखाः फलं शिवं,
विना न सद्दर्शनमत्र तन्वते । शुची रुचिर्धर्मधनार्थमुच्छ्रिता,
भवत्यसौ दर्शनमादि लक्षणम् ॥२॥ अहिंसऋद्धिर्वरदर्शनं श्रिता,
स्वरुपमात्मादिगतं तदर्पितम् । अनित्यनित्यस्थितिकेऽत्र चेतने,
भवेन्न चैकान्तमते विवेचनम् ॥३॥
Page #15
--------------------------------------------------------------------------
________________
सुदेवमर्हन्तमुपासितुं मनो,
___ गुरुञ्च चारित्रपवित्रजीवनम् । दयामयं धर्ममनन्तशर्मदं,
तदेव सम्यक्त्वमिहाऽऽत्मसङ्गतम् ॥४॥
गुणस्थितिं प्राप्नुवतो विशुद्धितो,
__ भवेद् विशुद्धं किल दर्शनं क्रमात् । प्रमत्ततायाः प्रतः परं परं,
त्रयोदशे स्थानवरे गुणस्थितेः ॥५॥
क्षयादहो दर्शनसप्तकस्य यद्,
___भवेददः क्षायिकमिद्धशुद्धिभूत् । शिवप्रदानाय समर्थमेतकं,
भवप्रपञ्चं त्वरितं निकून्तति ॥६॥
والا قليلا ولاعدم
शमाद्यसंवेगचरद्वितीयक
स्तृतीयनिर्वेदविलाससत्तमः । दया तुरीयोऽस्ति विवेकपञ्चमो
ऽसुमान् हि सद्दर्शनलक्षणाञ्चितः ॥७॥ सकृत् सुलब्धं यदि दर्शनं भवे,
भ्रमन्नपि स्यान्न हि पूर्वबन्धकः । तदेतदाप्तुं सततं शिवार्थिना,
बलेन मिथ्यात्वतमोऽपसार्यताम् ॥८॥
Page #16
--------------------------------------------------------------------------
________________
त्रयोदशोऽधिकारः मिथ्यात्वत्यागः [मन्दाक्रान्ता]
وعندلاعقلاقلاع
علاقه
मिथ्यात्वं ही भवभवनभृद्वज्रमूलं समूलं,
श्रेयस्कामो धृतहितपथः काममुन्मूलयेत्तत् । यावन्मिथ्यापरिणतिपरस्तावदुन्मत्तभूतः,
संसारान्नो नरकसदृशान्मुक्तिमेतुं विमर्श: ॥१॥ मिथ्यामोहाद्भवति विमतिश्चेतनस्याऽस्तिताया
मध्यक्षं नाऽवगमयति तां नाऽनुमानं विलिङ्गात् । नोऽसादृश्याल्लसदुपमितिर्नैव शास्त्रप्रभेदाद्
नास्त्येवाऽऽत्मा मतमितिमतं नास्तिकानामकान्तम् ॥२॥ आत्मास्तित्वं भवतु पतो नास्ति नित्योऽयमात्मा,
नित्यश्चेन्नो कथमपि भवेदस्य नानास्वरूपम् । देवो भूत्वा भवति मनुजो नारकश्चाऽपि तिर्यङ्
सूक्ष्मेक्षित्वे प्रतिपलमसौ भिद्यतेऽदोऽपि मिथ्या ॥३॥ आस्तां नित्यः परमिह न वै कर्तृता कार्यसाध्या,
कर्तृत्वं हि प्रकूतिनियतं चेतने तत् कथं स्यात् । साख्यानां तत् सदसि विदुषां मुक्तसङ्ख्यं विमुग्धं,
सम्यग् युक्त्या मननविषयं नीयमानं विभाति ॥४॥ कामं कर्ता पुरुष इह ही स्यात् परं नास्ति भोक्ता,
भोगस्तस्य प्रभवति न यन्मूर्तताऽस्मिन्न चाऽस्ति । नाऽमूर्तानां क्वचिदपि भवेद्भुक्तिरित्यादि मिथ्या,
यत् स्याद्वादाश्रयणकरणाद् दोषलेशोऽपि न स्यात् ॥५॥
Page #17
--------------------------------------------------------------------------
________________
मोक्षो बन्धप्रतिहतिभवो बन्धनं चेतने नो,
तत्तन्मोक्षो ननु न घटते कल्पनाशिल्पिशिल्पम् । सत्संसारैक्रसमतिभिर्मोहमूढैर्यदुक्तं,
तन्नादेयं पमपदता शास्त्रसिद्धाऽनुतर्का ॥६॥
मोक्षोपायः क्वचिदपि न चाऽऽलोकितो लोकमध्ये,
__ यद्यन्मोक्षामिहसकलं दृष्टमेतद्भवाय । एतन्मिथ्या जगति गणनातीतजीवा विमुक्ता,
मोक्षोपायो यदि नहि भवेत्तत् कथं स्यात् प्रसिद्धम् ॥७॥
एवं सम्यग् जिनवरवचः स्थैर्यमाधाय धाएँ,
हित्वा मिथ्यामतमसुमतं संसृतेर्मूलभूतम् । मिथ्यात्यागो भवति नतरां यावदास्ते ग्रहोऽसन्,
तस्माद् दूरं जहत बिबुधा दुर्ग्रहं चेन्मुमुक्षा ॥८॥
Page #18
--------------------------------------------------------------------------
________________
चतुर्दशोऽधिकारः असद्ग्रहत्यागः [मालिनी]
क्वचिदपि शुभगेहे संस्थितोऽप्युच्चभावं न खलु समुपयायान्नीचतां नैव मुञ्चेत् । सरलपथमुपेतो चक्रमेव प्रयाति, श्रियमभिलषमाणैर्दुग्रहो नैव सेव्यः ॥१॥
विनयनयविवेकज्ञानविज्ञानधर्मव्रतनियमविचाराचारसंस्कारसारम् । तृणनिकरमिवाऽग्निर्यो दहत्यस्तमूलं, तमसदभिनिवेशं क्लेशमूलं निहन्यात् ॥२॥
सदभिरुचिनिवासो यत्र कुत्राऽपि न स्यात्, प्रसरति विपदुद्यन्निम्नगानां प्रवाहः । क्रुधसमदवदावो द्वेषधूमानुविद्धः, कुगतिकुमतिमूलं मुञ्च तं दुग्रहाद्रिम् ॥३॥
सलिलमपरिपक्वे स्थापितं चेद्घटे तं, विघटयति निजं वा ध्वंसयत्येवमेवम् । श्रुतसलिलमपीष्टं दुर्गहग्रस्तजीवे, निहितमनुपदं तं नाशयित्वा विनश्येत् ॥४॥
चिरतरमनुचीर्णं चारुचारित्रवृत्तं, तपउपनतभावं पिण्डशुद्धं प्रतप्तम् । फलदलमपि नाऽऽप्तं निह्नवैर्यन्निकामं, तदसदभिनिवेशस्यैव दोषो दुरन्तः ॥५॥
५
Page #19
--------------------------------------------------------------------------
________________
नगवति सितपक्षस्तत्त्वसूर्योऽस्तमेति, भ्रमतिमिरविलासः सर्वतः सर्सरीति । समुदयमुपयाति ग्लौर्विवेको न तत्र, प्रविलसति कुहूही दुर्ग्रहो यत्र नित्यम् ॥६॥ मतिरनुसरतीष्टं नैव तर्फे कदाचित्, स्वमतिहृदनुरूपं तर्कमेवानुयुते । बुधजनहितवार्तां नैव कर्णे विधत्ते, कदसदभिनिवेशावेशविष्टो विमूढः ॥७॥
हृदयमिह विशुद्धं दर्शनं मुक्तयेऽलं, करणममलमिद्धं सिद्धसाध्याभिरामम् । अनसदभिनिवेशानां जनानां पुनाना, रुचिररुचिरुदेति प्राप्तयोगस्वरूपा ॥८॥
فلامینی
Page #20
--------------------------------------------------------------------------
________________
पञ्चमः प्रबन्धः पञ्चदशोऽधिकारः योगस्वरूपम् [प्रहर्षिणी]
अविदितवरयोगसत्स्वरूपो,
भ्रमति भवे कुशलां क्रियां दधानः । न हि भवति गतामयः कुपथ्यं,
त्यजति न यावदुपायसावधानः ॥१॥
विविधविधिविधानवर्यभावां,
चरति शरीरविलेखिनीं क्रियां सत् । स हि सुखमधिगच्छतीद्धरूपं,
सुरगतिसम्भवमाशु बाह्ययोगात् ॥२॥
यदपि वसति संसृतौ क्रियाया,
विरमति नैव तथाऽपि कर्मबन्धात् । तदपकृतिकृते नितान्तमात्मा,
शुभविधिमाचरति प्रशान्तचित्तः ॥३॥
क्रमश उदयमाप्नुवन् सुयोगात्,
प्रविशति सत्तमयोगवर्त्मनीष्टम् ।
भ्रमणमिह ततस्ततं विनश्येत्,
शिवपदमुत्तममाश्रयेत् सुखेन ॥४॥
कलुषितहृदयो भवेत् कषायाद्
हृदयविशुद्धिरनाविला न मोहात् ।
c* c* c*
Page #21
--------------------------------------------------------------------------
________________
अनुपमविशदोऽत्र चिद्विलासो,
विलसति सैव विशिष्टयोगराजः ॥५॥
निजक विभवदर्शनान्न बाह्या
मभिलषतीश्वरतां कदाचनाऽपि ।
करणनिकरमात्मनीनभावं,
नयति शुभाशुभगोचराप्तितोऽपि ॥६॥
चरतु यदि पुनर्न चाऽऽचरत्वा
चरणमुदारमभीष्टमागमोक्तम् ।
परमुपरमति क्रिया भवार्था,
शिवपथिकस्य योगिनोऽच्छयोगात् ॥७॥
निजनिजवचनप्रकारभङ्गया,
सकलमतैरिदमेव बोधितं तत् । तदनु भवितुमार्तरौद्ररोधं,
विशतु मनः सितधर्मयोर्विमर्श ॥८॥
८
_c* c* c* c* c*
Page #22
--------------------------------------------------------------------------
________________
षोडशोऽधिकारः ध्यानस्वरूपम् [रथोद्धता]
જો
ध्यानमहोभवमुक्तनिदानं, पूर्वयुगं न हितं हितमन्त्यम् । आर्तमिहाद्यमुपादिमौद्रं, धर्मामुपान्तिममन्तिमशुक्लम् इष्टवियुक्ति रनिष्टकदाप्ति - र्दुःखदवानुभवो ननु मा भूत् । तद्विपरीतमथाऽस्तु निदानं, ध्यायति नित्यमिहाऽऽर्तवशात्मा जीवविघातमसत्यमदत्तं, रक्षणमिन्द्रियगोचरसत्कम् । रौद्रवशो विदधात्यविरामं, मुञ्चति तं कुगतिर्न निकामम् ध्यायति सन्मतिरहदुपज्ञं, कर्मविपाकमपायमनन्तम् । लोकविचारमनाप्तविकार, धर्म्यमहर्पतिभासितसारम् आत्मनि लीनतया गतकामो, मेरुमहीधरवत्स्थिरभावः । शुक्लपर: परमात्मपदत्वं, विन्दिति नो चिरमुच्छ्रितसत्त्वम् कायबलं बलमात्मसमुत्थं, स्थानबलं बलमीप्सितमन्यत् । ध्यानकृते सुकृती हृदि धृत्वा, ध्यानपथे पथिकत्वमुपेयात् હોદ્દો यस्य मनः स्पृहतेऽत्र शिवाय, दुह्मति दुष्टदुरन्तभवाय । ध्यायति नार्तमसौ न च रौद्रं, ध्यायति धर्म्यमथाऽपि च शुक्लम् ॥७॥ सर्वसमीहितदानसमर्थं, पूरितपूर्णपवित्रपुमर्थम् । ध्यानवरं यदि वाञ्छसि सत्यं, ध्याननूपस्तुतिमाचर तथ्यम्
॥८॥
Page #23
--------------------------------------------------------------------------
________________
सप्तदशोऽधिकारः ध्यानस्तुतिः [शालिनी]
॥१॥
રો
રો
॥४ा
यं सेवन्ते पूरुषाः सिद्धबुद्धा, यस्योपास्त्या सिद्धयः सम्भवन्ति । यन्माहात्म्यं गातुमीशोऽप्यनीश-स्तं वन्दे सद्ध्यानराजाधिराजम् यत्सान्निध्यं सन्निधिों जहाति, ब्रह्माण्डं यत्पादपद्मेऽलिभूतम् । रम्योल्लासो यत्कटाक्षेक्षणोत्थ-स्तं वन्दे सध्यानराजाधिराजम् चक्रं यस्य ब्रह्मरन्धाख्यमिद्धं, दोषान् सर्वान् मुक्तनिद्रं व्यपास्ते । क्षेत्रं षट्खण्डात्मकं शास्त्यखण्डं, तं वन्दे सध्यानराजाधिराजम् नाडीनामुलासनं यस्तनोति, त्रैलोक्यं यः पश्यतीष्टस्वपम् । यद्वीक्षातो दुःखदौर्गत्यनाश- स्तं वन्दे सद्ध्यानराजाधिराजम् येऽभूवन् ये भाविनो ये भवन्ति, प्राप्तानन्तश्रेयसानन्दकन्दाः । ते सर्वेऽपि प्रीतितो यस्य शश्वत्, तं वन्दे सद्ध्यानराजाधिराजम् ॥५॥ यः पूर्णो यं स्मः श्रिता येन तुल्यं, नाऽन्यद्यस्मै स्तानमः शर्म यस्मात् । तेजो यस्योच्चैःपदं भाति यस्मिन् , तं वन्दे सद्ध्यानराजाधिराजम् ॥६॥ यत्स्वाधीनं विश्वविश्वस्वरूपम्, सम्पूर्णाशानन्दितात्मीयभूपम् । सम्प्राप्तानन्तात्मशर्माभिरामं, तं वन्दे सद्ध्यानराजाधिराजम् गङ्गासिन्धू नाडिके चन्द्रसूर्य, क्षेत्रं सम्यक् षड्विभागं विधत्तः । तज्जित्वा यो भ्राजते लब्धप- स्तं वन्दे सध्यानराजाधिराजम्
૮ી
१०
Page #24
--------------------------------------------------------------------------
________________
षष्ठः प्रबन्धः अष्टादशोऽधिकारः आत्मनिश्चयः [प्राभातिकरागेण गीयते ]
आत्मनश्चिन्तनं येन शश्वद्धितं निश्वयेनाऽहितं चेद्विकल्पोज्झितम् । तस्य दुर्वारसंसारसम्पादकं, कर्मणो बन्धनं छुट्यते तत्क्षणम् ॥१॥ चेतनाशक्तिभृच्चेतनाः सर्वशो - ऽनन्तसङ्ख्या न भिन्नस्वरूपाः समे । सङ्ख्ययाऽतीतलोक प्रदेशात्मका, ज्ञानसदृष्टिचारित्रवीर्यालयाः ॥२॥ कोऽपि नेष्टे विधातुं जडं चेतनं, चेतनं वा जडं कालमात्रेऽपि च । शुद्धरूपं दधज्जीवतत्त्वं सदा, विश्वविश्वैक चेतोरमं राजते ॥३॥
हन्ति नाऽयं न वै घात्यते केनचिद्, घातयत्यात्मना नाऽन्यमन्येन यत् । नित्यतां जातुचिन्नो जहाति क्वचित्, स्वात्मशुद्धस्वरूपे लसँस्तिष्ठति ॥४॥
चेद्भवेन्नैवमात्मस्वरूपं तदा, सिद्धरूपं कथं सङ्गतं स्यात्सदा । सिद्धतामाप्तुमेवाऽऽत्मनां धर्मतः, प्रीतिरीतिप्रतीत्यादिकं युज्यते ॥५॥
निश्चयादात्मरूपेण सत्रा समा- गन्तुमीहा तदा भावशुद्धं चरेत् । व्यावहारं क्रियाकाण्डमुद्यद्बलं, यत्तदेवाऽलमेतेन संयोजितुम् ॥६॥
येन पथ्यं क्रियाया विधानं हितं, चेन्न चीर्णं भवेत्तस्य किं वाऽऽत्मना । यो न कासारपारं प्रयातुं ह्यलं, सोऽम्बुधेः पारमेतुं कथं शक्ष्यति ।
आत्मनो ज्ञानमार्गस्वरूपं यदि, ज्ञातुमुत्कण्ठते स्वान्तमेकान्ततः । तत् परं श्रेयसामास्पदं सत्पदं, जैनसिद्धान्तमुच्चैस्तरां स्तूयताम् ॥८॥
११
Page #25
--------------------------------------------------------------------------
________________
सप्तमः प्रबन्धः एकोनविंशतितमोऽधिकारः
जिनमतस्तुतिः [शार्दूलविक्रीडितम्]
*
*
الاعلام ولادیوم
मूलं यस्य रजोऽवगुण्ठितमहो चार्वाककिंदर्शनं,
स्कन्धो ब्रह्मविवेचकः समुदितो मीमांसया शाखया । बौद्धन्यायमतौ प्रवालकदलौ, साख्यः प्रसून फलं,
श्रेयोऽसौ जयतात् सदाऽर्हतमतः कल्पद्रुमः सन् स्थिर: ॥१॥ चार्वाको हि शृगालबालसदृशो वेदान्तिदन्तावलो,
बौद्धस्त्वावनिकः शशः कपिलभूर्मीमांसकः सैरिभः । शृङ्गी काणभुजो भुजङ्गमसमं सर्वे श्रयन्ति श्रुतं,
संसारे गहने वनेत्र रमते पञ्चाननोऽर्हन्मतः ॥२॥ तत्त्वज्ञानविचारचारुगगने चार्वाकराहुर्बुधो,
वेदान्ती बृहतीपतिः कणभुजां शिष्यः कविः कापिलः । बौद्धो भूमिभवः शनैश्चरचरो मीमांसकः कर्मठः,
सूर्याचन्द्रमसौ परं प्रभवतः स्याद्वादजैनागमौ ॥३॥
*
*
आत्मानः कति सन्ति ! चाऽत्र विषये, भ्रान्ता मता मूढतां,
बिभ्राणाः शिवसाधनं द्रढयितुं नाइलम्भवन्ति क्वचित् । आत्मानन्त्यमुदीर्य दोषविकलं येनोद्धृतोऽध्वा शिवः,
सार्वीयं परमार्हतं विजयतां तच्छासनं सर्वदा ॥४॥
*
आत्मा निश्चयतो ध्रुवोऽनुसमयं पर्यायतो भङ्गो,
नित्यानित्य इति व्यवस्थितिमितोऽनेकान्तवादान्मतः ।
१२
Page #26
--------------------------------------------------------------------------
________________
इत्येवं भवमोक्षमङ्गलगतिर्यस्मिन् समुद्घोषिता,
तं वन्दे जिनशासनं बुधजनात्मोल्लासनं भासनम् ॥५॥
..
.
रागद्वेषमहाज्ञतापरवशाः संसारसंवर्धनाः,
__सर्व सन्ति मता मदान्धमतयः स्वार्थैकसंसाधनाः । तद्दोषत्रयमुक्तमात्मसुहितं सद्भिः समासेवितं,
श्रेयः शासनमार्हतं विजयते मोहारिविद्रोहणम् ॥६॥
तत्त्वातत्त्वविवेकशून्यमनसः संभूय संसारतः,
स्वं चाऽन्यं परिमोचनाय मुखराः कुर्वन्ति कोलाहलम् । यावज्जैनमतं श्रयन्ति न हितं तावन्न मोक्षार्थिनो,
यच्छ्रीमज्जिनराजशासनमहो मोक्षकदानक्षमम् ॥७॥
यत् पूर्णं यदुपासते सुकृतिनो येनैव निःश्रेयसं,
यस्मै संस्पृहयन्ति मुक्तिरसिका आत्मानुभूतिर्यतः । यस्योद्घोषमदोषमात्मनिभूता आर्ण्य सत्यं श्रिता,
यस्मिश्छासति सुस्थमत्र तदिदं जैनं परं शासनम् ॥८॥
دفاعی
لالالالالا
NA
१३
Page #27
--------------------------------------------------------------------------
________________
आत्मन् ! अनुभवनिजमनुरूपम्,
भावय भवमस्वरूपम् आत्मन् ! ज्ञानमनन्तं दर्शनमेवं, सुखमपि परमं पीनम् । श्रद्धानं क्षयरहितं चरणं, भवतः सकलमनीनम्
विंशतितमोऽधिकारः अनुभवस्वरूपम् [ सारंगरागेण गीयते ।]
-
अक्षयस्थिति जीवनमभिरूपं, रूपं त्वगुरुलघुत्वम् । वीर्यवितरणादिक बलमसमं, पश्यसि किं न लघुत्वम्
आदिविरहितोऽनेहा इह ते, जातोऽजातसमानः । केवलपुद्गलपरिचयकरणे, व्यपनीतो गतभानः
चरमावर्तप्रवेशानन्तर - मभिरुचितोऽध्वा श्रेयः । करणत्रयकरणाद्विज्ञातं, किं श्रेयः किं प्रेयः ?
यथा यथाsपसृतः सम्मोह - श्चरणपरो भवमूलम् । तथा तथा विकसितो निजात्मा, शिवमार्गानुकूलम् समुचितसितसंकल्पबलेन, साध्यः क्षपकारोहः । सकलकर्ममलरहितो भवताद्, न भवेद्यद्भवरोहः समसमीहितदानसमर्थं कुरु गुरुस्तवनमुदारम् । धर्मधुरन्धर यशसोज्ज्वलितं प्राप्तुं हि परपारम्
भवपरिपाकवशेन निगोदाद्, बहिरागमनं जातम् ।
क्रमशो विलसितमपि चेतनया, तदपि न पुरः प्रभातम् आत्मन्० ॥४॥
आत्मन्० ॥१॥
१४
आत्मन्० ॥२॥
आत्मन्० ॥३॥
आत्मन्० ॥५॥
आत्मन्० ॥६॥
आत्मन्० ॥७॥
आत्मन्० ॥८॥
_* * *
Page #28
--------------------------------------------------------------------------
________________
एकविंशतितमोऽधिकारः सज्जनस्तुतिः
[स्रग्धरा ]
आस्तां खिग्धः प्रसन्नः श्रुतरसरमणो दोषहृद् गौरवाङ्गो, विश्वालङ्कारवर्यः सुघटितघटनोऽनेकवर्णः सुवर्णः । यावदुर्वृत्तजिह्वाज्वलदनलकृतां शुद्धिमासादयेन्नो, तावन्नाऽऽप्नोति निष्ठां कनकवदवनौ सत्कवीनां प्रबन्धः
राजा गौरी गुरुर्वा रजतजकलशो डिण्डिरस्त्र्यक्षहासः, सद्वर्णे सज्जनानां निजनिजसमतामीहमानाः स्वनन्ति । नैतद्युक्तं यतस्तान् विशदयति सतां वर्णपूरोऽविरामं, नो चेत्ते कृष्णपक्षाप्रथमरजनिवत् कृष्णकान्ति हावाप्स्यन्
नो घ्नन्ति प्राणिनो नोऽभिदधति वितथं नैव गृह्णन्त्यदत्तं, सेवन्ते मैथुनं नो विविधनवविधामर्थमूर्च्छा त्यजन्ति । स्वात्मारामे रमन्ते नयविनयनताः सज्जना येऽप्रसक्तास्तान् वै वन्दामहे तच्चरणसरसिजे चञ्चरीका भवामः
सत्कीर्त्या सज्जनानां धवलितमभितो विश्वमेतत् समस्तं, दुर्वृत्तानामथाऽप्याननमतिमलिनं किन्नु जातं न शुभ्रम् । नैतच्चित्रं यतोऽस्मिन् जगति सुविदितं श्वेतवर्णे समीपे, कृष्णो वर्णोऽतिकृष्णः प्रभवति नितरां म्लाति यद्वद् मृगोऽङ्के ॥३॥
n
રો
१५
सद्वृत्तानां विशुद्धे यशसि सितकरज्योतिरच्छे सरस्के, स्रायं स्रायं नितान्तं जगदखिलमभूदुज्ज्वलं स्वच्छशुभ्रम् । एतत् स्पष्टं परं किं कलुषकलुषिते दुर्ज्जनानामवर्णे, सकृत्पातेन(ऽसत्कृत्पातेन ?) जातं द्विकपिकवूक भेकादिकं कृष्णकान्तम् ॥५॥
રોકો
Page #29
--------------------------------------------------------------------------
________________
शास्त्रे ग्रन्थे प्रबन्धे महति कविविधौ खण्डकाव्ये कथायां, चम्प्यां नाट्ये चरित्रे प्रहसनललिते यत्र तत्राऽपि लेख्ये । सद्वृत्तैः सज्जनानां स्तुतिरनुपमितिर्यद्व्यधायि प्रसन्ना, वीक्ष्यैतदुर्जनानां मनसि मलिनता व्याप्नुयात्तन्न चित्रम्
सच्चन्द्रं ग्रस्तुकामो मधुकरचरणैः स्पर्धमानः सपातो दुर्वृत्तः सन्ततं तं बुधविरहितमन्वेषयन् बम्भ्रमीति । नाऽद्याऽप्येतेन तस्य ग्रहणमनुकृतं प्राप्तपाताः सदुष्टो, ज्योत्स्ना सच्चन्द्रजन्मा सकलमपि जगज्जीवयन्ती चकास्ति
आसीनेमीतिनामा मृतजलनिधिः प्राज्यपुण्यप्रभावस्तत्कीर्तिः कल्पवल्लीय वितरति मनोवाञ्छितं भक्तिभाजाम् । तस्याः पत्रं प्रसूनं फलमतिरसमासादितं स्वादितं यैस्ते धन्या धर्मधुर्या जगति विजयिनो विश्ववन्द्या अभूवन्
अध्यात्मसारानुगमं विधाय,
मयाऽर्जितं यत् सुकृतं विशेषात् । भूयाज्जनस्तेन यशोनिधानः पुण्यामृतो धर्मधुरन्धरश्च ॥१॥
(सम्पूर्ण:)
१६
En
mn
C/o श्रीजितेन्द्र कापडिया १०, लाभ कोम्प्लेक्ष
१२- बी, सत्तर तालुका सोसा.
पो. नवजीवन, अहमदाबाद- ३८००१४.
c*c* c* c*
Page #30
--------------------------------------------------------------------------
________________
अष्टादशमायस्थानकालोचनाशतकम् ॥
आ. विजयहेमचन्द्रसूरिः वीरं भक्त्या जगद्वन्द्यं, नत्वा स्मृत्वा च सद्गुरुम् । पापभारापनोदाय, प्रयतेऽहं यथामति ॥१॥ (अनुष्टुप्-वृत्तम्) अनाद्यनेहसो योऽसौ, संयोगो जीवकर्मणोः । दुःखरूपस्तथा दुःख-फलो दुःखानुबन्धकः રો शुद्धधर्मं विना न स्या-त्तद्विच्छेदः कथञ्चन । तदवाप्तिर्भवेज्जन्तो-विंगमात् पापकर्मणः स्यात्पापकर्मविगम-स्तथाभव्यत्वपाकतः । तत्पाकसाधनान्येवं, जगुस्त्रीणि जिनेश्वराः चतुःशरणसम्प्राप्ति-स्तथा दुष्कृतगर्हणा । अर्हत्सिद्धादितत्त्वानां सदा सुकृतसेवना द्वितीयं साधनं तत्र, प्रोक्तं दुष्कृतगर्हणम् । विशेषेणेह संक्लिष्ट-पापनाशाय गद्यते
દો इहाउनारतसंसार-परिभ्रमणहेतवः ।
अष्टादशाऽपि हिंसादि-पापस्थानानि जन्मिनाम् ॥७॥ प्रथमपापस्थानकालोचना
तत्र प्राणातिपाताऽख्यं, पापस्थानकमग्रिमम् । सर्वदोषकरं सर्व-गुणहानिकर मतम्
૮ त्रसस्थावरजीवानां, प्राणानां यद्वियोजनम् । प्रमत्तयोगतः स्यात्तद्-हिंसा शास्त्रे निरूप्यते ॥९॥
१७
Page #31
--------------------------------------------------------------------------
________________
विरम्यैतादृशप्राणा-तिपाताद् व्रतमाचरन् । दयापरो भवेदात्मा, ह्येतद् धर्मप्रयोजनम् ॥१०॥ एक-द्वि-त्रि-चतुः-पञ्चे-न्द्रियादिप्राणिनो मया ।। भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ॥११॥ ये ये विराधिताः सर्वां-स्तानहं क्षमयाम्यथ ।
तद्धिंसाजनितं भूया-न्मिथ्या मे दुष्कृतं प्रभो ! ॥१२॥ द्वितीयपापस्थानकालोचना
असत्याख्यं द्वितीयं च, पापस्थानकमुच्यते । हास्य-लोभ-भय-क्रोधै-र्मूषोक्तिं चक्षते जनाः ॥१३॥ जायतेऽसत्यतो वैरं, सन्तापश्च प्रवर्धते । बहून्यन्यानि पापानि, प्रभवन्ति मूषोक्तितः ૪ सकृदुक्तमसत्यं हा !, सत्यापयितुमीहया । शतशो मानवोऽसत्यं, वक्तीति श्रूयते श्रुते l?sો असत्यं वचसां रोगः, परमं पदमापदाम् । नाऽसत्यवचनं तस्मात्, प्राणान्तेऽपि वदेत्सुधीः ॥१६॥ भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ।।
यदसत्यं मया प्रोक्तं, तन्मिथ्या मम जायताम् ॥१७॥ तृतीयपापस्थानकालोचना
रेण नैव यद्दत्तं, गृह्यते द्रविणादिकम् । . तृतीयं तद् भवेत्पाप-स्थानकं स्तेयनामकम् ॥१८॥
ग्रामे वा विजने वाऽपि, पतितं विस्मृतं तथा । तृणमात्रमपि प्राज्ञो, न गृह्णीयात्कदाचन ॥१९॥
ARTRAILERT
१८
Page #32
--------------------------------------------------------------------------
________________
वधजन्यं भवेद् दुःखं क्षणमेकस्य देहिनः ।। प्रियापुत्रयुतस्य स्याद्, यावज्जीवं धने हृते ॥२०॥ अत्र वधादिकं प्रेत्य, प्राप्यते येन दुर्गतिः । तत्स्तेयं वर्जयित्वा ज्ञो, नाऽऽप्नुयात्कः शमुत्तमम् ? ॥२१॥ भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ।
गृहीतं यन्मयाऽदत्तं, तन्मिथ्या मम जायताम् ॥२२॥ चतुर्थपापस्थानकालोचना
मैथुनाख्यं तथा तुर्यं, पापस्थानकमाविलम् । यदाचर्य जनो विश्वे, प्रशंसां लभते नहि बुद्धिर्हि क्रमशो येन, सच्छिद्रघटवारिवत् । हीयते तत्कथं धीरः, प्रतिषेवेत मैथुनम् રજી एकेयं विषयासक्ति-र्गुणेष्वन्येषु सत्स्वपि । काणकपर्दिकातुल्यं, विधत्ते मनुजं खलु ગોરો शूरोऽपि जातशास्त्रोऽपि, जनो यस्य वशंगतः । वीर्यज्ञानविहीनः स्यात्, तदब्रह्म न भद्रकृत् ॥२६॥ विषयाख्यविषध्वस्तो, मनोवाकर्मभिर्भूशम् ।
यदकार्षमहं पापं, तन्मिथ्या मम जायताम् ॥२७॥ पञ्चमपापस्थानकालोचना
धन-धान्य-सुवर्णादौ, ममताबुद्धिलक्षणम् । परिग्रहाभिधं पाप-स्थानकं पञ्चमं मतम् परिग्रहग्रहाविष्टः, सत्स्वप्यर्थेषु भूरिषु । मनागप्येति नो शान्ति, भ्राम्यतीतस्ततो भुवि ॥२९॥
૨૮
Page #33
--------------------------------------------------------------------------
________________
दुनोत्यसंशयं विश्व-मपूर्वोऽयं ग्रहोऽशुभः । सन्तोषमन्त्रजापेन, तच्छान्तिर्जायते ध्रुवम्
इन्धनैर्नाऽनलो नैव, नदीभिः पूर्यतेऽम्बुधि: 1 परिग्रहैस्तथा जीवो, न तृप्यति कदाचन
षष्ठपापस्थानक ालोचना
गृहीत्वाऽनुज्झिता ये ये, विधिपूर्वं परिग्रहाः । तज्जन्यं दुष्कृतं सर्वं, मिथ्या मे जायतां प्रभो ! ॥३२॥
षष्ठं क्रोधाभिधं पाप - स्थानकं शमसौख्यहृत् । विपाकविरसं सिद्ध- प्रायः कार्यस्य नाशकम्
क्रोध उत्पद्यमानः स्वं पूर्वं दहति वह्निवत् । अभावे शमनीरस्य, परान् प्रज्वालयेदपि उत्कृष्टतपसा जीवो, यत् पूर्वकोटिवत्सरैः । उपार्जयति पुण्यं तत् क्रोधान्नाशयति क्षणात्
चारित्रभाजनं विज्ञं त्यजन्ति क्रोधिनं जनाः । मणिना भूषितं सर्पं, केऽपि रक्षन्ति नाऽऽलये यत्किञ्चिद् दुष्कृतं पूर्वं, क्रोधेनोपार्जितं मया । मनसा कर्मणा वाचा, तत् त्रिधा क्षमयाम्यहम् सप्तमपापस्थानक ालोचना
मानाख्यं सप्तमं पाप - स्थानकं विनयापहम् । शैलस्तम्भोपमं येन, स्तब्धो भवति मानवः स्तब्धत्वान्न विधत्ते स, गुरुशुश्रूषणं परम् । शुश्रूषाभावतो जातु, श्रुतलाभः कथं भवेत् !
રૂનો
२०
શો
રૂા
"રૂકા
પેરૂનો
દો
॥३७॥
રો
કો
Page #34
--------------------------------------------------------------------------
________________
EHAR
ji
TO
श्रुताभावान्न विरति-रविरत्या न संवरः । असंवात्तपो नैव, निर्जरा न तपो विना ૪૦ विना निर्जरया नैव, ह्यक्रियत्वं प्रजायते । अभावे चाऽक्रियत्वस्य, नाऽयोगित्वभवक्षयौ રાજી मानेनैतादृशा पूर्वं, भवभ्रमणहेतुना ।
यद् दुष्कृतं मया बद्धं, तत् त्रिधा क्षमयाम्यहम् ॥४२॥ अष्टमपापस्थानकालोचना
सर्वानर्थप्रसूर्माया, पापस्थानकमष्टमम् । बहिर्या रम्यरूपापि, करालाऽभ्यन्तरे भृशम् ॥४३॥ अपराधमकुर्वाणो, गुणयुक्तोऽपि मायिकः । सर्पवन्नहि विश्वास-भाजनं जातु जायते
॥४४॥ रिपुभावं वहन् क्रोधी, प्रशस्तः प्रकटं न तु । मायी मित्रस्वरूपेण, शत्रुकार्यं करोति यः ॥४५॥ श्रीमलेः प्राग्भवे बद्ध-तीर्थकूनामकर्मणः ।। अपि स्त्रीत्वमभूत् तत्र, को हेतुर्मायया विना ॥४६॥ भवेऽस्मिन् यत् पुरा माया-वशादन्यभवेषु वा ।
उपार्जितं मया पापं, तन्मिथ्या मम जायताम् ॥४७॥ नवमपापस्थानकालोचना
पापस्थानकमादिष्टं, नवमं लोभनामकम् । सर्वदा सर्वजन्तूनां, यत्परं प्रीतिकारणम् । ૪૮ यन्मुख्ने पतितः प्राणी, चक्री वा वासवोऽपि वा । प्राप्तलोकत्रयैश्वर्यः , सुखी न क्षणमप्यहो ? ॥४९॥
Page #35
--------------------------------------------------------------------------
________________
अयं शराववन्मूले, लघुः पश्चान्महत्तरः । न सन्तोषं विना केऽपि, तं जना जेतुमीशते ॥५०॥ स्वयम्भूरमणाम्भोधिं, देवास्तरितुमीश्वराः । तेऽपि लोभाम्बुधिं नैव, कथञ्चित्तरितुं क्षमाः ॥५१॥ अर्जितं यन्मया पूर्वं, लोभेन दुष्कृतं हि तत् ।
मिथ्या कुर्व विधा पीत-सन्तोषपरमामृतः ॥५२॥ दशमपापस्थानकालोचना
रागाख्यं दशमं पाप-स्थानकं बलवत्तरम् । संसारे यद्वशा जीवाः, पर्यटन्ति भवाद् भवम् ॥५३॥ अयमेव हि सर्वासा-मापदां मूलकारणम् । प्राप्नुयाद् दुःखकणिका-मस्याऽभावे कथं नरः ॥५४॥ निर्वर्णां दन्तुरां कुब्जा-मवटीटां च वामनाम् । रागवान् मनुते नारी, रतिरूपातिशायिनीम् ॥५५॥ विरागमार्गगान् पान्थान् , प्रच्छन्नोऽयं मलिम्लुचः । भटैर्विषयरागाथै-निःशङ्ख खलु लुण्टति
કદ્દો फूत्कृत्याऽऽनुरिवाऽऽत्मानं, विदश्य यस्तुदत्यम् ।
तद् रागजनितं पापं, मिथ्या कुर्वे पुनः पुनः ॥७॥ एकादशपापस्थानकालोचना
एकादशमतीवोग्रं, पापस्थानकमीरितम् । द्वेषाख्यं मुक्ति पूरि-परिघं प्रीतिनाशकम् ॥८॥ चित्रशाला यथा रम्या, भवेद् धूमेन धूसरा । तथा द्वेषेण निन्द्यं स्या-छुचि संयमजीवनम् ।
२२
Page #36
--------------------------------------------------------------------------
________________
ARAN
P
O SONGS
RIES
४१RATNAERONM
कूतं तपश्चिरं चीर्णं, चारित्रं च गुणावहम् । तदैव स्याद् यदा चित्तं, न दष्टं द्वेषभोगिना ॥६०॥ सुखसाधनयुक्तोऽपि, यत्सद्भावान्तरो नहि । क्षणमप्याप्नुते शान्ति, तं द्वेषं ज्ञः कथं वहेत् ? ॥६१॥ द्वेषेणोपार्जितं पापं, यन्मया पूर्वजन्मसु ।
तत्सर्वं मनसा वाचा, कर्मणा विदधाम्यसत् ॥६॥ द्वादशपापस्थानकालोचना
द्वादशं कथितं पाप-स्थानकं कलहाभिधम् । दुःखानां कटु मूलं यत्, ख्यातं सङ्गकारणम् ॥३॥ कलहो नैव कर्तव्यः, कर्तव्यश्च निजात्मना । दुरन्तकलहव्याधे-मौनमुत्तममौषधम्
દુકો परस्य दुर्वचः श्रुत्वा, प्रत्युत्तरति रोषतः । तन्निशम्य वदेत्सोऽपी-त्येवं स्यात्तत्परम्परा ॥६५॥ यत्राऽस्ति कलहस्तत्र, न श्रीर्वसति कर्हिचित् । श्रामण्यं चाऽपि विफलं, साधोः कलहकारिणः ॥६६॥ यदर्जितं मया पापं, भवेत्राउन्यभवेषु वा ।
कलहेन त्रिधा सर्वं, तदद्य विदधे मृषा ॥७॥ त्रयोदशपापस्थानकालोचना
त्रयोदशं समाख्यात-मभ्याख्यानाभिधं त्वघम् । समुलसद्विकारं तद्, दूरीकुर्याद् विदूरतः ॥८॥ असतः परदोषान् यो, वक्ति मुग्धमतिर्जनः । सेह लाघवमासाद्य, प्रेत्य स्याद् दुःखभाजनम् ॥६॥
।
Page #37
--------------------------------------------------------------------------
________________
सन्तोऽपि परदोषा न वक्तव्या इति सत्स्थितिः । तेषामप्यसतां वक्तु- दुर्वृत्तस्य तु का कथा
श्रुत्वा जिनवचश्चित्तं चेद् भवेत् साम्यवासितम् । न परस्याऽसतो दोषां - स्तदा जातु वदेत् सुधीः अभ्याख्यानेन यद् बद्धं, दुष्कृतं पूर्वजन्मसु । कुर्वे मृषा त्रिधा नाथ !, तत्त्वदाराधनापर: चतुर्दशपापस्थानकालोचना
चतुर्दशं परं पाप-स्थानं पैशुन्यमीरितम् । परोक्षे परदोषाणा - मुक्ति: पैशुन्यमुच्यते
सत्कृतोऽपि खलः कामं, पिशुनत्वं जहाति न । ततस्तु श्वा चरो भक्ष्य-मात्रेण वशमेति यः
पञ्चदशपापस्थानकालोचना
समाख्यातं पञ्चदशं, रत्यरत्याख्यकं परम् । पापस्थानं यतश्चैते, संयुक्ते तिष्ठतः सदा किञ्चिद्धेतू रतिर्यत्रा - रतिस्तत्राऽन्यहेतुका । स्यादेवेति मतं पाप - स्थानमेकमिदं श्रुते
॥७०॥
२४
॥७१॥
॥७१॥
।
पयःप्रक्षालितः काको, यथा याति न शुभ्रताम् नैक शिक्षोक्तिभिस्तद्वद्, दुष्टो न सुजनो भवेत् ॥ ७५ ॥ निम्बोऽमृतेन संसिक्तो माधुर्यं जातु प्राप्नुयात् । न खलो वचनैः खिग्धैः, सौजन्यं मानितो मुहुः ॥७६॥ पैशुन्याचरणैर्बद्धं, यत्पापं पूर्वजन्मसु । मनसा कर्मणा वाचा, तत्सर्वं विदधे मृषा
રો
॥७४॥
॥७७॥
૮]
॥७९॥
Page #38
--------------------------------------------------------------------------
________________
-00-00-00
रतिडिरतिरित्येषा, केवला चित्तकल्पना । विपर्ययोऽनयोर्लोके, दृश्येत् कथमन्यथा ૮૦નો रत्यरत्यनलं प्राप्य, यदाऽयं चित्तपारदः । नश्येन्नहि तदाऽनन्त-सौख्यस्वर्णाय जायते ॥१॥ रत्याऽरत्यापि यत्पूर्वं, पापं बद्धं मया प्रभो ! ।
मनसा कर्मणा वाचा, तन्मिथ्या विदधे समम् ॥२॥ षोडशपापस्थानकालोचना
उक्तं षोडशकं पाप-स्थानकं दुःखकारणम् । नेच्छेत् परपरीवादं, कदाचिन्मनसा सुधीः ॥३॥ परनिन्दारसो नून-मतिशेते रसान् समान् ।। कामं यत्पानतो मो, न श्राम्यति न तृप्यति ॥४॥ तपस्त्यागादिकं याव-ज्जीवं नश्यत्यनुष्ठितम् । यत्करणात्कथं प्राज्ञोऽ-न्यनिन्दां तां समाचरेत् ? ॥५॥ कर्मजन्यं च जीवानां, तारतम्यं विदन् बुधः । गुणदृष्ट्या जगत् पश्यन्, कथं निन्दापरो भवेत् ॥८६॥ विधाय परनिन्दां यद्, भवेत्राऽत्यभवेषु वा । उपार्जितं मया पापं, तत्सर्वं मूषयाम्यहम् ॥७॥
सप्तदशपापस्थ
॥८॥
प्रोक्तं मायामृषावाद-पापस्थानकमाविलम् । सप्तदशकमेतज्ज्ञै-स्त्यक्तव्यं भूतिमिच्छुभिः एका मायाऽप्यनर्थाय, भृशं भवति देहिनाम् । मृषावादेन युक्ता चे-तदाऽनर्थस्य का कथा
॥९॥
२५
Page #39
--------------------------------------------------------------------------
________________
PASS
वि
मायायुक्तो मृषावादी, बकवद् भ्रान्तिकारकः । मुखे मिष्टः स चित्ते तु, विषदिग्धो भवेद् धनम् ॥१०॥ विषेण संस्कृता यद्वत्, प्राणजी कटुतुम्बिका। तद्वन्मायी मूषावादी, विश्वस्तं हन्ति सर्वशः
sો पापं मायामृषावादै-र्बद्धं यत्पूर्वजन्मसु ।
मनसा कर्मणा वाचा, विधा तद् विदधे मूषा ॥२॥ अष्टादशपापस्थानकालोचना
मायामिथ्यात्वशल्याख्यं, पापस्थानकमन्तिमम् । प्रोक्तं सर्वेभ्य एवेदं, पापस्थानेभ्य उन्नतम्
શરૂ मिथ्यात्वं चेद् वृथा सर्वं, चारित्राराधनादिकम् ।। अपि किञ्चित्फलायाऽलं, न स्यात्तप्तं चिरं तपः ॥४॥ इदं हि परमं शस्त्रं, पर: शत्रु परं तमः । दुःखं दैन्यं च दौर्भाग्यं, दारिद्रयं चाऽप्यदः प्रम् ॥५॥ यथा शस्त्री बलिष्ठोऽपि, नाऽन्धः परचमूं जयेत् । न मिथ्यादृक तथा त्यागी, कुरुते कर्मनिर्जराम्। ૬૬ો एकविंशतिमिथ्यात्वं, त्यक्त्वा यो गुरुमर्चयेत् ।। सम्यक्त्वशालिनस्तस्य, कृतं तपोव्रतादिकम् । येनाऽद्यावधि संसारे, जन्मरुङ्मृत्युभीषणे । भ्रामं भ्रामं न निर्विण्ण-स्तन्मिथ्यात्वं त्यजाम्यहम् । as૮ मनसा कर्मणा वाचा, मिथ्यात्वप्रेरितेन यत् ।। भवे भवे कृतं पापं, तन्मुधा मम जायताम् अष्टादशैवमालोच्य, पापस्थानानि भावतः । जीवा निहत्य कर्माणि, प्राप्नुयुः परमं पदम् ૨૦૦૧
Syrig DANA
२६
Page #40
--------------------------------------------------------------------------
________________
अथ प्रशस्तिः
ATTARANA
श्रीतीर्थनाथैरपि पूजिताय, भव्यैनितान्तं किल कामिताय । सर्वातिगानन्दसुसाधनाय, नमो नमः श्रीजिनशासनाय ॥१॥ स गोडिपार्थो जयताज्जगत्यां, सर्वार्थसंसिद्धिसुरद्रुकल्पः । समुल्लसद्भक्ति भरेण भव्या, नित्यं विभुं यं परिपूजयन्ति ॥२॥ शरच्छशाङ्कांशुसमुज्ज्वलेन, येन स्ववृत्तेन दिशो दशाऽपि । विद्योतिताः सूरिपुरन्दर: स, बभूव पूज्यो गुरुनेमिसूरिः ॥३॥ तदीयपट्टोदयशैलसूरः, सूरि: समस्ताऽऽगमसारवेदी । बभूव नाम्ना कृतिनाऽमृतश्च, पीयूषपाणिः कृतिकीर्तनीयः ॥४॥ श्रीदेवसूरिर्हि तदीयपढें, निजावदाताचरणेन सम्यक् । चकासयत्यारीततीर्थमिद्धं, प्रभावयन् वत्सलतामहाब्धिः । ॥५॥ तच्छिष्यहेमचन्द्रः, शब्दन्यायादिशास्त्रकृतयत्नः । वाचकपदभूदरचयद्, वरमिदमालोचनाशतकम् ॥६॥ यो निजगुरुनिश्रायां, सहितः प्रद्युम्नहीरविजयाभ्याम् । स्वानुजतातमुनिभ्यां, मुम्बापुर्यां समृद्धायाम्
છો श्रीगोडीजी-जैनो-पाश्रयमध्ये हि भूरिविज्ञप्त्या । अकरोत् चातुर्मासी, विधुगुप्तिनभोऽक्षिमित(२०३१)वर्षे ॥८॥ गुरुवरवचःप्रबुद्धा, भव्याश्चक्रुस्तदाऽतिहर्षेण । विविधं व्रतनियमतपः-क्रियादि विपुलार्थसद्व्ययतः કો पूज्याचार्यरेण्या, मेरुप्रभसूरयस्तदा रेजुः । आदीश्वरजैनधर्म-शालायां परिरेण युताः
*
23
SENT.
१804
२७
Page #41
--------------------------------------------------------------------------
________________
??
કરો
श्रीआदीश्वरचैत्ये, प्रवरे गगनोन्नतेऽतिरमणीये । जातोऽअनप्रतिष्ठो-त्सवो महानुभयनिश्रायाम् फाल्गुनमासे गोडी-पार्श्वप्रासादसच्छिलान्यासः । प्रवरोत्साहेन कृतः, वर्योत्सवपूर्वकं भव्यैः श्रीगोडीप्रभुसान्निध्ये, कृपया गुरुदेवपादपद्मानाम् । आलोचितानि पाप-स्थानान्यष्टादशाऽपि मया यावन्मेरुगिरीन्द्रो, यावत्सूर्यस्तथा शशी लोके । तावन्नन्दतु कृतिरिय-मधीयमाना बुधैर्नित्यम्
૩રૂ
॥१४॥
॥ इत्यष्टादशपापस्थानकालोचना समाप्ता ॥
C/o. श्रीजितेन्द्र कापडिया, १०, लाभ कोम्प्लेक्ष, १२-बी, सत्तर तालुका सोसा.,
पो. नवजीवन, अहमदाबाद-३८००१४.
60
Mrmarrrrrrrrrnm मरिष्यामीति यद् दुःखं पुरुषस्योपजायते । शक्यस्तेनाऽनुमानेन परोऽपि परिरक्षितुम् ।।
(शीलाङ्काचार्यकृतायाम् आचाराङ्गवृत्ती)
دعدعدعدعدعدعد
२८
Page #42
--------------------------------------------------------------------------
________________
आश्विादयाची योगबिन्दु दोहनम् ।।
मुनिरत्नकीर्तिविजयः भूमिका
अस्य योगबिन्दुग्रन्थस्य प्रणेतारः सूरिपुरन्दराः भवविरहाङ्काः आचार्यश्रीहरिभद्रसूरिभगवन्तः जिनशासनस्य परमगीतार्थाः सर्वमान्याः महापुरुषाः आसन् । येषां नाम विना न्यूनता अनुभूयेत येषां च वचनानां साहाय्यं विना जैनागमानां रहस्यप्रापणं दुःशक्यप्रायं, एतादृशैः एतैः महापुरुषैः स्वकीयजीवने चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्थाः रचिताः आसन् । यद्यपि सम्प्रति तेषां सर्वेऽपि ग्रन्थाः न विद्यन्ते, अल्पसङ्ख्याकाः एव उपलभ्यन्ते, तथापि तावत्सु अपि ग्रन्थेषु जिनवचनानां मर्मोद्धाटकः यज्ज्ञानवैभवः प्राप्यते तं प्राप्य अपि सानाथ्यम् अनुभवन्ति साम्प्रतकालीनाः ज्ञानपिपासवः । तत्र उपलभ्यमानम् एकैकम् अपि पदार्थनिरूपणं जिनागमान्तर्गतानां गम्भीरपदार्थानाम् ऐदम्पर्यार्थम् अधिगन्तुं दीपस्तम्भसदृशम् अस्ति ।
कतिचित्, विंशतिविशिकान्तर्गतं योगविंशिकाप्रकरणम्, योगदृष्टिसमुच्चयः, योगशतकं, योगबिन्दुः, इत्यादयः योगविषयकाः ग्रन्थाः अपि तेषाम् उपलब्धाः सन्ति । तेषु तेषु ग्रन्थेषु योगमार्गस्य भिन्नभिन्नदृष्ट्या निरूपणं कृतम् अस्ति । दृष्टिभेदे सत्यपि न तत्र कुत्र अपि विरोधः दृश्यते । एतादृशं विशदनिरूपणं साम्प्रतं न सर्वत्र उपलभ्यते । तैः रचितेषु ग्रन्थेषु सर्वत्र अनुभूयमानम् एकं वैलक्षण्यम् अस्ति-समन्वयः । सर्वेषां दर्शनानां दर्शनकाराणां च दृष्टिषु अपि यत् सत्यं वर्तते तस्य शब्दभेदम् उपेक्ष्य स्वीकरणं, तस्य च स्वदृष्ट्या सह समन्वयं कृत्वा निरूपणम्-इत्येतत् तेषां ग्रन्थेषु प्रतिपदम् अनुभूयते । यः तु तत्त्वरसिकः भवति सः न कदाऽपि शब्दभेदं पुरस्कृत्य विरोधम् उद्भावयति । एतत् तु योगबिन्दुग्रन्थारम्भे एव स्थापितं तैः यत्
मोक्षहेतुर्यतो योगो, भिद्यते न ततः क्वचित् । साध्याभेदात् तथाभावे, तूक्तिभेदो न कारणम् ॥३॥
H
२९
Page #43
--------------------------------------------------------------------------
________________
।
24TA
एकत्र स्थले तैः एव उक्तं यत् - 'सत्यस्य अन्वेषकैः यतः कुतश्चित् अपि प्राप्यमाणम् अंशभूतम् अपि सत्यं स्वीकरणीयम् एव । यतः तत् सत्यं तु महासत्यस्य एव अंशरूपं भवति' - इति । अत: एव च अस्मिन् योगबिन्दुग्रन्थे अपि स्थले स्थले अन्यदर्शनकाराणां योगमार्गस्य प्रणेतृणां च कथनानां समन्वयः दरीदृश्यते । योगमार्गे विवादः वर्जनीयः इति तेषां मतिः । यतः विवादः न तत्त्वप्राप्तेः उपायभूतः ।
वादांश्च प्रतिवादांश्च, वदन्तो निश्चितांस्तथा ।
तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ ॥६७॥ एवं सत्यपि यस्यां विचारसरण्यां दृष्टौ वा आग्रहेण योगमार्गः रुध्येत बाधितः वा भवेत् फलप्राप्ति: वा विसंवादिनी स्यात् तर्हि तादृशस्य असदाग्रहस्य युक्त्या प्रयुक्त्या तर्केण वा निरासम् अपि ते कृतवन्तः एव । यतः एकान्तः तु सत्यस्य विघातक: अस्ति । एकान्तदृष्टिं च अवलम्ब्य योगमार्गे प्रवृत्तः साधकः तु कदाचित् दिग्भ्रान्तः कदाचित् च मार्गच्युतः वा अपि भवति । अतः तादृशानां पक्षाणां निरसनं कृत्वा तैः सत्यम् उद्घाटितम् अस्ति ।
मोक्षस्य हेतुभूतः अस्ति योगमार्गः - इत्यत्र च सर्वे अपि योगशास्त्रकाराणाम् ऐकमत्यम् अस्ति । नास्ति कुत्रचित् विरोधलेशः अपि । एवं सत्यपि योगस्य गोचरादिशुद्धिः अनिवार्या अस्ति । योगस्य विषयः तस्य स्वरूपं तस्य फलं च, इति त्रितयं यदि परस्परम् अविसंवादि स्यात् तर्हि एव योगशब्दस्य मुख्यः अर्थः - 'मोक्षण योजनाद् योगः' - इति सङ्घटते । विषयादिषु परस्परं यदि संवादिता न स्यात् तर्हि योगमार्गे कृत: प्रयत्नः दिक्शून्या गतिः इव आभाति ।
मोक्षहेतुत्वमेवाऽस्य, किन्तु यत्नेन धीधनैः । सद्गोचरादिसंशुद्धं, मृग्यं स्वहितकाङ्क्षिभिः ॥४॥ गोचरश्च स्वरूपं चं, फलं च यदि युज्यते ।
अस्य योगस्ततोऽयं यन्मुख्यशब्दार्थयोगतः ॥५॥ एषा गोचरादिशुद्धिः मूलशुद्धिः इति उच्यते । यथा मातापितॄणां विशुद्धजातिकुलशीलादिभिः पुत्राणां जातिकुलशीलादीनां विशुद्धिः अनुमीयते तथैव मूलशुद्ध्या
FE
३०
Page #44
--------------------------------------------------------------------------
________________
एव योगभेदानां सम्यक्त्वम् अनुमीयते । यतः कारणशुद्धिः यत्र विद्यते तत्रैव कार्यशुद्धिः भवति । मूलशुद्धि विना एव योगभेदानां वर्णनं तु वन्ध्यापुत्रस्य जातिकुलशीलादीनां वर्णनम् इव आभासते । तत्र यद्यपि अध्यात्मं भावना ध्यानं समता वृत्तिसंक्षयः इत्यादिरूपेण नामसङ्ख्यादीनां साम्यं विद्यते एव किन्तु तद्वर्णनं तु निर्विषयम् एव भवति ।
एवं तु मूलशुद्ध्येह, योगभेदोपवर्णनम् । चारुमात्रादिसत्पुत्र-भेदव्यावर्णनोपमम् ॥ ५११ ॥ अन्यद् वान्ध्येयभेदोप-वर्णनाकल्पमित्यतः । न मूलशुद्ध्यभावेन, भेदसाम्येऽपि वाचिके ॥५१२॥
अतः एव अत्र गोचरादित्रिकस्य संवादितां साधयितुम् एकान्तपक्षाणां निरसनं कृत्वा सत्यं स्थापितं पूज्यैः । अत्र महेशानुग्रहात् मोक्षः, आत्मनः एकान्तसत्त्वम् एकान्तासत्त्वं वा, अनादिशुद्धतादिभेदकल्पना, कुमारिलमतम्, साङ्ख्यमतम्, नैरात्म्यदर्शनात् मुक्ति:, क्षणिकवादः, एकान्तनित्यवादः - इत्याद्यनेकानां दार्शनिकमतानां पदार्थानां च विस्तृतां चर्चां कृत्वा युक्त्या प्रयुक्त्या च सत्यं प्रकाशितं ग्रन्थकृद्भिः । किन्तु अत्र स्थ तु तान् सर्वान् अपि वादान् परित्यज्य ग्रन्थान्तर्गत: योगपदार्थः एव केवलं जिज्ञासूनां कृते यथातथं प्रस्तुतः अस्ति । इति ।
योगलक्षणम्
योजनाद् योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताधिकारायां, प्रकृतौ लेशतो ध्रुवम् ॥ २०१ ॥
यः मोक्षेण योजयति सः योगः इति मुनिपुङ्गवानाम् उक्तिः । एतादृग्लक्षणः योग: पुरुषात् प्रकृतेः अधिपत्यं यदा किञ्चित् निवृत्तं भवति तत्पश्चात् एव भवति । यतः प्रकृतेः अधिकारः यावत् न्यून: न भवति न तावत् मोक्षमार्गं प्रति तत्त्वमार्गं प्रति वा रुचिः श्रद्धा जिज्ञासा वा प्रवर्तते । स्वत्वस्य सम्यग्बोधार्थं प्रकृतेः अधिकारस्य निवृत्तिः अनिवार्या अस्ति । यथा अन्यरोगाणां कारणीभूतैः - कुष्ठादिरोगैः अभिभूतस्य जनस्य
३१
Page #45
--------------------------------------------------------------------------
________________
मतिभ्रंशः भवति तथैव प्रकृतेः आधिपत्यं यावत् पुरुषस्य उपरिष्टात् वर्तते तावत् सः प्रकृतेः व्यापारं स्वकीयम् एव व्यापारं मन्यते । योगमार्गस्य सम्यग् ज्ञानं तस्य न भवति ।
अनिवृत्ताधिकारायां, प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिन्, जिज्ञासाऽपि प्रवर्तते ॥ १०१ ॥ क्षेत्ररोगाभिभूतस्य, यथाऽत्यन्तं विपर्ययः । तद्वदेवाऽस्य विज्ञेय- स्तदावर्तनियोगतः ॥१०२॥
जिज्ञासायामपि ह्यत्र, कश्चित्सर्गो निवर्तते । नाsक्षीणपाप एकान्ता-दाप्नोति कुशलां धियम् ॥ १०३ ॥ ततस्तदात्वे कल्याण-मायत्यां तु विशेषतः । मन्त्राद्यपि सदा चारु, सर्वावस्थाहितं मतम् ॥ १०४ ॥ ( योगिराजगोपेन्द्रस्य वचनरूपाः एते चत्वारः श्लोकाः ग्रन्थे उद्धृताः पूज्यै: 1 ) योगलक्षणे प्रयुक्तः निवृत्ताधिकारशब्दः ध्यानार्हः । एषः शब्दप्रयोगः एव पूज्यानाम् औदार्यस्य प्रमाणम् । निवृत्ताधिकारस्तु जैनदर्शने ग्रन्थिभेदरूपेण उपलक्षितः अस्ति । आत्मनि रागद्वेषाणां वर्तमानः तीव्राध्यवसायः नाम ग्रन्थिः, तस्याः भेदनं ग्रन्थिभेदः । एतादृश: ग्रन्थिभेदः येन कृतः अस्ति तस्य चित्तं तु सततं मोक्षे एव लीनं भवति, न संसारे । संसारे तु सः शरीरेण एव प्रवर्तते किन्तु तस्य अध्यवसायाः मोक्षैकनिष्ठाः एव भवन्ति । अतः एव तस्य सर्वाः अपि प्रवृत्तयः मोक्षफलदायिन्यः एव भवन्ति । अत: एव च तस्य योगः अपि भावयोगः इति उच्यते ।
भिन्नग्रन्थेस्तु यत्प्रायो, मोक्षे चित्तं भवे तनुः । तस्य तत्सर्व एवेह योगो योगो हि भावतः ॥२०३॥
योगमाहात्म्यम्
योगः कल्पतरुः श्रेष्ठो, योगश्चिन्तामणिः परः । योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः ॥ ३७ ॥
३२
helend
Page #46
--------------------------------------------------------------------------
________________
तथा च जन्मबीजाग्नि-र्जरसोऽपि जरा पर । दु:खानां राजयक्ष्माऽयं, मृत्योर्मृत्युरुदाहृतः ॥३८॥ कुण्ठीभवन्ति तीक्ष्णानि, मन्मथास्त्राणि सर्वथा । योगवर्मावृते चित्ते, तपश्छिद्रकराण्यपि ॥३९॥ अक्षरद्वयमप्येत-छूयमाणं विधानतः । गीतं पापक्षयायोच्चै-योगसिद्धौ महात्मभिः ॥४०॥ मलिनस्य यथा हेम्नो, वह्नः शुद्धिर्नियोगतः । योगाग्नेश्चेतसस्तद्व-दविद्यामलिनात्मनः ॥४१॥ अमुत्र संशयापन्न-चेतसोऽपि ह्यतो ध्रुवम् ।
सत्स्वप्नप्रत्ययादिभ्यः, संशयो विनिवर्तते ॥४२॥ एतेषु श्लोकेषु न केवलं योगस्य माहात्म्यं प्रभावः वा वर्णितः किन्तु योगमार्गे प्रविष्टस्य स्थितिः कीदृशी भवेत् सः अपि ध्वनिः अत्र श्रूयते । दुःखे सत्यपि यत्र तस्य पीडा न अनुभूयते, मृत्योः भयं यत: व्यपगतम् अस्ति, मोहसंस्काराः यत्र क्षीणाः जाताः, अविद्यादिक्लेशाः यत्र दग्धबीजभावं प्राप्ताः स्युः, पारलौकिकविषयेषु अपि यस्य मतिः नि:संशया स्यात्-एतादृशी स्थितिः यस्य दृश्येत सः एव योगमार्गप्रवृत्तः योगमार्गस्य साधकः वा ज्ञेयः । पूर्वसेवा
पूर्वसेवा तु तत्रज-गुरुदेवादिपूजनम् ।
सदाचाररतपो मुक्त्य-द्वेषश्चेह प्रकीर्तिता ॥१०९॥ पूर्वसेवा नाम प्राथमिकी भूमिका । ताम् अनारूह्य न कोऽपि योगमार्गस्य पारं प्राप्तुम् अलं भवति । गुरुदेवादीनां पूजनम्, सदाचारः, तपः, मुक्ति प्रति अद्वेषः च - इतिरूपेण पूर्वसेवा अत्र वर्णिता । एते गुणाः यस्य नास्ति सः योगमार्गे प्रवृत्तिं कर्तुं न अर्हति । यदि कुर्यात्, तथाऽपि तत्र साफल्यं न प्राप्नुयात् । व्यावहारिकजीवनस्य अपि गुणा: यस्मिन् न सन्ति सः कथं नाम योगमार्ग साधयितुं प्रभवेत् ? अतः एतेषां चतुर्णां वर्णनं कृतम् अस्ति । तत्र
Tara
ELATES
SCOVE7
R
३३
Page #47
--------------------------------------------------------------------------
________________
(१) गुरुदेवादीनां पूजनम् - तत्र के गुरुजनाः इत्यत्र उक्तम्
माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । __ वृद्धा धर्मापदेष्टारो, गुरुवर्गः सतां मतः ॥११०॥
माता, पिता, कलाचार्यः नाम शिक्षकः, एतेषां त्रयाणां ज्ञातयः - तन्नाम तेषां । भ्रातृभगिन्यादयः, वृद्धाः तु ज्ञानेन वृद्धाः वा वयसा वृद्धाः वा, धर्मोपदेशकाः च - इत्येते गुरुजनाः गौरवार्हाः जनाः सन्ति । तिसृषु अपि सन्ध्यासु तेषां नमनकरणम्, अनुपस्थितेषु अपि तेषु हृदये समारोप्य भावतः नमस्करणम्, तेषाम् आगमने स्वकीयासनात् उत्थाय सम्मुखगमनम्, आसनप्रदानम्, पर्युपासनकरणम्, निरभिमानितया समीपे उपवेशनम्, अनुचितस्थाने-मूत्र-पुरीषाधुत्सर्गस्थाने तेषां नाम्नः अग्रहणम्, तेषां पूज्यानाम् अवर्णवादः न श्रवणीयः (अत्र श्रवणस्य अपि निषेधः कृतः अस्ति तर्हि करणस्य तु का कथा ?), तेभ्यः शोभनानि वस्त्र-पान-भोजना-लङ्कारादीनि समर्पणीयानि, तेषां पारलौकिकं हितं यथा स्यात् तथा दीनानाथाभ्यागतानां सेवादिसत्कार्याणि कारयितव्यानि, ते यं व्यवहारम अनिष्टं मन्यन्ते तस्य त्यागः विधेयः, य: च तेषाम् अभीप्सितः व्यवहारः तत्र अवश्यं प्रवर्तितव्यम् - इत्यादिरूपम् अस्ति तेषां पूजनम् । एतत् सर्वम् अपि औचित्यपूर्वकम् एव करणीयं येन धर्मपुरुषार्थः बाधितः न स्यात् । अन्यत् च गुरुजनानां शयनासनभोजनपात्रादीनाम् उपयोगः स्वयं न कर्तव्यः, तेषां सम्पद् अपि तीर्थक्षेत्रादिषु पुण्यक्षेत्रेषु । योजनीया, तेषां बिम्बं स्थापनीयम्, तस्य च धूप-दीप-पुष्पादिपूजनरूपेण संस्कारः कर्तव्यः इत्यादिरूपेण अपि तेषां पूजनं भवति ।
पूजनं चाऽस्य विज्ञेयं, त्रिसन्ध्यं नमनक्रिया । तस्याऽनवसरेऽप्युच्चै-श्वेतस्यारोपितस्य तु ॥१११॥ अभ्युत्थानादियोगश्च, तदन्ते निभूतासनम् । नामग्रहश्च नाऽस्थाने, नाऽवर्णश्रवणं क्वचित् ॥११२॥ साराणां च यथाशक्ति, वस्त्रादीनां निवेदनम् ।। परलोकक्रियाणां च, कारणं तेन सर्वदा ॥११३॥
4FICE
ORG
For Private
Esonal Use Only
Page #48
--------------------------------------------------------------------------
________________
ran
..
त्यागश्च तदनिष्टानां, तदिष्टेषु प्रवर्तनम् ।
औचित्येन त्विदं ज्ञेयं, प्राहुर्धर्माद्यपीडया ॥१४॥ तदासनाद्यभोगश्च, तीर्थ तद्वित्तयोजनम् ।
तविम्बन्याससंस्कार ऊर्ध्वदेहक्रिया परा ॥११५॥ अधुना देवपूजाविधि दर्शयति
पुष्पैश्च बलिना चैव, वस्त्रैः स्तोत्रैश्च शोभनैः ।
देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम् ॥११६॥ शरीरशुद्धि-वस्त्रशुद्धि-द्रव्यशुद्धि-व्यवहारशुद्धिपूर्वकं श्रद्धापूर्वकं च देवता पूजनीया। पुष्पैः, बलिभिः - तन्नाम पक्वान्नादिभिः, फलादिभिः, वस्त्रैः, सुन्दरैः गम्भीराथैः च स्तोत्रैः - इत्यादिभिः अनेकैः प्रकारैः देवतानां पूजनं भवति । अथ के देवाः पूजनीयाः इत्यत्र उच्यते
अविशेषेण सर्वेषा-मधिमुक्तिवशेन च । गृहिणां माननीया यत्, सर्व देवा महात्मनाम् ॥११७॥ चारिसञ्जीवनीचार- न्याय एष सतां मतः । नाऽन्यथाऽवेष्टसिद्धिः स्याद्, विशेषेणाऽऽदिकर्मणाम् ॥११९॥ गुणाधिक्यपरिज्ञानाद्, विशेषेऽप्येतदिष्यते ।
अद्वेषेण तदन्येषां, वृत्ताधिक्यं तथात्मनः ॥१२०॥ मतिमोहादिना कारणेन यस्य चित्ते अद्याऽपि देवताविशेषस्य निर्णयः न जातः तेन तु सामान्येन एव सर्वेषाम् अपि अर्हत्-बुद्ध-ब्रह्म-विष्णु-महेश्वरादीनां पूजा विधेया। अथवा यस्य यत्र श्रद्धा प्रबला तद्देवतायाः पूजनं कर्तव्यम् । यतः एवं कृते सति चारिसञ्जीवनीचारन्यायात् कदाचित् वास्तविकदेवतायाः परिचयः तस्य भवेत् अपि । एवं च यदा गुणाधिक्यस्य परिज्ञानं भवति तत्पश्चात् एव अर्हदादिदेवताविशेषे पूजनम् इष्टम् । यतः तत्काले तु तस्य चित्ते अन्यदेवतादिषु अद्वेषः एव प्रवर्तते ।
गुरुदेवादिपूजनान्तर्गतम् अन्यत् अपि यत् वक्तव्यं तत् दर्शयति
३५
Page #49
--------------------------------------------------------------------------
________________
ये पात्रजीवाः सन्ति, यथा- ये व्रतधारिणः व्रतसूचकवेषधारिणः च ते सामान्यतः पात्रजीवाः, ये च स्वयं भोजनं न पचन्ति न च पाचयन्ति किन्तु स्वसिद्धान्ताविरोधेन एव ये सर्वदा प्रवर्तन्ते ते विशेषेण पात्रजीवाः - तेभ्यः, तथा ये दीनान्धकृपणाः, विशेषेण व्याधिग्रस्ताः, धनहीनाः, स्वयं च आजीविकां निर्वोढुम् अशक्ता: तेभ्यः दानं दद्यात् । एतत् दानम् अपि तथा करणीयं यथा स्वगृहस्थितः मातृ-पितृ-पुत्रपुत्र्यादिपोष्यवर्गः न सीदेत् । 'गृहं प्रज्ज्वाल्य तीर्थाटनं न कर्तव्यम्' इति सारः। दत्तं च दानं तद्दातुः तद्ग्राहकस्य च उभयोः अपि उपकारार्थं स्यात् न किन्तु व्याधिषु अपथ्यम् इव अहितकरं स्यात् । एतादृशम् एव दानम् इष्टम् इष्टफलदायकं च भवति । एवं रीत्या दत्तम् एव च विधिदानम् उच्यते ।
पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् ॥१२१॥ व्रतस्था लिङ्गिन: पात्र-मपचास्तु विशेषतः । स्वसिद्धान्ताविरोधेन, वर्तन्ते ये सदैव हि ॥१२२॥ दीनान्धकृपणा ये तु, व्याधिग्रस्ता विशेषतः । निःस्वाः क्रियान्तराशक्ता, एतद्वर्गो हि मीलकः ॥१२३॥ दत्तं यदुपकाराय, द्वयोरप्युपजायते ।
नाऽऽतुरापथ्यतुल्यं तु, तदेतद्विधिवन्मतम् ॥१२४॥ (२) सदाचार :- भिन्नभिन्नैः अनेकैः प्रकारैः अत्र सदाचारः वर्णितः अस्ति । सर्वेऽपि एते प्रकाराः हृदये दृढं भावनीयाः । १. लोकापवादात् भयम, २. दीनानाथादीनाम् उपकारे प्रयत्नः, ३. कृतज्ञता, ४. दाक्षिण्यम्, ५. हीनमध्यमोत्तमेभ्यः कस्यचित् अपि निन्दायाः अकरणम्, ६. सज्जनानां गुणकथायाः वर्णवादस्य च करणम्, ७. आपत्काले अपि दैन्यरहितत्वम्, ८. सम्पत्प्राप्तौ अपि नम्रता, ९. अवसरेऽपि अल्पम् अविसंवादि च भाषणम्, १०. स्वगृहीतव्रतनियमादीनां दायेन पालनम्, ११. कुलधर्मस्य अनुपालनम्, १२. अजितधनस्य अपव्ययस्य त्यागः, १३. उचितस्थले कार्पण्यं त्यक्त्वा धनस्य सद्व्ययः, १४. विशिष्टफलदायकेषु प्रयोजनेषु आग्रहः, १५. मद्य-विषय-कषाय-निद्रा
३६
Page #50
--------------------------------------------------------------------------
________________
RSPRE
IT विकथास्वरूपाणां पञ्चानाम् अपि प्रमादानां सन्त्यागः, १६. अविरोधिनः लोकव्यवहारस्य
पालनम्, १७. सर्वत्र औचित्यस्य पालनम्, १८. प्राणत्यागेऽपि निन्द्यप्रवृत्तीनां त्यागः - इति सदाचारप्रकाशः ।
लोकापवादभीरुत्वं, दीनाभ्युद्धरणादर: । कृतज्ञता सुदाक्षिण्यं, सदाचार: प्रकीर्तितः ॥१२६॥ सर्वत्र निन्दासत्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्सम्पदि नम्रता ॥१२७॥ प्रस्तावे मितभाषित्व-मविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥१२८॥ असद्व्ययपरित्यागः, स्थाने चैतक्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् ॥१२९॥ लोकाचारनुवृत्तिश्च, सर्वत्रौचित्यपालनम् ।
प्रवृत्तिर्हिते नेति, प्राणैः कण्ठगतैरपि ॥१३०॥ (३) तपः
तपोऽपि च यथाशक्ति, कर्तव्यं पापतापनम् ।
तच्च चान्द्रायणं कृच्छ्रे, मृत्युघ्नं पापसूदनम् ॥१३१॥
योगमार्गप्रवेशेप्सुभिः कर्मविघातकृत् तपः अपि स्वशक्त्यनुरूपम् आचरणीयम् । RATE यतः तपसा मोहादिकर्मणां प्रभावः मन्दः सञ्जायते । एवं च सञ्जातनिर्मलचित्तः जनः
सौकर्येण योगमार्गं प्रविशति । अत्र चतुष्प्रकारकं तपः दर्शितम् अस्ति, तद्यथा-चान्द्रायणं, ( कृच्छं, मृत्युघ्नं, पापसूदनं च इति । तत्र
१. चान्द्रायणतपसः विधिः -
एकैकं वर्धयेद् ग्रासं, शुक्ले कृष्णे च हापयेत् । भुञ्जीत नामावास्याया-मेष चान्द्रायणो विधिः ॥१३२॥
MNANDAN
३७
Page #51
--------------------------------------------------------------------------
________________
शुक्लपक्षे अस्य तपसः आरम्भः करणीयः । तत्र प्रथमदिने एकग्रासप्रमाणः एव आहारः कर्तव्यः पश्चात् च प्रतिदिनम् एकैकग्रासवृद्ध्या पूर्णिमादिनपर्यन्तम् आहारः ग्रहीतव्यः । तदनु च कृष्णपक्षे एकैकग्रासहान्या आहारः भोक्तव्यः । एवं च क्रमेण कृष्णचतुर्दशीदिने तु एकग्रासप्रमाणः एव आहारः भवेत् । अमावास्यादिने च अनाहारः एव तिष्ठेत् ।
२. कृच्छ्रतपसः विधि :
तत्र
सन्तापनादिभेदेन, कृच्छ्रमुक्तमनेकधा
अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ॥१३३॥
सन्तापनकृच्छ्रं, पादकृच्छ्रं सम्पूर्णकृच्छ्रम् - इत्याद्यनेकभेदाः सन्ति कृच्छ्रतपसः ।
तथा
-
त्र्यमुष्णं पिबेदम्बु, त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पिबेन्मूत्रं, त्र्यहमुष्णं पिबेत्पयः ॥१॥
एकभक्तेन भुक्तेन, तथैवाऽयाचितेन च ।
उपवासेन चैकेन, पादकृच्छ्रं विधीयते ॥ २ ॥ इति पादकृच्छ्रं तपः ।
इदम् एव च पादकृच्छ्रं तपः यदा पुनः पुनः चतुर्वारं विधीयते तदा सम्पूर्णकृच्छ्रं तपः भवति ।
३. मृत्युघ्नतपसः विधि:
इति सन्तापनकृच्छ्रं तपः ।
मासोपवासमित्याहु - मृत्युघ्नं तुं तपोधनाः । मृत्युञ्जयजपोपेतं, परिशुद्धं विधानतः ॥ १३४ ॥
४. पापसूदनतपसः विधि :
पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया । चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥१३५॥
३८
Page #52
--------------------------------------------------------------------------
________________
-
HAPA
G
ज्ञानावरणीय-दर्शनावरणीय-वेदनीय-मोहनीय-आयु-र्नाम-गोत्रा-न्तरायरूपाणि अष्ट कर्माणि सन्ति । तत्र प्रत्येकं कर्म आश्रित्य अष्टदिनप्रमाणं तपः क्रियते । तत्र प्रथमदिने उपवासः, द्वितीयदिने एकाशनम्, तृतीयदिने 'एकसिक्थम्, चतुर्थदिने 'एकस्थानकम्, पञ्चमदिने २ एकदत्तिः, षष्ठदिने निर्विकृतिका, सप्तमदिने आचाम्लम्, अष्टमदिने अष्टकवलानि - एवम् अष्टवारं क्रियते । आहत्य च चतुःषष्टिदिनप्रमाणम् एतत् तपः भवति । तथा 'नमा अ सि आ उ सा नमः' इत्यादिनानाविधमन्त्राणां जापः अपि तपःकाले कर्तव्यः भवति ।
(४) मुक्त्यद्वेषः - योगमार्गस्य चरमं मुख्यं च लक्ष्यम् अस्ति मोक्षः । तादृशः मोक्षः सकलकर्मणां क्षयेण एव प्राप्यते । एतादृशि मोक्षविषये अपि कतिषुचित् ।। शास्त्रेषु एवंरूपाणि वचनानि श्रूयन्ते-यथा
६ जड़ तत्थ नत्थि सीमंतिणीओ मणहरपियंगुवण्णाओ । ता रे ! सिद्धतिय ! बंधणं नु मोक्खो न सो मोक्खो ॥ वरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम् ।
न त्वेवाऽविषयो मोक्षः, कदाचिदपि गौतम ! ॥१३८॥ इत्यादीनि ।
किन्तु एतद्रूपः मुक्ति प्रति द्वेषः तु असारेऽपि संसारे बहुमानं धारयतां भवाभिनन्दिनां जीवानाम् अज्ञानमूलकः भवति । महामोहाभिभूतानां स्वाकल्याणकर्तृणां च जीवानाम् एव एषः संसारवर्धकः द्वेषः उत्पद्यते । किन्तु येषां चित्ते अयं द्वेषः नास्ति ते धन्याः सन्ति, भवबीजं च त्यक्त्वा ते एव कल्याणभागिनः भवन्ति । १. धान्यस्य एककणप्रमाणम् एव भोजनम् । २. अन्याङ्गानां स्पन्दनं वर्जयित्वा केवलं मुखस्य दक्षिणहस्तस्य च एव चालनपूर्वकम् एकवारं यत् ।।
भोजनं क्रियते तत् । ३. रुक्षम् अपि भोजनं यावत् भक्षणीयं स्यात् तावत् सकृत् एव ग्रहणीयम् । ४. एकवारम् एव घृतदुग्धादिविकृतिषट्करहितं भोजनम् । ५. सर्वथा नीरस: आहारः । ६. यदि तत्र नाऽस्ति सीमन्तिन्यो मनोहरप्रियङ्गवर्णाः ।
ततः रे ! सैद्धान्तिक ! बन्धनं खलु मोक्षः न स मोक्षः ॥
ANESERERNA
Page #53
--------------------------------------------------------------------------
________________
अतः एव च यस्य मुक्त्यादिषु - मुक्तौ, मुक्त्युपायेषु, मुक्तिपथप्रस्थितेषु जनेषु च द्वेषः नाऽस्ति सः एव गुरुदेवादीनां पूजनम् अपि शोभनया रीत्या औचित्येन च कर्तुं शक्नोति । यतः लघु अपि सत्कृत्यं महादोषवतां न गुणाय भवति । अतः च मुक्ति द्विषन् जन: गुरुदेवादीनां पूजनं कुर्यात् चेदपि न तत् सत्कृत्यत्वेन गणयितुम् अर्हति । गुरुदेवादीनां पूजनेन यावान् लाभः न भवति तावान् लाभः तु मुक्त्यद्वेषेण भवति । अतः मुक्त्यद्वेषमूलकः अयं गुरुदेवादिपूजनलाभ: । एवं च मुक्त्यद्वेषः तु पूर्वसेवायाः मुख्यः गुणः ।
कृत्संकर्मक्षयान्मुक्ति-र्भोगसङ्क्लेशवर्जिता । भवाभिनन्दिनामस्यां द्वेषोऽज्ञाननिबन्धनः ॥१३६॥
श्रूयन्ते चैतदालापा, लोके तावदशोभनाः । शास्त्रेष्वपि हि मूढाना - मश्रोतव्याः सदा सताम् ॥ १३७ ॥
वरं वृन्दावने रम्ये, कोष्टुत्वमभिवाञ्छितम् । न त्वेवाऽविषयो मोक्षः, कदाचिदपि गौतम ! ॥॥१३८॥
महामोहाभिभूतानामेवं द्वेषोऽत्र जायते । अकल्याणवतां पुंसां, तथा संसारवर्धनः ॥१३९॥ नास्ति येषामयं तत्र, तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात्, तथा कल्याणभागिनः ॥१४०॥ येषामेवं न मुक्त्यादौ, द्वेषो, गुर्वादिपूजनम् । त एव चारु कुर्वन्ति, नाऽन्ये तद्गुरुदोषतः ॥ १४७ ॥ सच्चेष्टितमपि स्तोकं, गुरुदोषवतो न तत् । भौतहन्तुर्यथाऽन्यत्र, पादस्पर्शनिषेधनम् ॥१४८॥
गुर्वादिपूजनान्नेह, तथा गुण उदाहृतः । मुक्त्यद्वेषाद्यथाऽत्यन्तं महापायनिवृत्तितः ॥१४९॥
४०
Page #54
--------------------------------------------------------------------------
________________
१योगभेदाः -
___ अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः च इति पञ्चप्रकार: योगः अस्ति । पञ्च अपि एते प्रकाराः आत्मानं मोक्षेण योजयन्ति इति कृत्वा योगत्वेन प्रतिष्ठिताः । पञ्चसु अपि भेदेषु अनुक्रमेण परः परः भेदः श्रेष्ठः श्रेष्ठतरः च अस्ति । श्रेष्ठः नाम भावरूपत्वात् अयं योगः पारमार्थिकयोगः अस्ति ।
अन्ये अपि-तात्त्विकः अतात्त्विकः, सानुबन्धः निरनुबन्धः, सास्रवः अनाश्रवः च- इत्यादयः योगभेदाः सन्ति । एते च योगभेदाः प्राणिनाम् आत्मपरिणतिम् अवलम्ब्य - जीवानाम् अवस्थाभेदम् आश्रित्य संज्ञाभेदेन वर्णिताः सन्ति । तत्र
१. निर्वाणम् एव अभिलषतः जनस्य यः सद्भूतः योगः सः तात्त्विकः योगः । २. लोकचित्तस्य आराधनारूपः लोकाकर्षणाय एव वा क्रियमाणः योगः अतात्त्विकः योगः । ३. यस्य योगस्य परम्परा मुक्तिप्राप्तिपर्यन्तम् अविच्छिन्ना प्रवर्तते सः सानुबन्धः योगः । ४. यस्य च परम्परा विच्छिन्ना भवति सः निरनुबन्धः योगः । ५. यस्मिन् योगे संसारः दीर्घः अस्ति सः सास्त्रवः योगः । ६. यस्मिन् च संसारः अल्पः भवति सः अनास्त्रवः योगः इति ।
अध्यात्म भावना ध्यानं, समता वृत्तिसंक्षयः । मोक्षेण योजनाद् योग, एष श्रेष्ठो यथोत्तरम् ॥३१॥ तात्त्विकोऽतात्त्विकश्वाऽयं, सानुबन्धस्तथाऽपरः । सास्रवोऽनामवश्चेति, संज्ञाभेदेन कीर्तितः ॥३२॥ तात्त्विको भूत एव स्या-दन्यो लोकव्यपेक्षया । अच्छिन्नः सानुबन्धस्तु, च्छेदवानपरो मतः ॥३३॥ सासवो दीर्घसंसार-स्ततोऽन्योऽनास्रवः परः ।
अवस्थाभेदविषयाः, संज्ञा एता यथोदिताः ॥३४॥ - योगभेदानां फलसहितं विशेषवर्णनम् -
(१) अध्यात्मयोगः - उचितप्रवृत्तिमतां अणुव्रतमहाव्रतादियुक्तानाम् आत्मनां
-
-
Page #55
--------------------------------------------------------------------------
________________
जिनप्रणीतवचनानि आश्रित्य मैत्री - प्रमोद - करुणा-माध्यस्थ्यभावप्रधानं यत् जीवादितत्त्वानां चिन्तनं तत् अध्यात्मम् इति अध्यात्मविदः वदन्ति ।
एतेन अध्यात्मयोगेन कर्मणां क्षयः भवति । सत्त्वं नाम वीर्योत्कर्ष:, शीलं नाम चित्तस्य समाधिः, ज्ञानं नाम वस्तूनां यथार्थावबोधः - इति शाश्वतानाम् - अप्रतिपातिनाम् एतत्त्रयाणां प्राप्तिः अपि एतेन अध्यात्मयोगेन भवति । स्वानुभवसिद्धम् अमृतम् अपि एतत् अध्यात्मम् एव अस्ति ।
औचित्याद् व्रतयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्त-मध्यात्मं तद्विदो विदुः ॥३५८॥ अतः पापक्षयः सत्त्वं, शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्ध-ममृतं हृद एव तु ॥ ३५९॥
अध्यात्मस्य विशेषवर्णनम् -
औचित्यादियुक्तस्य आत्मन: मैत्र्यादिगर्भितं तत्त्वचिन्तनम् अध्यात्मम्- इति पूर्वम् उक्तम् । एतत् अध्यात्मं द्रव्य-क्षेत्र - काल - भावाद्यवस्थाभेदैः अनेकप्रकारकम् अस्ति । तत्र च य: आदिधार्मिकः जीवः तम् आश्रित्य जपः एव अध्यात्मम् । सन्मन्त्रविषयकः जपः देवतास्तवरूपः अस्ति । यथा मन्त्रविशेषात् स्थावर - जङ्गमादिभेदभिन्नानां विषाणाम् अपहारः भवति तथैव एतेन मन्त्रजपेन अपि पापपरिहारः भवति ।
तत्त्वचिन्तनमध्यात्म- मौचित्यादियुतस्य तु । उक्तं विचित्रमेतच्च तथावस्थादिभेदतः ॥३८०॥ आदिकर्मकमाश्रित्य जपो ह्यध्यात्ममुच्यते । देवतानुग्रहाङ्गत्वा-दतोऽयमभिधीयते ॥ ३८१ ॥
जपः सन्मन्त्रविषयः, स चोक्तो देवतास्तवः । दृष्टः पापापहारोऽस्माद्, विषापहरणं यथा ॥ ३८२॥
मतान्तरं दर्शयति
स्वयोग्यतायाः सम्यक् विचारणम्, तदनु च धर्मक्रियायां प्रवृत्तिः, आत्मनिरीक्षणं
४२
Page #56
--------------------------------------------------------------------------
________________
१
च इति त्रितयम् अध्यात्मम् इति अन्ये योगशास्त्रकाराः वदन्ति । तथा हि१. त्रिभिः प्रकारैः स्वयोग्यतायाः आलोचनं भवति-योगप्रवृत्या, जनवादात्, आगमानु
सारिनिमित्तैः च । तत्र योगप्रवृत्या नाम मनोवाक्कायरूपाणां योगानां सम्यक् प्रवर्तनेन, जनवादात् नाम लोकानां स्वं प्रति यः निर्मलः भावः आदरः वा तेन, आगमानुसारिनिमित्तैः च नाम पशुपक्ष्यादिशब्दरूपाः शकुनाः, तैः-एवं च त्रिभिः प्रकारैः
स्वयोग्यतायाः यत् सम्यक् परीक्षणं तत् अध्यात्मम् । २. एवं च सम्यग्रीत्या स्वयोग्यताम् आलोच्य धर्मे प्रवर्तनं हि निश्चयेन इष्टफलप्रदायकं
भवति । यतः स्वकीयं योग्यत्वायोग्यत्वम् आलोचयति आत्मनि भावस्य प्राधान्यात् धर्मे तस्य दृढानुरागः भवति । धर्मे यस्य प्रतिबन्धः नाऽस्ति सः औदयिकभावैःतन्नाम कर्मणाम् उदयेन प्राप्यमाणैः पदार्थैः परिस्थितिभिः वा-उपहतचित्तत्वात् न स्वौचित्यम् आलोचयति । स्वयोग्यतां विना धर्मे प्रवर्तनं न कदाऽपि सफलं भवति । अतः यः योगभङ्गभयेन युक्तः स्यात् श्रद्धातिशयात् च योगसिद्ध्यर्थं । दृढम् उत्सुकः स्यात् तथा परिणामालोचनपूर्वकम् एव च कार्ये प्रवर्तमानः स्यात् - एतादृशः बुद्धिमान् आत्मा शुद्धयुक्त्या स्वयोग्यतां सम्यक् विचारयति, तदनु चैव धर्मे प्रवृत्तिं करोति-इत्यपि अध्यात्मम् । अणुव्रत-महाव्रतादिपालनरूपे कार्ये प्रारब्धे सति अशुभकर्मणाम् उदयेन कदाचित् तत्र भङ्गादिरूपं भयम् उपस्थितं भवेत् अपि । तद्भयस्य उपशमार्थम् आत्मनिरीक्षणं कुर्यात् यत्- मया किं किं कृतम् ? किं कृत्यं च अवशिष्टम् ? - इत्यादि । यथा रोगाणां शत्रूणां वा भये उपस्थिते सति चिकित्सायाः दुर्गस्य वा शरणम् अङ्गीक्रियते तथैव यदि चित्तम् उन्मार्गगामि स्यात् तथा च धर्मकृत्ये यदि भङ्गभयम् उपस्थितं स्यात् तर्हि देव-गुर्वादीनां शरणम् एव आश्रयणीयम्, येन दुरितानां क्षयः स्यात्। एवं च कृतम् आत्मनिरीक्षणम् अपि अध्यात्मम् एव ।
स्वौचित्यालोचनं सम्यक्, ततो धर्मप्रवर्तनम् । आत्मसम्प्रेक्षणं चैव, तदेतदपरे जगुः ॥३८९॥
३
४३
Page #57
--------------------------------------------------------------------------
________________
GANA
RAM
color
RMER
योगेभ्यो जनवादाच्च, लिङ्गेभ्योऽथ यथागमम् । स्वौचित्यालोचनं प्राहु-योगमार्गकृतश्रमाः ॥३९०॥ योगः कायादिकर्माणि, जनवादस्तु तत्कथा । शकुनादीनि लिङ्गानि, स्वौचित्यालोचनास्पदम् ॥३९१॥ एकान्तफलदं ज्ञेय-मतो धर्मप्रवर्तनम् । अत्यन्तं भावसारत्वात् - तत्रैव प्रतिबन्धतः ॥३९२॥ तदङ्गादिभयोपेत-स्तत्सिद्धौ चोत्सुको दृढम् । यो धीमानिति सन्न्यायात्, स यदौचित्यमीक्षते ॥३९३॥ आत्मसम्प्रेक्षणं चैव, ज्ञेयमारब्धकर्मणि । पापकर्मोदयादत्र, भयं तदुपशान्तये ॥३९४॥ विस्रोतोगमने न्याय्यं, भयादौ शरणादिवत् । गुर्वाद्याश्रयणं सम्यक्, ततः स्याद् दुरितक्षयः ॥३९५॥ सर्वमेवेदमध्यात्म, कुशलाशयभावतः ।
औचित्याद्यत्र नियमा-लक्षणं यत्पुरोदितम् ॥३९६॥ मतान्तरं वर्णयति
देवादीन् सम्यक् प्रकारेण वन्दनम्, प्रतिक्रमणम्, मैत्र्यादिभावानां च चिन्तनम्एतत् त्रितयम् अध्यात्मम् - इत्यपि केषाञ्चन शास्त्रकाराणां मतम् अस्ति । तत्र
१. देवादिवन्दनं - चैत्यवन्दनं नाम स्थान-काल-क्रमादिभिः युक्तः - योग्यस्थानेन योग्यकालेन योग्यक्रमेण च युक्तः सन् एव देवादीनां स्तवनादिकं कुर्यात्, तथा, देवादीनां स्तुत्यर्थम् उच्चार्यमाणेषु शब्देषु एव अवधानयुक्तः स्यात्, अन्येषाम् अनुष्ठानेषु विघ्नः यथा न स्यात् तथैव योग्यस्वरपूर्वकं - मधुरमन्दस्वरपूर्वकम्, श्रद्धासंवेगादिभावभृतहृदयेन, उल्लसद्भावैः च रोमाञ्चितशरीरेण, शुभाशयस्य वृद्धिपूर्वकम्, अवनाम-यथाजातादिभिः मुद्राभिः विशुद्धं देवतादीनां वन्दनं कुर्यात् ।
२. प्रतिक्रमणं नाम
Page #58
--------------------------------------------------------------------------
________________
-
स्वस्थानाद् यत्परस्थानं, प्रमादस्य वशाद् गतः ।
भूयोऽप्यागमनं तत्र, प्रतिक्रमणमुच्यते ॥ __ अत्र स्वस्थानं नाम आत्मरमणता, परस्थानं च नाम पुद्गलरमणता । प्रमादवशात् आत्मभावं त्यक्त्वा पुद्गलभावेषु जीवस्य यत् गमनं भवति ततः प्रतिनिवर्तनम् एव प्रतिक्रमणम् उच्यते । प्रमादवशात् गुप्ति-समिति-गुरुविनयादिषु ये भङ्गादिदोषाः सञ्जाता: यत् च अनाभोगवशात् निषिद्धस्य आसेवनं जातम्- इत्यादीनां प्रायश्चित्तस्य या क्रिया सा प्रतिक्रमणम् । एतत् प्रतिक्रमणं भावशुद्धः परमं कारणम् अस्ति ।।
३. मैत्र्यादिचिन्तनं नाम सामान्येन सर्वेषु अपि जीवेषु मैत्री भावयेत्, तत्र अपि ये गुणाधिकाः जनाः तेषु प्रमोदं भजेत्, ये च दुःखसन्तप्ताः जीवाः तेषु करुणाम् आचरेत्, ये च आत्मानः दुर्बोधाः बोधार्थं वा अयोग्याः तेषु द्वेषरहितं माध्यस्थ्यं धरेत् । एतानि त्रीणि अपि अध्यात्मम् इति उच्यते ।।
देवादिवन्दनं सम्यक्, प्रतिक्रमणमेव च । मैत्र्यादिचिन्तनं चैतत्, सत्त्वादिष्वपरे विदुः ॥३९७॥ स्थानकालक्रमोपेतं, शब्दार्थानुगतं तथा । अन्यासम्मोहजनकं, श्रद्धासंवेगसूचकम् ॥३९८॥ प्रोल्लासदावरोमाञ्चं, वर्धमानशुभाशयम् । अवनामादिसंशुद्ध-मिष्टं देवादिवन्दनम् ॥३९९॥ प्रतिक्रमणमप्येवं, सति दोषे प्रमादतः । तृतीयौषधकल्पत्वाद्, द्विसन्ध्यमथवा सति ॥४००॥ निषिद्धसेवनादि यत्, विषयोऽस्य प्रकीर्तितः । तदेतद्भावसंशुद्धेः, कारणं पमं मतम् ॥४०१॥ मैत्रीप्रमोदकारुण्य-माध्यस्थ्यपरिचिन्तनम् ।
सत्त्वगुणाधिक क्लिश्य-मानाप्रज्ञाप्यगोचरम् ॥४०२॥ एवं च शब्दव्युत्पत्त्या जायमानैः भिन्नः भिन्नैः अर्थैः कृत्वा अध्यात्मम्
Page #59
--------------------------------------------------------------------------
________________
अनेकप्रकारकं भवति । 'आत्मनि अधि इति अध्यात्मम्' - इति अध्यात्मशब्दस्य अर्थः पूर्वोक्तेषु सर्वेषु अपि भेदेषु घटते एव ।
एवं विचित्रमध्यात्म-मेतदन्वर्थयोगतः ।।
आत्मन्यधीति संवृत्ते- यमध्यात्मचिन्तकैः ॥४०४॥ (२) भावनायोगः - एतादृशस्य अध्यात्मयोगस्य प्रतिदिनम्. उत्कर्षस्य अनुभवेन ! सहित: मनःसमाधिना युक्तः पुनः पुनः यः अभ्यासः सः एव भावनायोगः इति उच्यते ।
अनेन भावनायोगेन अशुभकामक्रोधादिविषयकात् अभ्यासात् निवृत्तिः भवति, सा ज्ञानादिविषयके शुभे अभ्यासे च आनुकूल्यं प्राप्यते, सच्चित्तस्य च समुत्कर्षः अपि अनुभूयते ।
अभ्यासोऽस्यैव विज्ञेयः, प्रत्यहं वृद्धिसङ्गतः । मनःसमाधिसंयुक्तः, पौनःपुन्येन भावना ॥३६०॥ निवृत्तिरशुभाभ्यासा-च्छुभाभ्यासानुकूलता ।
तथा सुचित्तवृद्धिश्च, भावनायाः फलं मतम् ॥३६१॥ (३) ध्यानयोगः - कस्मिंश्चित् अपि एकस्मिन् शुभे विषये-यत्र रागः वा । द्वेषः वा न जायेत तादृशे विषये चित्तस्य यत् ऐकाग्यं तत् एव ध्यानम् इति कथ्यते। अत्र च विषये चित्तं स्थिरप्रदीपोपमम् एकाग्रं भवति, आलम्बनीभूतस्य च वस्तुनः उत्पाद-व्यय-ध्रौव्यरूपेण सूक्ष्मचिन्तनेन संयुक्तं च अपि भवति ।
सर्वेषु अपि कार्येषु स्वाधीनत्वम्, भावानां स्थैर्यम्, भवपरम्परावर्धकानां कर्मणाम् अनुबन्धस्य व्यवच्छेदः च इत्येतानि फलानि ध्यानयोगस्य ।
शुभैकालम्बनं चित्तं, ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं, सूक्ष्मयोगसमन्वितम् ॥३६२॥ वशिता चैव सर्वत्र, भावस्तैमित्यमेव च ।
अनुबन्धव्यवच्छेद, उदोऽस्येति तद्विदः ॥३६३॥ (४) समतायोगः - मनसः इन्द्रियाणां च इष्टानिष्टेषु शब्दादिविषयेषु ये .
For Private BE
Page #60
--------------------------------------------------------------------------
________________
HOME
रागद्वेषादिभावाः उत्पद्यन्ते तत्र अनादिवितथवासनारूपायाः अविद्यायाः उत्पद्यमानाः विकल्पाः एव कारणम् । यदा च शब्दादिविषयाणां सम्यग्ज्ञानं जायते तदा च इष्टानिष्टानां वस्तूनां परिहारेण तत्र वस्तुषु यत् तुल्यताभानं जायते तदेव समतायोगः ।
एषः समतायोगः यदा सिद्ध: भवति तदा ऋद्धिसिद्धिलब्ध्यादीनाम् उपयोगे विरक्तिः जायते, आत्मनः मूलभूतानां ज्ञानदर्शनादिगुणानाम् आवरकाणि यानि सूक्ष्मकर्माणि तेषां क्षयः भवति, चित्ते प्रवर्तमानाया: इच्छायाः परम्परायाः विच्छेदः भवति । एतानि फलानि सन्ति समतायोगस्य सिद्धेः ।
अविद्याकल्पितेषूच्चै - रिष्टानिष्टेषु वस्तुषु ।
संज्ञानात् तद्वयुदासेन, समता समतोच्यते ॥ ३६४ ॥ ऋद्ध्यपवर्तनं चैव, सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः, फलमस्याः प्रचक्षते ॥ ३६५॥
(५) वृत्तिसंक्षययोगः - मूलभूतरीत्या - निश्चयनयदृष्ट्या तु आत्मा विकल्पादितरङ्गैः मुक्तः अस्ति । एवं सत्यपि तादृशानां मनोद्रव्याणां संयोगेन विकल्पवृत्तिः शरीरादियोगेन च परिस्पन्दवृत्तिः दृश्यते । एतासां विकल्पवृत्तीनां केवलज्ञानप्राप्तिकाले तथा परिस्पन्दवृत्तीनां च अयोगिकेवल्यवस्थायां पुनः यथा न स्युः तथा यः निरोधः भवति सः वृत्तिसंक्षययोगः इति उच्यते ।
अनेन च वृत्तिसंक्षययोगेन कैवल्यप्राप्तिः जायते, शैलेश्यवस्था च प्राप्यते । अत्र शीलं नाम मनोवाक्कायानां सर्वयोगानां संवरः निरोधः वा, तस्य यः स्वामी सः शीलेशः, तस्य च या अवस्था सा शैलेश्यवस्था सा अवस्था प्राप्यते, तथा सदैव आनन्ददायिनी च मोक्षप्राप्तिः अपि निराबाधं भवति ।
अन्यत् च शैलेश्यभिधानस्यः समाधेः सकलकर्मणां यः क्षयः भवति सः एव वृत्तिसंक्षययोगः अस्ति । सः च योगेषु नृपतितुल्य: गण्यते ।
अन्यसंयोगवृत्तीनां, यो निरोधस्तथा तथा । अपुनर्भावरूपेण, स तु तत्संक्षयो मतः ॥ ३६६॥
४७
Page #61
--------------------------------------------------------------------------
________________
MAN
NANCY
अतोऽपि केवलज्ञानं, शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा, सदानन्दविधायिनी ॥३६७॥ शैलेशीसंज्ञिताच्चेह, समाधिरुपजायते ।।
कृत्सकर्मक्षयः सोऽयं, गीयते वृत्तिसंक्षयः ॥४९५॥ वृत्तिसंक्षययोगस्य विशेषवर्णनम् -
भावना-ध्यान-समतारूपाणां योगत्रयाणाम् अभ्यासेन वृत्तिसंक्षययोगः प्राप्यते । आत्मनि कर्मसंयोगस्य या योग्यता विद्यते तस्याः व्यवच्छेदः अस्ति वृत्तिसंक्षयस्य अर्थः । आत्मनि वर्तमानाः याः कर्मसंयोगजन्याः स्थूलाः सूक्ष्मा: च चेष्टा: ता: वृत्तयः इति उच्यन्ते । तासां मूलम् अस्ति एषा योग्यता । एषा योग्यता एव भवमाता अस्ति। अन्यसंयोगाः अपि अतः कारणात् एव उत्पद्यन्ते ।
__ योग्यतायाः अभावे अपि यदि अन्यसंयोगः स्वीक्रियते तर्हि तत्र अतिप्रसङ्गः भवति । यतः ये जीवाः मोक्षं प्राप्ताः-सिद्धा: जाताः, ते तादृश्याः योग्यतायाः अभावात् एव न पुनः कर्माणि बध्नन्ति । अतः यदि 'योग्यताभावे अपि अन्यसंयोगः भवति' - इति स्वीक्रियते तर्हि तेषाम् अपि कर्मसंयोगः स्वीकरणीयः भविष्यति । यत् तु न सम्मतम् इष्टं वा कस्य अपि ।
___ यथा वृक्षस्य स्कन्ध-शाखा-प्रशाखादीनां नाशेन पल्लवफलादीनाम् अपुनर्भावः न भवति किन्तु मूलोच्छेदेन एव भवति तथैव भववृक्षस्य अपि योग्यतारूपस्य मूलस्य उच्छेदेन एव विचित्रवृत्यादिरूपाणां पल्लवादीनाम् अपुनर्भावः भवति । सः एव च उच्छेदः वृत्तिसंक्षययोगः अस्ति ।
भावनादित्रयाभ्यासाद्, वर्णितो वृत्तिसंक्षयः । स चाऽऽत्मकर्मसंयोग-योग्यतापगमोऽर्थतः ॥४०५॥ स्थूलसूक्ष्मा यतश्चेष्टा, आत्मनो वृत्तयो मताः । अन्यसंयोगजाश्चैता, योग्यता बीजमस्य तु ॥४०६॥ तदभावेऽपि तद्भावो, युक्तो नाऽतिप्रसङ्गतः । मुख्यैषा भवमातेति, तदस्या अयमुत्तमः ॥४०७॥
४८
Page #62
--------------------------------------------------------------------------
________________
पल्लवाद्यपुनर्भावो, न स्कन्धापगमे तरोः । स्यान्मूलापगमे यद्वत्, तद्वद् भवतरोरपि ॥४०८॥ मूलं च योग्यता ह्यस्य, विज्ञेयोदितलक्षणा ।
पल्लवा वृत्तयश्चित्रा, हन्त तत्त्वमिदं परम् ॥४०९॥ अध्यात्मादिषु पञ्चसु अपि योगभेदेषु तात्त्विकातात्त्विकादिभेदानां सङ्घटनम्
___ तात्त्विकातात्त्विकभेदौ - अध्यात्म भावना च इत्येतौ योगौ व्यावहारिकनयम् आश्रित्य तन्नाम कारणे कार्योपचारम् आश्रित्य अपुनर्बन्धकसम्यग्दृष्टिजीवानां तात्त्विको भवतः किन्तु निश्चयनयदृष्ट्या तु चारित्रवताम् एव एतौ तात्त्विको भवतः ।
सकृद्बन्धक-द्विर्बन्धकादिजीवानां तु द्वौ अपि एतौ योगौ निश्चयनयेन व्यवहारनयेन चाऽपि अतात्त्विको एव भवतः, यतः तादृशानां जीवानाम् आत्मपरिणामः न तादृशः निर्मलः वर्तते । अतः वेषग्रहणादिका तस्य चेष्टा अपि केवलं श्रद्धाशून्यक्रियामात्रं भवति ।
ध्यानं समता वृत्तिसंक्षयः च इति योगाः यथोत्तरं शुद्धिम् अपेक्ष्य चारित्रिणाम् एव नियमेन तात्त्विकाः एव भवन्ति, न अन्येषाम् ।
अपुनर्बन्धकस्याऽयं, व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ॥३६९॥ सकृदावर्तनादीना-मतात्त्विक उदाहृतः । प्रत्यपायफलप्राय-स्तथा वेषादिमात्रतः ॥३७०॥ चारित्रिणस्तु विज्ञेयः, शुद्ध्यपेक्षो यथोत्तम् ।
ध्यानादिरूपो नियमात्, तथा तात्त्विक एव तु ॥३७१॥
सानुबन्धनिरनुबन्धभेदौ - उपर्युक्तानां योगानां धारकः जीव: यदि अनपाय:तन्नाम योगार्थं बाधकैः क्लिष्टकर्मभिः रहितः-स्यात् तस्य एते योगाः सानु । भवन्ति । यः च जीव: योगबाधकक्लिष्टकर्मभिः युक्तः भवति तस्य एते योगा: निरनुबन्धाः भवन्ति।
doot
Page #63
--------------------------------------------------------------------------
________________
अपायः नाम पूर्वस्मिन् काले उपार्जितानि नानाविधानि अवश्यभोग्यानि चित्ते च पापवृत्त्युत्पादकानि कर्माणि । तानि एव अपायभूतानि सन्ति ।
अत्र मतान्तरं दर्शयति मोक्षमार्गे प्रवृत्तानाम् आत्मनां ये कण्टक- ज्वरमोहतुल्याः विघ्नाः सन्ति ते एव अपाया: इति ।
-
यथा स्वेष्टस्थानगमनप्रवृत्तानां केषाञ्चित् जनानां मार्गे कण्टकाः विलगन्ति केचित् तु ज्वरग्रस्ताः भवन्ति, केचित् च दिग्भ्रान्त्या अन्यस्यां दिशि गच्छन्ति । एवं च इष्टस्थानप्राप्तौ अनुक्रमेण स्तोकस्य बहोः बहुतरस्य च कालस्य विलम्बः भवति । तथैव योगमार्गप्रवृत्तानाम् अपि विचित्रकर्मोदयात् जघन्य -- मध्यमो - त्कृष्टस्वरूपाः त्रिप्रकाराः विघ्नाः जायन्ते । एते विघ्नाः एव अपायाः इति उच्यन्ते ।
अस्यैव त्वनपायस्य, सानुबन्धस्तथा स्मृतः । यथोदितक्रमेणैव, सापायस्य तथाऽपरः ॥३७२॥ अपायमाहुः कर्मैव, निरपायाः पुरातनम् । पापाशयकरं चित्रं, निरुपक्रमसंज्ञकम् ॥ ३७३ ॥ कण्टक ज्वरमोहैस्तु, समो विघ्नः प्रकीर्तितः । मोक्षमार्गप्रवृत्ताना- मत एवाऽपरैरपि ॥ ३७४ ॥
सास्त्रवानास्त्रवभेदौ – अपाययुक्तानां योगिनाम् अनेकभवपरम्परायाः कारणरूपः सास्त्रवयोगः भवति । यतः निरुपक्रमकर्माणि पापाशयकराणि च कर्माणि अवश्यं भोक्तव्यानि भवन्ति । यत्र च प्रवर्तमानः एकः एव भवः अस्ति सः अनास्त्रवयोगः इति उच्यते ।
आस्रवस्य कर्मबन्धहेतुत्वात् सः अपि बन्धः एव । सः च बन्धः साम्परायिकबन्धः इति कथ्यते । साम्परायिकबन्धः नाम कषायनिमित्तैः जायमानः बन्धः । अतः एव च आस्रवस्य साम्परायिकबन्धः इति अर्थः अपि सङ्गतः एव ।
ये च चरमशरीरिण: जीवाः तेषु कषायाणाम् अभावात् अन्येषाम् आस्रवाणाम् अपि अभावः अस्ति । अतः च तेषाम् अनास्रवयोगः भवति ।
५०
Page #64
--------------------------------------------------------------------------
________________
-
ननु कर्मबन्धस्य चत्वारः हेतवः सन्ति - मिथ्यात्वम् अविरतिः कषायाः योगाः च इति । अथ यद्यपि चरमशरीरिणाम् आत्मनां मिथ्यात्वाविरतिकषायरूपाणां त्रयाणां हेतूनां नाशः सञ्जातः एव तथाऽपि योगरूपः चतुर्थः हेतुः तु तेषाम् अपि विद्यते एव, अतः एव च तन्निमित्तकः कर्मबन्धः अपि भवति एव । तर्हि 'तेषाम् अनास्रवयोगः अस्ति' - इति कथं वक्तुं शक्यते ?
सत्यम् । निश्चयनयमतेन तु सर्वथा अयोगिकेवलिनाम् एव अनास्रवयोगः भवति । एवं सत्यपि सयोगिकेवलिनां यः योगः अस्ति सः निश्चययोगस्य कारणम् अस्ति । अतः सः अपि अनास्रवयोगः एव इति न कश्चित् दोषः ।
अस्यैव सासवः प्रोक्तो, बहुजन्मान्तरावहः । पूर्वव्यावर्णितन्याया-देक्जन्मा त्वनासवः ॥३७५॥ आस्रवो बन्धहेतुत्वाद्, बन्ध एवेह यन्मतः । स साम्परायिको मुख्य-स्तदेषोऽर्थोऽस्य सङ्गतः ॥३७६॥ एवं चरमदेहस्य, सम्परायवियोगतः । इत्वरावभावेऽपि, स तथाऽनासवो मतः ॥३७७॥ निश्चयेनाऽत्र शब्दार्थः, सर्वत्र व्यवहारतः ।
निश्चयव्यवहारौ च, द्वावप्यभिमतार्थदौ ॥३७८॥ योगस्य अन्यत् स्वरूपम् -
विधा शुद्धमनुष्ठानं, सच्छास्त्रपरतत्रता ।
सम्यक्प्रत्ययवृत्तिश्च, तथाऽत्रैव प्रचक्षते ॥१०॥ त्रिभिः प्रकारैः शुद्धम् अनुष्ठानम्, सच्छास्रपारतन्त्र्यम्, सम्यक्प्रत्ययवृत्तिः च इति त्रिप्रकारकः अपि योगः भवति । तत्र
(१) त्रिधा शुद्धम् अनुष्ठानम् - विषयशुद्धम् अनुष्ठानम्, स्वरूपशुद्धम् अनुष्ठानम्, अनुबन्धशुद्धम् अनुष्ठानं च इति त्रिभिः प्रकारैः शुद्धम् अनुष्ठानं वर्ण्यते । एते त्रयः अपि प्रकाराः उत्तरोत्तरम् अन्यस्मात् अन्यस्मात् प्राधान्येन वर्तन्ते । तन्नाम विषयशुद्धानुष्ठानात्
५१
Page #65
--------------------------------------------------------------------------
________________
And
स्वरूपशुद्धानुष्ठानं श्रेष्ठं प्रधानं वा, स्वरूपशुद्धानुष्ठानात् च अनुबन्धशुद्धानुष्ठानं श्रेष्ठं प्रधानं वा । तत्र
'अनेन अनुष्ठानेन मम मुक्तिः भवतु' - इत्येवंरूपेण अभिलाषेण मोक्षं लक्षीकृत्य या पतन-शस्त्रपाटन-गृध्रपृष्ठार्पणादिका स्वघातोपायस्वरूपा क्रिया क्रियते सा विषयशुद्धानुष्ठानम् । विषयः नाम लक्ष्यम्, तत् यत्र शुद्धं तत् विषयशुद्धम् अनुष्ठानम् । अत्र पतनादिरूपेण स्वघातादिक्रिया अपि मुक्तेः अभिलाषेण एव क्रियते अतः सा अपि विषयशुद्धानुष्ठानम् इति उच्यते । एतत् अनुष्ठानं न स्वरूपतः शुद्धम्, यतः तत्र आत्मघातस्य प्रवृत्तित्वात् तत् पापस्वरूपम् अनुष्ठानम् अस्ति ।
लोकव्यवहारम् आश्रित्य यत् यमनियमादीनां पालनं क्रियते तत् स्वरूपशुद्धम् अनुष्ठानं भवति । लोकाचारात् एव क्रियमाणत्वात् सम्यग्ज्ञानस्य सम्यक्श्रद्धानस्य च अभावात् एतत् यमनियमादीनां पालनं न शास्त्रानुसारि भवति ।
एतत् एव उपर्युक्तं यमनियमादीनां पालनं यदा तत्त्वसंवेदनेन-जीवादितत्त्वानां सम्यग्ज्ञानेन, अत्यन्तम् औत्सुक्यरहितं, प्रशान्तवृत्त्या च भवति तदा तदेव अनुबन्धशुद्धानुष्ठानम् इति उच्यते ।
विषयात्मानुबन्धैस्तु, त्रिधा शुद्धमुदाहृतम् । अनुष्ठानं प्रधानत्वं, ज्ञेयमस्य यथोत्तम् ॥२११॥ आद्यं यदेव मुक्त्यर्थं, क्रियते पतनाद्यपि । तदेव मुक्त्युपादेय-लेशभावाच्छुभं मतम् ॥२१२॥ द्वितीयं तु यमाद्येव, लोकदृष्ट्या व्यवस्थितम् । न यथाशास्त्रमेवेह, सम्यग्ज्ञानाद्ययोगतः ॥२१३॥ तृतीयमप्यद: किन्तु, तत्त्वसंवेदनानुगम् ।
प्रशान्तवृत्त्या सर्वत्र, दृढमौत्सुक्यवर्जितम् ॥२१४॥ त्रयाणाम् अनुष्ठानानां फलम्
- (अ) केवलेन विषयशुद्धानुष्ठानेन मोक्षबाधकानां दोषाणां नाशः न भवति एव।।
५२
Page #66
--------------------------------------------------------------------------
________________
यतः तत्र अज्ञानस्य बाहुल्यं वर्तते । आत्मघातादिकं तु अज्ञानतायाः एव लक्षणम् अस्ति । एवं सत्यपि अनेन विषयशुद्धानुष्ठानेन मोक्षबाधकदोषाणां विगमः यत्र भवेत् तादृशं जातिकुलादिसहितं जन्म तत्कर्तारः प्राप्नुवन्ति इति केषाञ्चित् शास्त्रकाराणां मतम् अस्ति ।
मोक्षप्राप्तेः इच्छा अपि प्रशंसनीया अस्ति । यतः तादृशी इच्छा अपि मोहनाशकर्त्री भवति । अतः एव मुक्तिः तु सर्वकल्याणरूपा अस्ति । एतत् अनुष्ठानं तु पापस्वरूपत्वात् तत्र अत्यन्तं वैसदृश्यं वर्तते । अतः च अत्यन्तं पापस्वरूपम् एतत् अनुष्ठानं सर्वथा दोषरहितायाः मुक्तेः कारणं न भवति । ततः च दोषविगमः न भवति । आद्यान्न दोषविगम - स्तमोबाहुल्ययोगतः । तद्योग्यजन्मसन्धान - मत एके प्रचक्षते ॥२१५॥
मुक्ताविच्छाsपि यच्छ्लाघ्या, तमः क्षयकरी मता । तस्याः समन्तभद्रत्वा-दनिदर्शनमित्यदः ॥२१६॥
(ब) द्वितीयेन स्वरूपशुद्धेन अनुष्ठानेन तु दोषाणां ह्रासः यद्यपि भवति तथाऽपि न सः सानुबन्धः भवति । अर्थात् विनष्टानां दोषाणां पुनः उद्भवनं यथा न स्यात् तथा दोषहासः न भवति । यथा भस्मसात्कृतात् मण्डूकचूर्णात् मण्डूकानाम् उत्पत्तिः न भवति किन्तु केवलात् चूर्णात् तु निमित्तसंयोगे सति उत्पत्तिः भवति एव, तथैव अनेन स्वरूपशुद्धानुष्ठानेन यः दोषक्षयः भवति सः अदग्धमण्डूकचूर्णतुल्यः भवति; अतः एव च निमित्तसंयोगे पुनरपि दोषाः प्रादुर्भवन्ति । निश्चयेन अत्र गुरुलाघवादिचिन्ता न विद्यते । अर्थात् केन गुणेन अधिकलाभः जायते केन च अल्पलाभः जायते, केन दोषेण अधिकहानिः केन च अल्पहानिः भवति इत्यादिका चिन्ता- विचारणा एव अत्र अनुष्ठाने न विद्यते । तथाविधविवेकाभावात् च कायिकी चेष्टा एव भवति । अत: च आत्यन्तिकः दोषविगमः न भवति । उक्तं च
-
-
“कायकिरियाए दोसा, खविया मण्डुक्कचुण्णतुल्लति । सव्वावणए ते पुण, नेया तच्छारसारिच्छा ॥” इति
१. कायक्रियया दोषाः क्षपिता मण्डूकचूर्णतुल्या इति । सर्वापनये ते पुन- - ज्ञेयाः तत्क्षारसदृशाः ॥
५३
Page #67
--------------------------------------------------------------------------
________________
द्वितीयाद् दोषविगमो, न त्वेकान्तानुबन्धनात् ।
गुरुलाघवचिन्तादि, न यत्तत्र नियोगतः ॥२१७॥ (क) तृतीयेन अनुबन्धशुद्धेन अनुष्ठानेन तु निश्चयतः सानुबन्धः दोषविगमः भवति । अन्ये अपि तीर्थान्तरीयाः एवं सानुबन्धदोषानाशं देवगृहादीनां दृढमूलतुल्यं वर्णयन्ति । यथा प्रथमं यदि गृहस्य मूलं दृढं कृतं स्यात् तर्हि तदुपरि रचितं भवनादिकं न नश्यति किन्तु दीर्घकालं यावत् सुरक्षितं स्थिरं च तिष्ठति तथैव च तत्त्वसंवेदनेन युक्तम् अनुष्ठानम् अपि उत्तरोत्तरं दोषनाशाय भवति ।
एतत् अनुष्ठानं गुरुलाघवादिचिन्तया युक्तं भवति । अतः एव च उदारफलदायकं सम्पद्यते । गुरुलाघवादिचिन्तया क्रियमाणा सर्वा अपि प्रवृत्तिः सर्वत्र महोदयाय एव भवति ।
तृतीयाद् दोषविगमः सानुबन्धो नियोगतः । गृहाद्यभूमिकापात-तुल्यः कैश्चिदुदाहृतः ॥२१९॥ एतद् व्युदग्रफलदं, गुरुलाघवचिन्तया ।
अतः प्रवृत्तिः सर्वैव, सदैव हि महोदया ॥२२०॥ (२) सच्छास्त्रपारतन्त्र्यम् - (अत्यन्तं सरलया शैल्या तथाऽपि दृढतया अत्र शास्त्रस्य महिमा तत्पारतन्त्र्यं च वर्णिते स्तः ।) परलोकस्य साधनायै तु शास्त्रम् एव एकम् आलम्बनम् । स्वमतिकल्पनया लोकहेर्या वा कृता क्रिया न कदापि हिताय भवति । पापरोगनाशकम् औषधम् अपि शास्त्रम् एव अस्ति । अज्ञानरूपस्य अन्धत्वस्य निवारकं चक्षुरपि शास्त्रम् एव । शास्त्रेणैव च सर्वार्थसिद्धिः भवति । अतः एव च शास्त्रे यत्नः अवश्यं विधेयः, यत: मोहस्य अन्धतमसं निवारयितुं शास्त्रम् एव आलोकः अस्ति । शास्त्रं प्रति आदरेण एव च धर्मक्रियाः अपि यथार्थफलदायिन्यः भवन्ति । यतः यस्य शास्त्रे आदरः अस्ति तादृशः श्राद्धः जनः अहङ्कारहितः भवति, गुणरागी भवति, तथा तस्य हृदये पूज्येषु बहुमानं प्रवर्तते । ततः च तस्य धर्मक्रिया अपि प्रकृष्टा गण्यते । यस्य च शास्त्रे अनादरः अस्ति तस्मिन् जने श्रद्धादयः गुणाः प्रायः न भवन्ति, कदाचित् स्युः अपि ते गुणाः तर्हि ग्रहाविष्टजनस्य उन्मादैः तुल्या: भवन्ति, ये च न प्रशंसास्पदाः
Page #68
--------------------------------------------------------------------------
________________
भवन्ति । अतः अन्तःकरणस्य शुद्ध्यर्थं शास्त्रजलस्य आसेवनम् अवश्यं कर्तव्यम् । एषा शास्त्रभक्तिः एव 'मुक्तेः दूती' इति उच्यते ।
परलोकविधौ शास्त्रात्, प्रायो नाऽन्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥२२१॥ उपदेशं विनाऽप्यर्थ-कामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रा-दिति तत्राऽऽदरो हितः ॥२२२॥ अर्थादावविधानेऽपि, तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात् परः ॥२२३॥ तस्मात् सदैव धर्मार्थी, शास्त्रयनः प्रशस्यते । लोके मोहन्धकारेऽरिमन्, शास्त्रालोकः प्रवर्तकः ॥२२४॥ पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥२२५॥ न यस्य भक्तिरेतरिम-स्तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥२२६॥ यः श्राद्धो मन्यते मान्या-नहङ्कारविवर्जितः ।। गुणरागी महाभाग-स्तस्य धर्मक्रिया पर ॥२२७॥ यस्य त्वनादर: शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वा-न्न प्रशंसास्पदं सताम् ॥२२८॥ मलिनस्य यथाऽत्यन्तं, जलं वस्त्रस्य शोधनम् । अन्तःकरणरनस्य, तथा शास्त्रं विदुर्बुधाः ॥२२९॥ शास्त्रे भक्तिर्जगद्वन्द्यै-मुक्तेफ़्ती परोदिता । अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः ॥२३०॥
(३) सम्यक्प्रत्ययवृत्तिः - प्रत्ययः नाम अभिलषितसिद्धेः संसूचकं चिह्नम्।। तादृशः प्रत्ययः त्रिविधः भवति - आत्मप्रत्ययः, गुरुप्रत्ययः, लिङ्गप्रत्ययः च इति ।
ՆՆ
For Private
Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
सदनुष्ठानम् आरम्भकः पुरुषः तदनुष्ठानस्य अभिलाषी स्यात् इति आत्मप्रत्ययः, गुरुः अपि तस्मै तथाविधम् एव उपदेशं दद्यात् इति गुरुप्रत्ययः, तथा अनुष्ठानस्य आरम्भकाले मङ्गलवाद्य-शङ्खादीनां ध्वन्यादीनि मङ्गलानि रचितानि स्युः इति लिङ्गप्रत्ययः । एतत् सर्वम् अपि सहजम् एव स्यात् । एतेषां प्रत्ययानां सद्भावे सम्पूर्णसिद्धिः प्राप्यते । अर्थात् एषः त्रिविधः प्रत्ययः तु सम्पूर्णसिद्धेः साधनम् अस्ति ।
या सिद्धिः अन्यसिद्धेः अवन्ध्यबीजरूपा भवति सा एव ऐकान्तिकी सिद्धिः इति उच्यते । या च सिद्धिः अन्यस्याः सिद्धेः कारणं न भवति सा तु पातशक्तियुक्तत्वात् अवश्यं पतति । अतः च पातशक्तियुक्ता तादृशी सिद्धिः अपि तत्त्वतस्तु पतनम् एव, न सिद्धिः । सिद्धयन्तरस्य हेतूनां संयोगात् सिद्धिः पातरहिता ऐकान्तिकी भवति । एतादृशी च ऐकान्तिकी सिद्धिः तु नियमेन आत्मादिप्रत्यययुक्ता भवति । यतः एते प्रत्ययाः एव अन्यसिद्धीनाम् अवन्ध्यकारणरूपाः सन्ति । अतः एव च योगमार्गे एतादृश्याः एकान्तिक्याः सिद्धेः अभिलाषुकैः आत्मादिप्रत्ययेषु तत्परैः भवितव्यम् । यत् वस्तु येन उपायेन साध्यं स्यात् तत् अन्यैः उपायैः हठात् अपि सिद्धं न भवति । यथा घटस्य उपादानकारणेन पटस्य उत्पत्तिः न भवति तथा आत्मादिप्रत्ययरहितया प्रवृत्त्या योगे ऐकान्तिकी सिद्धिः न भवति ।
अन्ये योगिनः अपि एतान् आत्मादिप्रत्ययान् सिद्धिदूतान् सिद्धिगतिप्राप्त्यर्थं च हस्तावलम्बनानि इव वर्णयन्ति । अतः चैव सानुबन्धयोगारम्भकः जनः आत्मादिप्रत्ययं निश्चयेन अपेक्षते एव । अर्थात् आत्मादिप्रत्ययम् अवलम्बते एव । अन्ये ये तत्त्वज्ञानरहिततया केवलं कर्मवशेन विषयशुद्ध स्वरूपशुद्धे वा अनुष्ठाने प्रवर्तन्ते ते न एतान् आलम्बन्ते ।
तथाऽऽत्मगुणलिङ्गानि, प्रत्ययस्त्रिविधो मतः । सर्वत्र सदनुष्ठाने, योगमार्गे विशेषतः ॥२३१॥ आत्मा तदभिलाषी स्याद्, गुरुराह तदेव तु । तल्लिङ्गोपनिपातश्च, सम्पूर्णं सिद्धिसाधनम् ॥२३२॥ सिद्ध्यन्तरस्य सदीजं, या सा सिद्धिरिहोच्यते । ऐकान्तिक्यन्यथा नैव, पातशक्त्यनुवेधतः ॥२३३॥
५६
Page #70
--------------------------------------------------------------------------
________________
सिद्ध्यन्तरं न सन्धत्ते, या साऽवश्यं पतत्यतः । तच्छक्त्याऽप्यनुविद्धैव, पातोऽसौ तत्त्वतो मतः ॥२३४॥ सिद्धयन्तराङ्गसंयोगात्, साध्वी चैकान्तिकी भृशम् ।
आत्मादिप्रत्ययोपेता, तदेषा नियमेन तु ॥२३५॥ न ह्युपायान्तरोपेय-मुपायान्तरतोऽपि हि । हाठिकानामपि यत-स्तत्प्रत्ययपरो भवेत् ॥२३६॥ पठितः सिद्धिदूतोऽयं, प्रत्ययो ह्यत एव हि । सिद्धिहस्तावलम्बश्च, तथाऽन्यैर्मुख्ययोगिभिः ॥२३७॥ अपेक्षते ध्रुवं ह्येनं, सद्योगारम्भक स्तु यः ।
नाऽन्यः प्रवर्तमानोऽपि, तत्र दैवनियोगतः ॥२३८॥ योगस्य उपायाः -
किमपि कार्यं कर्तुं तस्य उपायाः भवन्ति । तान् उपायान् आश्रित्य एव कृतं कार्यं सिद्धं भवति । एवमेव च योगमार्गस्य कृते अपि उपायाः सन्ति । तैः एव उपायैः योगस्य सिद्धिः भवति ।
योगप्राप्तेः सामान्यः उपायः अस्ति योग्यता । योग्यतया एव आकृष्य प्रवर्तमानाः अध्यात्मादियोगाः तात्त्विकयोगाः भवन्ति ।
___ योगस्य विशेषोपायाः षड् सन्ति- उत्साहः, निश्चयः, धैर्यम्, सन्तोषः, तत्त्वदर्शनम्, जनपदत्यागः च । एभिः षड्भिः एव योगिनः योगसिद्धिं लभन्ते । तत्र-प्रथमम् उत्साहः आवश्यकः । उत्साहः नाम वीर्योल्लासः । उत्साहं विना प्रारब्धं कार्यं कदाचित् अपूर्णम् तिष्ठति, कदाचित् च अल्पफलम् एव भवति । तदनु च अस्ति निश्चयः । निश्चयः नाम सङ्कल्पिते कार्य सम्पूर्णः एकाग्रभावः । ऐकाग्यरहितः उत्साहः दीर्घं न सन्तिष्ठते । ततः च साफल्यम् अपि प्राप्तुं न शक्यते । तृतीयम् अस्ति धैर्यम् । आपत्तिषु अपि प्रतिज्ञातः अविचलनं नाम धैर्यम् । श्रेयस्करेषु कार्येषु विघ्नप्राचुर्यं भवति एव 'श्रेयांसि बहुविघ्नानि' इति न्यायात् । एवं च विघ्ने सत्यपि ऐकाग्यभङ्गः न स्यात् तदेव वास्तवं धैर्यम् । एतादृशा धैर्येण विना उत्साहः निश्चयः च पङ्ग गण्यते । चतुर्थः उपायः अस्ति
Page #71
--------------------------------------------------------------------------
________________
ANNA
सन्तोषः । बाह्यपदार्थानां परिस्थितीनां वा आनुकूल्ये प्रातिकूल्ये च लालसायाः उद्वेगस्य च अभावः नाम सन्तोषः । केवलम् आत्मरमणता एव तत्र विद्यते । सन्तोषाभावे चित्तं सततं विक्षिप्तं वर्तते यत् च एकाग्रतायां बाधकम् अस्ति । सन्तोषात् अनु तत्त्वदर्शनम् अस्ति । 'योगः एव परमार्थः' इति समालोचनं नाम तत्त्वदर्शनम् । परमार्थबुद्ध्या यावत् योगनिश्चयः न भवति, न तावत् उत्साहादि जायते । ततः च योगप्रवृत्तिः अपि अन्ततोगत्वा कायिकी चेष्टा वा क्लेशरूपा वा सम्पद्यते । अथ अन्तिमः उपायः अस्ति जनपदत्यागः तन्नाम सांसारिकस्य लौकिकस्य च व्यवहारस्य त्यागः, यतः योगः तु आत्मिकव्यापाररूपः अस्ति । आत्मिकव्यवहारे प्रवृत्तेन आत्मना लौकिकव्यवहारात् दूरेण भवितव्यम् । यतः लोकव्यवहारः तु आत्मिकव्यवहारे बाधकः अस्ति। सातत्यं विना योग: सिद्धः न भवति । लोकव्यवहारे च प्रवृत्तानां तु सातत्यं न सम्भवति । एवं च योगप्रवृत्तिः अपि निष्फला भवति । अतः च जनपदत्यागः कर्तव्यः एव । एभिः षड्भिः उपायैः योगसिद्धिः अवश्यं भवति ।।
उपायोपगमे चाऽस्या, एतदाक्षिप्त एव हि ।। तत्त्वतोऽधिकृतो योग, उत्साहादिस्तथाऽस्य तु ॥४१०॥ उत्साहान्निश्चयाद् धैर्यात्, सन्तोषात् तत्त्वदर्शनात् ।
मुनेर्जनपदत्यागात्, षड्भिोगः प्रसिद्ध्यति ॥४११॥ योगनिश्चयस्य उपायाः -
प्राप्तः योगः भावयोगः अस्ति न वा इत्यस्य निर्णयार्थं त्रीणि साधनानि सन्तिआगमः अनुमानं ध्यानाभ्यासः च इति । आगमः नाम योगं ज्ञापकानि शास्त्राणि । अनुमानं नाम योगस्य यथार्थरूपेण सङ्घटनार्थं तर्कवितर्कादि चिन्तनम् । ध्यानाभ्यासः नाम पुनः पुनः तस्य अभ्यासः ।
आगमन भावयोगस्य निर्णयः श्रद्धया भवति । श्रद्धया जायमानः निर्णय यावत् न बुद्धिगम्यः भवति तावत् योगस्य सम्यग्बोधः न जायते । अतः च अनुमाने बुद्ध्यनुसन्धानेन सद्बोधः जागृतः भवति । एतादृशि बोधे जाते सति तस्य स्वानुभूत्यर्थं पुनः पुनः परिशीलनम् आवश्यकम् । तत् च ध्यानाभ्यासेन भवति ।
wationa
LERS
Page #72
--------------------------------------------------------------------------
________________
Hansar
"आत्मा अस्ति । आत्मनः भिन्नं कर्म अपि अस्ति । आत्मनः कर्मणां च वययपिण्डसदृशः सम्बन्धः अपि अस्ति । तादृश सम्बन्धः अपि सहेतुकः एव अस्ति, न निर्हेतुकः । अनेन सम्बन्धेन शुभाशुभं फलम् अपि भवति । एषां कर्मणाम् आत्मना सह वियोगः अपि भवति एव । एषः वियोगः अपि हेतुयोगेन एव भवति न स्वतः । एतत् सर्वम् अपि आत्मनः कर्मणां च तथास्वभावत्वात् एव सङ्घटते, न अन्यथा । यदि तथास्वभावः न स्वीक्रियते तर्हि संयोग-वियोग-शुभाशुभफलादिपरिणामाः न उत्पद्यन्ते । एतादृक्परिणामाभावे च पुरुषार्थः अपि सफलः न स्यात् । अतः एव तथास्वभावस्य स्वीकारे एव योगमार्गादिषु कृतः पुरुषार्थः सफल भवति । अन्यथा पुरुषार्थः न्यायसङ्गतिम् अगच्छन्, भवन् अपि प्रशस्तः न गण्यते । यथा, मुद्गकङ्कटुकेषु सिद्धेः स्वभावाभावः अस्ति, एवं सन् अपि यः तत्र पुरुषार्थं करोति तस्य तादृशः पुरुषार्थः प्रशस्यः अपि न भवति, आदरणीयः अपि न भवति । तथैव यदि आत्मादीनां तादृशः स्वभावः न स्यात् तर्हि तस्य मुक्त्यर्थं योगमार्गेण कृतः पुरुषार्थः अपि अज्ञानजन्यत्वात् निष्फलत्वात् । च प्रशस्यः न भवति । अतः च एतादृशस्वभावस्वीकारे एव सर्वं समञ्जसं भवति ।" - एतेन एतादृशेन च सतर्कचिन्तनेन परिशीलनेन च योगमार्गस्य सम्यग्बोधः भवति । स्वयं च यत् आचरति तत् भावयोगः अस्ति न वा इत्यस्य निश्चयः अपि भवति ।
आगमेनाऽनुमानेन, ध्यानाभ्यासरसेन च । विधा प्रकल्पयन्प्रज्ञां, लभते योगमुत्तमम् ॥१२॥ आत्मा कर्माणि तद्योगः, सहेतुरखिलस्तथा । फलं द्विधा वियोगश्व, सर्वं तत्स्वभावतः ॥४१३॥ अस्मिन् पुरुषकारोऽपि, सत्येव सफलो भवेत् ।
अन्यथा न्यायवैगुण्यात्, भवन्नपि न शस्यते ॥४१४॥ सर्वयोगानां समन्वयः -
___एतान् एव अध्यात्मादियोगान् अन्ये दर्शनकाराः सम्प्रज्ञातसमाधित्वेन असम्प्रज्ञातसमाधित्वेन च अभिदधति ।।
सम्प्रज्ञात: नाम सम्यक्तया प्रकर्षेण च रूपेण वृत्त्यर्थस्य ज्ञानम् । सम्यङ् नाम
ded
५९
Page #73
--------------------------------------------------------------------------
________________
यथावत्-यत् यादृशम् अस्ति तादृशम्, प्रकर्षः तु सवितर्कनिश्चयरूपः । अत्र वितर्कः नाम श्रुतं शास्त्रं वा, तेन सहितः सवितर्कः । तन्नाम शास्त्रानुसारेण यस्य स्वरूपस्य निश्चयः जातः तादृशस्य वृत्त्यर्थस्य ज्ञानं सम्प्रज्ञातः उच्यते । वृत्तिः नाम नरनारकादिपर्यायाः, अर्थः नाम द्वीप-समुद्र-पर्वतादिपदार्थाः, तेषां ज्ञानं वृत्त्यर्थज्ञानम् । एतादृशं ज्ञानम् अध्यात्मादिषु चतुर्षु अपि योगेषु भवति । अतः ते सम्प्रज्ञातसमाधित्वेन वक्तुं शक्यते ।
पातञ्जलयोगदर्शने अपि सम्प्रज्ञातसमाधिः एवंरूपः वर्णितः अस्ति-"वितर्कविचारा-नन्दास्मितानुगमात् सम्प्रज्ञातः (१/१७)" - आ स्थूलपदार्थेभ्यः सूक्ष्मसूक्ष्मतरपदार्थविषयकं यत् अनुगतचिन्तनं स वितर्कादिचतुर्भेदः सम्प्रज्ञातः समाधिः इति उच्यते" इति ।
कैवल्यप्राप्तौ कारणभूतस्य शुक्लध्यानस्य प्रथमौ द्वौ भेदौ अपि सम्प्रज्ञातसमाधिस्वरूपौ एव स्तः । यतः तत्र अपि वृत्त्यर्थस्य सम्यग्ज्ञानं भवति इति महोपाध्यायश्रीयशोविजयमहाराजः पातञ्जलयोगसूत्रस्य - १/१७-१८ इति सूत्रद्वयस्यटीकायां कथयति - "तत्र पृथक्त्ववितर्कसविचारैकत्ववितर्काविचाराख्यशुक्लध्यानभेदद्वये सम्प्रज्ञातः समाधिः, वृत्त्यर्थानां सम्यग्ज्ञानात्" इति ।
___ अनेन समाधिना समाहितः सन् आत्मा अजन्मत्वस्य कारणरूपं जन्म प्राप्नोति । शीघ्रं च केवलज्ञानप्राप्तेः पूर्वाम् आत्मनः वर्धमानचित्तनिरोधावस्थास्वरूपां च क्षपकश्रेणिम् आरोहति । तदनु च केवलज्ञानम् अपि प्राप्नोति । एनां कैवल्यस्वरूपाम् अवस्थाम् एव अन्ये दर्शनकाराः असम्प्रज्ञातसमाधित्वेन वर्णयन्ति । अस्मिन् च आत्मा पूर्णतया समाधिस्वरूपः भवति । अतः च वृत्त्यर्थानां चिन्तनस्य अपि अभावः भवति । ततः एव च सूक्ष्मम् अपि मानसिकं विज्ञानं तत्र न विद्यते । एषः एव च वृत्तिसंक्षयः योगभेदः अस्ति ।
अत्र द्विधा असम्प्रज्ञातः योगः भवति । एकः सयोगिकेवलिकालभावी अन्यः च अयोगिकेवलिकालभावी । यदा विकल्पज्ञानरूपायाः मनोवृत्तेः तथा ज्ञानावरणीयादीनाम् उदयरूपस्य तस्याः बीजस्य सर्वथा निरोधात् केवलज्ञानप्राप्तिः भवति तदा प्रथमः असम्प्रज्ञातः समाधिः भवति । तत्काले च शरीरस्य सद्भावात् परिस्पन्दरूपा वृत्तिः
६०
Page #74
--------------------------------------------------------------------------
________________
विद्यते । यदा च सर्वासाम् अपि वृत्तीनां तद्वीजरूपाणां च औदारिकादिशरीराणां सर्वथा अत्यन्तं च उच्छेदः भवति तदा द्वितीयः असम्प्रज्ञातः समाधिः भवति ।
अत्र तात्पर्यं तु एतत् यत् भिन्नभिन्नदर्शनकाराणां शास्त्रेषु नामभेदैः अनेके समाधयः वणिताः सन्ति । यथा- धर्ममेघः, अमृतात्मा, भवशत्रुः, शिवोदयः, सत्त्वानन्दःइत्यादयः । किन्तु एतेषां सर्वेषाम् अपि अध्यात्मादियोगेषु समावेशः भवितुं शक्यते । यतः योगशब्दस्य अर्थः तु सर्वत्र सङ्गतिम् अङ्गति । योगस्य च अनेकाः अवस्थाः सन्ति । अतः तत्तदवस्थाम् अपेक्ष्य तस्य तस्य योगस्य अध्यात्मादियोगेषु अन्तर्भावः भवति एव।
समाधिरेष एवाऽन्यैः, सम्प्रज्ञातोऽभिधीयते । सम्यकप्रकर्षरूपेण, वृत्त्यर्थज्ञानतस्तथा ॥४१९॥ एवमासाद्य चरम, जन्माऽजन्मत्वकारणम् । श्रेणिमाप्य ततः क्षिप्रं, केवलं लभते क्रमात् ॥४२०॥ असम्प्रज्ञात एषोऽपि, समाधिर्गीयते परैः । निरुद्धाशेषवृत्त्यादि-तत्स्वरूपानुवेधतः ॥४२१॥ धर्ममेघोऽमृतात्मा च, भवशत्रुशिवोदयः ।
सत्त्वानन्दः परश्चेति, योज्योऽचैवाऽर्थयोगतः ॥४२२॥ मुक्तिः तु योगस्य एव अन्यावस्थारूपा अस्ति । प्रथमं समाधियोगः सिद्धः भवति, तदनु च मुक्तियोगः । तथा तथा कर्मक्षयार्थं यः योगः प्रवर्तते सः समाधिः इति उच्यते । यः च निष्ठाप्राप्तः योगः अस्ति अर्थात् कर्मक्षयस्य समाप्तिं प्राप्तः यः योगः अस्ति तम् एव योगमार्गज्ञा: मोक्षम् इति कथयन्ति । यतः यदा समाधिः पूर्णतां प्राप्नोति तदा तेन समाधिना आत्मनः कर्मणः च परस्परसंयोगस्य योग्यतायाः अभावः भवति । योग्यतायाः अभावात् च पुनः तेषां संयोगः न भवति एव । ततः च संसारः अपि न अवशिष्यते। अर्थात् संसाराभावः भवति ।।
तथा तथा क्रियाविष्टः, समाधिरभिधीयते । निष्ठाप्राप्तस्तु योग -मुक्तिरेष उदाहृतः ॥४९६॥
६१
Page #75
--------------------------------------------------------------------------
________________
संयोगयोग्यताभावो, यदिहाऽऽत्मतदन्ययोः ।
कृतो न जातु संयोगो, भूयो नैवं भवस्ततः ॥४९७॥ योगफलम् -
सम्यग्योगः उभयलोकहिताय भवति । अत्र दर्शितानि ऐहलौकिकानि फलानि तु योगमार्गप्रवृत्तानाम् आत्मनां कृते स्वकीयः मार्गः समीचीनः न वा इति निश्चयार्थम् अत्यन्तम् उपयोगीनि सन्ति ।
योगपथपथिकानां योगसाधनया के के लाभाः भवन्ति इत्यत्र दर्शयन्ति । "१. स्थिरता - प्रतिज्ञातस्य निर्वाहे स्थैर्यम् । २. धैर्यम् - आपत्तौ अपि अविचलितस्वभावः । ३. श्रद्धा - सत्यमार्गं प्रति दृढा रुचिः । ४. मैत्री - सर्वजीवेषु हितचिन्तनरूप: मित्रभावः । ५. जनप्रियत्वम् - शिष्टलोकानां स्नेहः । ६. प्रातिभतत्त्वभासनम् - स्वकीयया साहजिक्या प्रतिभया जीवादितत्त्वानाम् अवलोकनम् । ७. विनिवृत्ताग्रहत्वम् - अनुचिताभिनिवेशस्य अभावः । ८. द्वन्द्वसहिष्णुता - कर्मोदयेन प्राप्तानाम् इष्टानिष्टविषयाणां वियोगसंयोगरूपाणां द्वन्द्वानां सम्यक् सहनम् । ९. द्वन्द्वविनाशःद्वन्द्वानां यानि निमित्तानि तेषां शक्तीनां शुद्धयोगेन नाशः सञ्जाते सति तेषां द्वन्द्वानाम् अभावः । १०. कालोचितबाह्यलाभः - समाधेः स्थिरतायां निमित्तभूताः जीवननिर्वाहादयः कालोचिताः लाभाः । ११. शुभोदया धृतिः - जीवननिर्वाहिकासु सामग्रीषु सन्तोषः, अधिकप्राप्तेः लालसायाः अभावः च । १२. शुभोदया क्षमा - सत्यासत्यस्य श्रवणमात्रेण एव उत्तेजितं भूत्वा आविचार्य एव क्रोधादीनाम् आलम्बनेन आत्मनि जायमानायाः विक्रियायाः रोधनम् । १३. सदाचारः - सर्वेषाम् उपकारकारिणी प्रियवचनरूपा अकृत्रिमोचितस्नेहादिरूपा सज्जनानां चेष्टा । १४. योगवृद्धिः - मुक्तेः बीजभूतानां सम्यग्दर्शनादीनाम् उत्कर्षः । १५. आदेयता - अन्यैः आदरणीयानां वचनानां स्वामित्वम् । १६. गुरुत्वम् - गौरवम् । १७. अनुत्तरशमसौख्यम् - कषायाणां मन्दत्वे सति उद्भूतं प्रशमसुखम् । एतत् च बाह्यपदार्थजन्येभ्य: विषयादिसुखेभ्यः अतिशायि भवति" इति । एतावन्तः ऐहिकलाभाः भवन्ति योगसाधनया ।
योगस्य च मुख्यम् एकान्तिकम् आत्यन्तिकम् अनुत्तरं च फलम् अस्ति परं
Page #76
--------------------------------------------------------------------------
________________
2ब्रह्म इति योगविदः वदन्ति ।
किं चाऽन्यद् योगतः स्थैर्य, धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वं च, प्रतिभं तत्त्वभासनम् ॥५२॥ विनिवृत्ताग्रहत्वं च, तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च, बाह्यानां कालसङ्गतः ॥५३॥ धृतिः क्षमा सदाचारो, योगवृद्धिः शुभोदया । आदेयता गुरुत्वं च, शमसौख्यमनुत्तम् ॥५४॥ योगस्यैतत्फलं मुख्य-मैकान्तिकमनुत्तरम् ।
आत्यन्तिकं परं ब्रह्म, योगविनिरुदाहृतम् ॥५०६॥
अतः एव च विद्वत्ताफलकाङ्क्षिभिः बुद्धिमद्भिः जनैः एषा सद्गोचरादिसंशुद्धिः आलोचनीया । तदनु च एषा यदि योग्या प्रतिभासेत तर्हि स्वीकरणीया अपि । अर्थात् योगमार्गे श्रद्धा अपि कर्तव्या, आचरणम् अपि कर्तव्यम् । यतः सद्योगस्य अभ्यासः एव विद्वत्तायाः फलम् अस्ति, न अन्यत् किम् अपि । योगाभ्यासं विना तु शास्त्राणि अपि संसाररूपाणि एव इति निर्मलमतीनां शास्त्रविदाम् आशयः । यथा सज्ज्ञानरहितानां मूढात्मनां कृते पुत्रपुत्र्यादिसंसारः भवति तथा सद्योगरहितानां विदुषां कृते अपि शास्त्राणि एव संसाररूपाणि सन्ति । अतः एव च पण्डितजनैः योगमार्गेण यतितव्यम् ।
सद्गोचरादिसंशुद्धि-रेषाऽऽलोच्येह धीधनैः । साध्वी चेत्प्रतिपत्तव्या, विद्वत्ताफलकाक्षिभिः ॥५०७॥ विद्वत्तायाः फलं नाऽन्यत्, सद्योगाभ्यासतः परम् । तथा च शास्त्रसंसार, उक्तो विमलबुद्धिभिः ॥५०८॥ पुत्रदारादिसंसारः, पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसार:, सद्योगरहितात्मनाम् ॥५०९॥
Page #77
--------------------------------------------------------------------------
________________
स्वाध्याय
नमि-प्रव्रज्या
ole
Cool LaLaLALALALALLA
(नमिराजर्षेः इन्द्रेण सह संवादः)
मुनिकल्याणकीर्तिविजयः पुरा हि शशास मिथिलां नमिः नाम नृपतिः । एकान्तेन धर्मप्रियः प्रजाहितः - पराक्रमी महादानी च स आसीत् । अतः सर्वाः प्रजाः तस्मै पूर्णतया स्निह्यति स्म । HD तथा चौराः अनीतिकारिणः च ततः पूर्णरूपेण बिभ्यति स्म ।
सः एकवारं सायङ्काले गवाक्षे स्थितः सर्वतः विलोकयन् आसीत् । तावता तस्य दृष्टिः व्योम्नि पतिता । तत्रत्यं दृश्यं पश्यन् स स्तब्धः इव मूर्त्तः इव निर्निमेषनयनः बभूव । अहो ! कुतस्त्याः एते आकाराः ॥ कीदृशाः आकर्षकाः मनोमोहकाः च !! अवर्णनीया वर्णपरम्परा एतेषाम् ! अचिन्त्या च रमणीयता ! चेतोहरा च चारुता ! ननु
कः खलु जीमूतकन्दुकैः ईदृशीं क्रीडां करोति ? धन्यवादाः तस्य, धन्यम्मन्यः च अहं - येन जीवनसारभूतं दृष्टम् एतत् रामणीयकम् ।
अथ एवं सुषमापीयूषगण्डूषान् आकण्ठं पिबतः तस्य प्रपश्यतः एव अकस्मात् 2 उच्चैः वातः महावातः नभोमण्डले व्याप्तान् तान् अभ्रखण्डान् स्वेन सह सुदूरं नीतवान् । गगनं केवलं निराकारं निरञ्जनं नीरागं च शिष्टं तत्र ।
एतद् दृष्ट्वा स चित्ते चकितः मनसि विस्मतः हृदये च स्तब्धः अभवत् । "अहो खलु अनित्यता पदार्थानां ! तरलता विषयाणां ! क्षणभङ्गता भावानां ! अनित्यता सम्पदाम् !! किं एतत्पर्यवसानः एव संसारः ? किं सर्वम् अपि अत्र इन्द्रजालप्रतिच्छायम् ?
तर्हि नित्यं किम् ? शाश्वतं किम् ? अनश्वरं किम् ? किञ्चित् तु भवितव्यम् एव । तद - एव खलु प्राप्तव्यं मया !" इत्यादि चिन्तयन् सः वैराग्यभावनाभावितान्तःकरण:
उल्लसिताभ्यन्तरविवेकः विषयविनिवृत्तचेताः तदा एव गृहत्यागं निर्णीतवान् । स्वज्येष्ठपुत्रं - राज्ये अभिषिच्य च सद्यः एव सपुरजनां सान्तःपुरां सानीकिनी च मिथिला नगरी
त्यक्त्वा अभिनिष्क्रान्तः सः एकान्तेन प्रव्रज्याम् अधिष्ठितवान् ।।
ISROIEDEREDIENTERNETREATMENTERTIENT
DIVOIV
६४
Page #78
--------------------------------------------------------------------------
________________
अथ च प्रव्रजति तस्मिन् नमिनृपतौ तं प्रति सर्वथा समर्पिताः बद्धादराः च प्रजा: अत्यन्तं दुःखिताः अभवन् । सर्वत्र च रोदनाक्रन्दनविलापानां करुणशब्दाः श्रूयन्ते स्म । एतेन सर्वः अपि नगरपरिसरः कोलाहलमयः सञ्जातः इव ।
इतः च, एतस्मिन् अवसरे स्वर्गमध्ये सौधर्मदेवलोकाधिपेन शक्रेण स्वीयदिव्यज्ञानप्रयोगेण ज्ञातम् एतत्-यत्-नमिः राजा प्रव्रज्यायै अभ्युत्थितः इति । अत: सः तस्य परीक्षार्थं ब्राह्मणवेषं धारयित्वा तत्सम्मुखम् उपस्थितः ।
तदात्वे तयोः द्वयोः मध्ये यः संवादः प्रचलितः सः अतीवरोचकत्वात् अत्र
प्रस्तुतः ॥
इन्द्रः
नमिः
इन्द्रः
नमिः
भोः ! किमर्थम् अद्य मिथिलायाः प्रासादेषु गृहेषु च कोलाहलसङ्कुलाः दारुणाः च आक्रन्दनशब्दाः श्रूयन्ते ?
भोः ! मिथिलायाम् एकः महान् वृक्षः आसीत् । यः बृहत्काय: शीतलच्छायः पत्रपुष्पफलोपेतः अत्यन्तं गुणकारी च आसीत् । तथा तन्निश्रया बहवः पक्षिसर्प- चिक्रोडादयः प्राणिनः जीवन्तः आसन् । अद्य महावातेन स वृक्ष: समूलम् उत्पाट्य विनाशितः । एतेन ते सर्वे अपि जन्तुजाता: अशरणाः निराधारा: च सञ्जाताः । अतः तद्दुःखेन क्रन्दमानानां तेषां करुणशब्दाः एते श्रूयन्ते । किं च तत्र न किम् अपि चिन्ताकारणम् । यतः प्राप्ते अन्यस्मिन् आश्रये ते सर्वे अपि प्राणिनः शान्ताः सुखिनः च भविष्यन्ति ।
भवतु । किन्तु भगवन् ! मिथिलानगरम् अग्निज्वालाभिः दह्यमानम् अस्ति । महावातेन च ताः ज्वाला: भवतः अन्तःपुरं प्रासादं च ज्वालयन्त्यः सन्ति । तत् सर्वं भवान् जानन् अपि किमर्थम् इह एव तिष्ठति ? तत्र गत्वा अग्नेः विध्यापनादि भवतः कर्तव्यं खलु ?
भोः ! अहं हि सर्वथा अकिञ्चनः अस्मि तत: च सुखेन वसामि जीवामि च । किञ्च, मिथिलायां दह्यमानायां मम तु किञ्चन अपि न दहति । यत:, यत् मामकीनम् अस्ति तत् तु न कदा अपि दहति, यत् च दहति तत् तु मम नास्ति एव । अथ च त्यक्तपुत्रकलत्रस्य सर्वथा निर्व्यापारस्य भिक्षोः
६५
Page #79
--------------------------------------------------------------------------
________________
Hotel
इन्द्रः
veolele otel veel ve otel
नमिः
2014.01.2014!12!!!calca.02.2016.AA.09.
अस्मिन् संसारे किञ्चित् प्रियम् अपि न विद्यते, न वा किञ्चित् अप्रियम् अपि विद्यते । तथा, अनगारस्य भिक्षावृत्त्या जीवतः मुनेः भद्रं तु सर्वतः विप्रमुक्तत्वात् । एकान्तेन च आत्मानः एव अनुदर्शकत्वात् एव । न तु अन्यथा कथम् अपि । बाढम् । अथ एका विज्ञप्तिः अस्ति । भवान् हि अस्य नगरस्य राजा अस्ति। यदि भवान् भिक्षुजीवनम् एव यापयितुम् इच्छति तर्हि न का अपि बाधा अस्माकम् । किन्तु प्रथम नगरस्य प्राकारं सम्यक्तया समारचय्य, द्विषदाक्रमणसहनाय च समर्थं कारयित्वा, शतघ्न्यादिभिः शस्त्रैः अस्त्रैः च संयोज्य, तथा गोपुराणि अट्टालकानि च कारयित्वा, तत्पश्चात् भिक्षुत्वम् अङ्गीकरोतु । येन भवतः प्रजाजनाः निर्भयतया जीवेयुः । भोः ! एतत् सर्वं तु मया कृतम् एव । शृणु तावत् । श्रद्धा नाम नगरं मया निर्मापितम् अस्ति । तस्य द्वारि तपसः संवरस्य च अर्गलं योजितम् । क्षमाभिधः विशालः प्राकारः तत्परितः कारितः । सः अपि गुप्तित्रयेण दृढः शत्रूणां दुष्प्रध्वंस: च कृतः । तथा जीवपराक्रमं नाम धनुः मया गृहीतम् अस्ति । तत्र ईर्यासमिति:२ नाम ज्या अस्ति । धृतिनाम्ना बन्धनेन ज्यां धनुषा बद्ध्वा सत्येन सा आकृष्यते तत्र च तप:स्वरूप: बाणः स्थाप्यते । ततः च (N तेन बाणेन कर्मराज्ञः कञ्चुकं दृढतया भित्त्वा तं च हत्वा अहं विगतसङ्ग्राम: भविष्यामि । भवचारकात् च विमुक्तः भविष्यामि ।
[अनुवर्तते] [आधारः उत्तराध्ययनसूत्रस्य नवमम् अध्ययनम्]
usaldada.MAIMAI MICALCALALALALAMALE
le
ole
ole
ole
REEEEEEEEVाना
पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे | इति कृत-मेमे-शब्दं पशुमिव मृत्युर्जनं हरति ।
[शीलाङ्काचार्यकृतायाम्-आचाराङ्गवृत्तौ]
olete otel ecolele
lote
१. मनो-वाक्-काययोगनिवृत्तिरूपं गुप्तित्रयम् । २. ईर्या-गमनम् । गमने मार्गस्य सम्यकतया निरीक्षणं दत्तचित्तत्वं च ईर्यासमितिः ।
e
६६
Page #80
--------------------------------------------------------------------------
________________
-
-
(Om
आस्वाद: चिन्तनधारा ।
मुनिरत्नकीर्तिविजयः ।
"You're not bad, because of what you did, you're good, although what you did was bad."
(Brock Tully) व्यवहारे कतिचित् वाक्यानि वारंवारं प्रयुज्यन्ते । यथा - 'मनुष्यमानं क्षते: A 2) पात्रम्, 'मनुष्यस्य एव क्षतिः भवति', 'यः कार्यं करोति तस्य एव स्खलनं भवति'- SAWAL
इत्यादीनि । अत्र विडम्बना तु एतत् यत् एतेषाम् एतादृशानां वा वाक्यानां प्रयोगं मनुष्यः स्वदोषाच्छादनाय एव करोति । किन्तु यदा अन्यस्य क्षतिः भवति तदा सः एतानि सर्वाणि अपि विस्मरति । न एतावत् एव अपि तु अन्यं प्रति तिरस्कारं हीनताभावं वा आवहति । स्वस्य क्षतिः यदा भवति तदा सहसा एव तस्य स्मरणं भवति यत् 'अहं मनुष्यः अस्मि अतः क्षतिः जाता' । अन्यथा तु स्वं देवम् इव एव मत्वा सर्वदा है। विहरति । परन्तु अन्यस्य क्षतिं दृष्ट्वा तस्य एतादृशी मतिः न जायते यत् 'एषोऽपि
मनुष्यः एव अतः मम इव तस्य अपि क्षतेः सम्भावना अस्ति एव' । स्वम् इव अपरम् (ग IVE) अपि सः देवतुल्यं गणयेत् - एतावती नाऽस्ति अत्र अपेक्षा किन्तु तदा सः तं मनुष्यम् IINE
* अपि अगणयित्वा यत् व्यवहरति तत् तु विचारणीयम् । ततः एव क्लेशाः सङ्क्लेशाः
४ सन्तापाः तेषां परम्परा च उत्तिष्ठन्ते । 'यत् भूतं तत् किमर्थं भूतम् ?' - इत्यस्य एव M चर्चायां विवादे वा मनुष्यस्य मतिः मूढा भवति, किन्तु तादृशं पुनः यथा न स्यात् तदर्थं ।
किं करणीयम् अस्ति- इति विचारः अपि तस्य न स्फुरति । अतः एव च पुनः पुनः हा तादृशी स्थितिः साक्षात्करणीया भवति ।
एतस्यां स्थितौ मनुष्यस्य स्वभावस्य दोषात् स्वबोधस्य दोषः अधिकः इति । A वक्तुम् उचितम् । यतः बोधेन स्वभावपरिवर्तनं शक्यम् एव । मनुष्यः यदा स्वस्य ।
विचारान् स्वस्य वचनानि स्वस्य दृष्टिं एव च कदाग्रहेण विलग्नः वर्तते अन्यान् च । प्रति आदरेण समानत्वेन औदार्येण च न व्यवहरति तदा यत् जायते तदेव अस्ति
६७
Page #81
--------------------------------------------------------------------------
________________
अस्माकं सर्वेषां ‘वर्तमानम्' (वर्तमाना स्थितिः) । सर्वेऽपि तस्य अनुभवं कुर्वन्ति । एषा स्थितिः कस्मैचित् अपि रोचते इति तु न किन्तु सर्वेऽपि प्रतीक्षमाणाः स्थिताः सन्ति यत् 'परः कदा स्वस्मिन् परिवर्तनं कुर्यात्' इति । एतादृश्याः च प्रतीक्षायाः अन्तः न केनाऽपि दृष्टः नाऽपि कल्पितः । स्वस्मिन् परिवर्तनम् एव अत्र उपाय:, न अन्यः।
व्यवहारः संस्कारितां द्योतयति संस्कारिता च शिक्षणम् । यादृशं शिक्षणं तादृशाः संस्काराः, यादृशाः च संस्काराः तादृशः व्यवहारः । अद्यतनी शिक्षणपद्धतिः किम् आर्यपद्धतिः आर्षपद्धतिः वा अस्ति ? एतत् तु सर्वैः अपि विचारणीयम् । आभासिकीं भौतिक उन्नतिं प्रति आसक्ताः तत्प्राप्तौ एव च प्रयतमानाः वयं अस्माकं संस्कारधनं नायाम: । अत्र विषये अस्माभिः जागृतैः भवितव्यम् । स्वस्य जागरणम् अनिवार्यं प्रतिभाति । जीवनस्य सर्वोपरित्वं यत् न बोधयेत् सत्संस्कारान् च यत् न जागरयेत् तत् शिक्षणं कीदृशम् ? कथं नाम तत् शिक्षणत्वेन वक्तुं शक्यते ?
उपर्युक्ते- " त्वया यत् आचरितं तेन न त्वम् अयोग्यः; त्वं तु योग्य: एव, केवलं त्वया यत् आचरितं तत् अयोग्यम्” इति अत्र वाक्ये व्यवहारस्य औदार्य संस्कारितायाः च आमोद: अनुभूयते । हृदयस्य विशालता दृष्टेः निर्मलता चाऽपि कामम् अनुभूयते । प्रकटरीत्या अस्मिन् वाक्ये कम् अपि उद्दिश्य न किम् अपि उपदिष्टम् अस्ति । एवं सत्यपि पारस्परिकैक्यस्य रहस्यं मनसः शान्तेः, चित्तस्य प्रसन्नतायाः जीवनस्य उल्लासस्य चाऽपि रहस्यम् अतः वाक्यात् प्रकटत् अनुभूयते । एषः एव आर्यव्यवहारः आर्षव्यवहारः वा । एतादृशे व्यवहारे एव अस्माकं मानवसमाजस्य च उन्नते: मूलं निहितम् अस्ति । अस्मात् वाक्यात् प्रवहन्तीं संस्कारितां यदि नाम वयम् अङ्गीकुर्याम पारस्परिकव्यवहारे च प्रयुञ्ज्याम तर्हि अनेकाः विडम्बना: निर्मूला: स्युः, समाधिः शान्तिः च सहजतया प्राप्ता स्यात् । किन्तु अत्र एक एव प्रश्न अस्ति यत् 'किं वयं आर्याः स्मः ? अस्माकं हृदये आर्यत्वस्य गौरवं किं विलसति ?'
-
प्रत्येकं व्यक्तिः सदसत्संस्काराणां पिण्डरूपा अस्ति । व्यक्तेः चारित्र्यनिर्माणं न सामान्यघटना अस्ति । शिक्षणं यथा संस्कारान् उद्बोधयति तथा पारस्परिकः व्यवहारः अपि संस्कारान् स्पृशति । मनुष्यस्य चारित्र्यनिर्माणे शिक्षणतुल्यं दायित्वं व्यवहारः अपि निर्वहति । शिक्षणस्य व्यवहारस्य च उभयोः अपि लक्ष्यम् अस्ति - चारित्र्यनिर्माणम् ।
६८
Page #82
--------------------------------------------------------------------------
________________
एतल्लक्ष्येण रहितं शिक्षणं तु केवलं विद्यायाः व्यापारः अस्ति । तादृशात् शिक्षणात् वैचारिकं व्यवहारिकं च औन्नत्यम् औदार्यं वाऽपि न प्रकटते । तथैव च लक्ष्यविहीनेन व्यवहारेण अपि पारस्परिकः भ्रातृभावः, जीवने शान्तिः प्रसन्नता च न लभ्यन्ते ।
उपर्युक्तस्य वाक्यस्य प्रत्येकं शब्देभ्यः शिक्षणस्य प्रकाशः व्यवहारस्य च माधुर्यं स्रवत् अनुभूयते । एषः प्रकाशः एतत् माधुर्यं चैव अस्माकम् आर्यसंस्काराणां प्राणतत्त्वम् अस्ति । अस्मासु विद्यमानस्य आर्यत्वस्य सम्यक्परिचयः एताभ्याम् एव भवति । अस्मासु जागृते एते प्रकाश: माधुर्यं च अन्यजनेषु सुप्तं देवत्वं जागर जागृतं देवत्वम् एव तस्य असत्संस्कारान् मूलतः उन्मूलयिष्यति । एवं च रीत्या व्यक्तौ 'व्यक्तौ जागृतं देवत्वम् एव क्रमशः परिवारस्य, समाजस्य, राज्यस्य, देशस्य, विश्वस्य च स्थितौ व्यापकम् उन्नतं स्थिरं च परिवर्तनं विधास्यति ।
समाज-राज्य-देशादीनाम् औन्नत्यार्थं बृहतीषु सभासु भाषणानि न आवश्यकानि नाऽपि च तानि उपायरूपाणि सन्ति । तदर्थं तु दृष्टौ नैर्मल्यम् एव आवश्यकम् । दृष्टिः ) यदि निर्मला भविष्यति तर्हि व्यवहारः तु स्वयमेव निर्मलः स्वस्थः च भविष्यति । तदनु च उन्नतिः शान्तिः प्रसन्नता वा न दुःसाध्या असाध्या वा स्यात् ।
वयम् अस्माकम् अहङ्कारः च सततम् अपरं धिक्कुर्महे तिरस्कुर्महे । व्यक्तिं च हीनं तुच्छम् अयोग्यं मत्वा - गणयित्वा एव व्यवहरामः । किन्तु न अनेन मार्गेण कस्य अपि जीवनम् उज्ज्वालयितुं शक्यम् । एतादृशः व्यवहारः तु परस्य जीवने अन्धकारम् एव प्रतनोति । यदि नाम वयं कस्य अपि जीवनम् उज्ज्वालयितुं न अलम् तर्हि त् 'न तावत् शोचनीयम्, किन्तु कस्य अपि जीवने अन्धकारं न प्रसारयेम इति तु पर्याप्तम् । उपर्युक्तात् वाक्यात् एषः एव उपदेशः ध्वन्यते ।
एतत् वाक्यं सतां प्रकृतिं सतां कृतिं च परिचाययति । वयम् अपि एतादृशं ज्ञानस्य प्रकाशं व्यवहारस्य औदार्यं दृष्टेः नैर्मल्यं च प्राप्नुयाम येन सर्वेषां जीवनं सुखमयं शान्तिमयं प्रसन्नतामयं च स्यात् । इति शम् ।
६९
Page #83
--------------------------------------------------------------------------
________________
आस्वाद
शास्त्री व्रजलालः वि. उपाध्यायः ___इह लोके अनर्थबहुले प्रसृत्वरकामनातन्तौ अर्थप्रधाने प्रवर्तमाने विश्वे तावत् चत्वारः प्रभुसत्ताकाः प्रभवः सत्ताधीशाः जागरूकाः सन्ति इति सर्वसुविदितम् एव । अस्तु, के ते इति
शस्त्रं शास्त्रं धनं राजा, सन्तश्च प्रभव इमे । .
चत्वारो लोकविदिता, मुमुक्षुत्ति पञ्चमम् ॥ १. शस्त्रम्, २. शास्त्रम्- पुस्तकस्थ, समृद्धाः ज्ञानकोषाः वा, आर्याणां मौनम् आकलितवती अपूर्वा सम्पद्, ३. धनम् - तत्स्वामिनः वा । अथ च ४. राजा - राष्ट्ररक्षकः (यस्य अस्माभिः प्रभोः अंशत्वेन (अस्मत्पूर्वजैः) प्रतिष्ठा कृता आसीत्-इति तु अन्यत् एव तत्त्वम्) । इमे चत्वारः समर्थाः स्वेप्सितकार्यकरणे प्रभविष्णवः विदिताः एव । पञ्चमं प्रभुं तु केवलं मुमुक्षुः साधकः अकिञ्चनः एव वेत्ति- जानाति, न अन्यः कश्चन ।
__ अलौकिकसत्त्वस्वामिनः सन्तः समर्थाः भक्ताः प्रभोः त्रिकालाबाधितसत्ताकस्य अस्तित्वस्वीकारवन्तः सानन्दाः महात्मानः साधुपुरुषाः अचिन्त्यशक्तिधरप्रभुसामर्थ्यसमुदित-निकटस्थ-स्वान्तःस्थ-आन्तरैश्वर्यमण्डितवाचंयमाः प्रभोः विद्यमानरूपं सर्वसत्ताधीशस्थानम् उररीकृत्य मौनिनः पुण्यभाजः विलसन्तुतराम् । तेषां पुण्यप्रभावेन एव जगत् सुरक्षितं वर्तते । अन्यैः धीधनैः सात्त्विकैः पण्डितंमन्यैः तु यदि सामान्यजनवत् आर्थिकदासत्वं स्वीक्रियते चेत् महती हानिः । इदम् एव दुःखस्थानम् इति । उक्तं च केन अपि
आचार्यस्य बलं ज्ञान-माज्ञा सिंहासनेशितुः । ज्ञानमाज्ञा युगीभूय, कालं सम्परिवर्तयेत् ॥१॥
७०
Page #84
--------------------------------------------------------------------------
________________
मनुष्यत्वं प्रमाणं चेत्, शास्त्रं समनुधावति ।
आचार्यश्च तदा राजा, मिथो मैत्री समाप्नुतः ॥२॥ शस्त्रं सम्परिवर्तेत, न शास्त्रं परिवर्तते । शास्त्रं न पुरुषायत्तं, पुरुषाश्रयमेव च ॥३॥
यथा कालो यथा शत्रु-र्यथैव स्वबलं भवेत् ।
तथा निर्मीयते शस्त्रं, न शास्त्रं केनचित् क्वचित् ॥४॥ नीति'लाऽपि कल्प्येत, रक्षणे शस्त्रशास्त्रयोः । न चैकविधः कालः, रक्ष्यं तु द्वितयं नरैः ॥५॥
शस्त्रं संरक्ष्यते दुर्ग-र्बलवनिर्भटैरपि ।
मत्रज्ञैरपि चाऽमात्यै-स्तथा प्रभुबलेन च ॥६॥ शास्त्रं संरक्ष्यते वर्ण-बलवत्पण्डितैरपि । मत्रज्ञैरपि भूपालै-स्तथाऽऽचार्यबलेन च ॥७॥
नीतेधर्मेण सौभाग्यं, नीत्या धर्मस्य तत् तथा ।
अन्योन्यविमुखत्वे तु, विधवाविधुरौ च तौ ॥८॥ अत एव तथा लोके, दृश्यते प्रायशो जनैः । विधवाविधुराभ्यां हि, समन्तात् पूरितं जगत् ॥९॥
मङ्गलं राजपुण्येन. ज्ञानमाचार्यपुण्यतः । तीने पुण्योदये शुद्धे, पृथ्वीभाग्योदयो भवेत् ॥१०॥ इति अलं विस्तरेण ।
जानकी एपार्टमेन्ट, 1st फ्लोर, लालामेतानी शेरी, जामनगर-३६१००१
किं एत्तो कठ्यरं जं मूढो थाणुअंमि आवडिओ । थाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स ॥
(शीलाङ्काचार्यकृतायाम् आचाराङ्गवृत्ती)
For Private Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
पत्राम
मनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन !
धर्मलाभः अस्तु ।
अत्र वयं सर्वे अपि ससातं वर्तामहे । तव अपि एवमेव कामये अहम् । अस्माकं दक्षिणदिशः विहारयात्रा सुखरूपा प्रवर्तते ।
किञ्चित्कालात् वयं दक्षिणप्रदेशे विहरामः । अत्रत्यां धार्मिकी स्थिति निरीक्ष्य मनसि ग्लानिः सञ्जाता यत्, “समाजः कां दिशं प्रति गतवान् अस्ति । न तु गुर्जरदेशे, किन्तु सर्वत्र जैनसमाजे जैनेतरसमाजे अपि एतादृशी एव स्थितिः दृष्टिपथम् आयाति' ।
___ अधुना सर्वत्र बाह्यदृष्ट्या धर्मस्य प्रसारः अतीव विस्तृतः, अद्य जनेषु धर्मरुचिः । वृद्धिं गता अस्ति । नूतनमन्दिरनिर्माण-प्रतिमास्थापना-भक्तिमहोत्सव-सङ्घयात्रादीनि नैकानि धर्मकृत्यानि बोभूयन्ते । धर्मकार्येषु निराबाधं धनव्ययः अपि विशेषतः भवति । एवं धर्मप्रभावनायाः बहूनि कार्याणि भवन्ति । तथा अपि वस्तुतः वयं सर्वे अपि आत्मोन्नतिविधायकात् निजगुणोत्कर्षकारकात् च धर्मात् च्युताः भवामः । बाह्यधर्मस्य प्राचुर्ये सति अपि वास्तविकधर्मस्य मूलधर्मस्य च नितराम् अभावः एव दृश्यते । ततः एव चित्ते उद्वेगः जायते यत् 'अहो ! समाजे का स्थितिः वर्तते ! तथा च आगामिनि काले किं भविष्यति ?' इति ।
बन्धो ! विवेकपूतस्य ज्ञानस्य अभावः एव अस्याः स्थितेः निदानम् अस्ति । अस्माकं शासने न उत्पादनस्य (Production) प्रमाणस्य (Quantity) च मूल्यम्, अपि तु सर्जनस्य (Creation) गुणवत्तायाः (Quality) च माहात्म्यम् अस्ति । ततः तदा एव प्रभुभक्ति-तपो-महोत्सवादिबाह्यक्रियायाः सार्थक्यं, यदि तत्क्रियायां विवेकयुतस्य
For Private
Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
ज्ञानस्य आधानं भवेत् । अन्यथा ज्ञानशून्यायाः तपोभक्त्याराधनादिक्रियायाः मूल्यम् अकिञ्चित्करम् एव सा च क्रिया केवलं कायक्लेशः एव भवति । कदाचित् तु या कर्मनिर्जरायाः कारणं सा एव कर्मबन्धस्य कारणम् अपि स्यात् । अतः वस्तुतः तादृशी क्रिया दोषः एव ज्ञेयः । यदुक्तं च
" जो उ गुणो दोसकरो, न सो गुणो, दोसमेव तं जाण" । १
ननु यदि एवम् अस्ति तर्हि 'ज्ञानक्रियाभ्यां मोक्ष:' इति कथम् उक्तम् ? इति शङ्का जायते । किन्तु अत्र अपि विवेकपूर्वकम् आलोचनीयम् ।
बन्धो ! यथा न ज्ञानमात्रेण मोक्षः, तथा एव न केवलं क्रियया अपि मोक्षः भवति । किन्तु द्वयोः समागमे सति एव मोक्षः भवति । एवं द्वयोः ज्ञानक्रिययोः समानता वर्णिता अस्ति । तथा अपि शास्त्रेषु क्रियातः ज्ञानस्य महत्ता विशेषत: निरूपिता । अत्र अपि शास्त्रपठनमात्रज्ञानस्य न मूल्यम्, किन्तु विवेकपूतस्य ज्ञानस्य एव । यतः कदाचित् पठितज्ञानस्य अजीर्णं भवेत् । तदा चित्ते स्वच्छन्दता - उद्धतता - अहङ्कारादिदुर्गुणाः उत्पद्यन्ते । पश्चात् च तादृशं ज्ञानं स्व- परयोः उभयोः अपकारकं भवति । शासने समाजे च महान्तं क्लेशं जनयति । अन्नस्य अजीर्णम् एकं भवम् एव नाशयति, किन्तु ज्ञानस्य अजीर्णं तु अनेकान् भवान् नाशयति, अतः ज्ञानस्य अजीर्णं तु अतीव दुष्टम् अस्ति । अधुना समाजे सङ्खे च क्लेशः वर्तते, तन्मूलम् अपरिणतं ज्ञानम् एव अस्ति । अतः एव विवेकयुक्तस्य ज्ञानस्य एव प्राधान्यम् अस्ति । तादृशं ज्ञानम् एव सूर्योपमं कथितम्, तथा खद्योततुल्या क्रिया प्ररूपिता अस्ति । एवं द्वयोः मध्ये बृहद् अन्तरं विद्यते । महोपाध्याय श्रीयशोविजयेन व्याकृतम्
क्रियाशून्यं च यज्ज्ञानं ज्ञानशून्या च या क्रिया 1
अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥ ( ज्ञानसारप्रकरणम्)
यत: अज्ञानिनः बहुशः अनुकरणशीलाः परबुद्धिनिर्भराः च सन्ति । तत: एकेन यत् कृतं तद् द्वितीयेन, पश्चात् तृतीयेन, एवं परम्परया तद् एव क्रियते । अत्र तत्क्रियायाः रहस्यं लाभं च न के अपि जानन्ति । तेन कारणेन क्रियाया: कष्टं विषह्य १. यः तु गुणः दोषकरः, न सः गुणः, दोषम् एव तं जानीहि ।
७३
mmm
Page #87
--------------------------------------------------------------------------
________________
amar
म
।
।
अपि तल्लाभेन तु वञ्चिताः एव भवेयुः । अतः एव अज्ञानक्रियायाः सकाशात् ज्ञानपूर्विकायाः क्रियायाः मूल्यम् अधिकम् अस्ति । ततः एव अज्ञानिनः अनेकैः वर्षेः तपोभिः आराधनादिभिश्च यत्कर्म क्षपयन्ति, तत्कर्म ज्ञानी क्षणमात्रेण एव क्षपयति ।। यदुक्तं च - जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं ।
तं नाणी तिहिं गुत्तो खवेइ उस्सासमित्तेणं ॥१ __ भोः ! तामलितापसं स्मर । तेन दुष्करं तपः कृतम् । षष्टिं वर्षसहस्रं यावत् कठिनं दुःसहं च तपः कृतम् । 'तामलितापसेन यत्तपः अकारि, तत्तपसा एव सप्तजीवाः सिद्धिगति प्राप्नुयुः इत्येतावत् सामर्थ्य तत्तपसि आसीत्" इति शास्त्रेषु कथितम् अस्ति। तथा अपि तत्तपः विवेकपूतज्ञानशून्यम् आसीत् । ततः तत्तपसा यत्फलं लभ्यं तन्न प्राप्तम् । एतेन अपि ज्ञायते यत्, ज्ञानान्वितायाः क्रियायाः एव माहात्म्यम् अस्ति ।
बन्धो ! सूपे कृशरे शाके च सर्वेषु व्यञ्जनेषु सत्सु अपि यदि लवणं न स्यात्, तर्हि तेषां यथार्थः आस्वादः न प्राप्यते । तथा एव तपोभक्तिक्रियादिकं सर्वं बहु बहुशः च क्रियते, किन्तु यदि तत्र ज्ञानं न स्यात् तर्हि तत्सर्वम् अपि निरर्थकप्रायं ज्ञेयम् । शास्त्रेषु तु तावत्कथितं यत् जीवदया अपि ज्ञानपूर्विका करणीया । ततः एव कथितं यत्
"पढमं नाणं तओ दया" ।२ (श्रीदशवैकालिकसूत्रम् ४/१०)
अद्य जनाः जीवरक्षार्थं प्रतिदिनं विपुलं धनव्ययं कुर्वन्ति । किन्तु ते एव स्वजीवने व्यवहारे च जीवदयायाः पालनं न कुर्वन्ति, न च तेषां जीववधे सति लेशः अपि उद्वेगः भवति, यतः ज्ञानस्य अभावः अस्ति । यदि ज्ञानयुता दया स्यात् तर्हि अत्र तत्र कुत्रचिद् अपि हृदि जीवरक्षणस्य भावः सदा रममाणः स्यात् । तादृशी दया एव वस्तुतः धर्मः अस्ति ।
किं च, बाह्यक्रियारूपं दानम् अपि विवेकयुक्तं देयम् । अन्यथा तद् दानम् । १. यद् अज्ञानी कर्म क्षपयति बहुभिः वर्षकोटिभिः ।
तत् ज्ञानी त्रिभि: गुप्तः क्षपयति श्वासोच्छासमात्रेण ॥ २. प्रथमं ज्ञानं ततो दया ।
Here
७४
Page #88
--------------------------------------------------------------------------
________________
।
अपि मोघम्, कर्मबन्धनस्य कारणं च भवति । यदि कः अपि दानबुद्ध्या मांसिकस्य छुरिकायाः दानं दत्त्वा मनसि तृप्तिम् अनुभवेत् यत् 'मया दानं कृतम्' इति तत् तु असाम्प्रतम् । यतः 'सः हन्ता अग्रे तच्छुरिकया अनेकान् जीवान् हनिष्यति । तत् तु महानर्थकरम् अस्ति, एवं यद् अनर्थकरं तत् कथं दानम् उच्यते ?' इति बोधः तदा जायते यदि चित्ते विवेकयुतं ज्ञानं स्यात् ! वस्तुतः येन धनस्य आसक्तिः क्षयेत्, दानग्राहकं प्रति बहुमानः आदरः च उत्पद्येत, तथा चित्ते कः अपि आशंसाभावः न । भवेत्, तद् एव दानं ज्ञेयम् । उक्तं च -
यत् स्वयमदुःखितं स्यान्न च पदुःख्ने निमित्तभूतमपि ।
केवलमुपग्रहकरं धर्मकृते तद्भवेत् देयम् ॥
अद्य समाजे प्रतिदिनं दानरूपेण कोटीरूप्यकाणां व्ययः भवति । तत् सर्वं निरर्थकम् अस्ति, इति मत्कथनस्य न आशयः । किन्तु विवेकपूतज्ञानस्य अभावात् एवं भवति यत् 'यत्र न अस्ति धनस्य आवश्यकता तत्र विशेषतः दीयते, यत्र च आवश्यकता तत्र न कः अपि ददाति, ततः च समाजस्य कियन्ति कार्याणि अवसीदन्ति, तथा अन्यत्र धनस्य दुर्व्ययः भवति' इति । यदि खलु विवेकपूतज्ञानपूर्वकेण दानं प्रदीयेत तर्हि समाजस्य सङ्घस्य च कानिचिद् अपि कार्याणि न सीदेयुः । तथा च समाजे सङ्के च य: क्लेशः वर्तते सः नश्येत्, एवं सर्वत्र शान्तिः प्रसरेत् । तदा एव वास्तविकरूपेण शासनप्रभावना भवेत् । एवं विवेकान्वितायाः क्रियायाः एव प्राधान्यम् अस्ति ।।
अद्य जनाः उत्कृष्टं तपः कुर्वन्ति । अनेकवर्षपर्यन्तम् आचाम्लम् (रसहीनरुक्षम् आहारं) एकशः आहारं च कुर्वन्ति । केचित् जनाः तु एकोपवासाद् आरभ्य आशीत्युत्तरशतोपवासपर्यन्तं सानन्दं तपः विदधति । एवं विविधं तपः अधुना क्रियते । हन्त ! एतेन तपसा यदि न दुष्टमनोवृत्तिः दुर्बला भवेत्, विकृतिः न हासं प्राप्नुयात्, न च चित्ते समत्वं जायेत प्रत्युत यदि क्रोध-लोभ-अहङ्कार-स्वप्रशंसा-बाह्याडम्बरादिदुर्गुणानां वृद्धिः एव स्यात्, तर्हि तेन तपसा क: लाभ: ? वस्तुत: बाह्यतपसः साधनेन आभ्यन्तरतपसः सिद्धिः साधनीया । तादृशस्य तपसः सिद्धिः विवेकयुतस्य ज्ञानस्य द्वारेण एव भवति, न अन्यथा । तथा च तादृशं तपः एव कर्मनिर्जरायाः कारणं भवति ।
these
७५
Page #89
--------------------------------------------------------------------------
________________
Version
NE
किं च, तेन ज्ञानयुतेन तपसा चित्ते विवेकः सञ्जायते यत्, "मया एतत् तपः कथं कृतम् ? न तु आडम्बरार्थम् अपि तु चितविशुद्ध्यर्थम् आहारसंज्ञां न्यूनीकर्तुम्, समतालाभार्थं च एव कृतम्" इति । ततः तत्तपः एव धर्मरूपम् अस्ति, तदेव च लाभदायि अपि भवति ।
अद्य प्रभुभक्त्यासक्ताः जनाः विपुलं धनं व्ययीकुर्वन्ति, समयव्ययं च अपि कुर्वन्ति । किन्तु तत्पश्चात् यदि चित्ते मोहः जागृयात्, परिग्रहभावना उत्पद्येत, यत् व्ययीकृतं तस्य पुनः प्राप्त्यर्थम् आकाङ्क्षा उद्भवेत्, अहङ्कारः आगच्छेत्, तर्हि तया भक्त्या किं प्रयोजनम् ? सत्यम्, एतद्भक्तिः केवलं बाह्यधर्मरूपा न तु आत्मोन्नतिविधायिनी वास्तविकधर्मस्वरूपा च । यदि ज्ञानान्विता भक्तिः स्यात् तर्हि सा एव भक्तिः आत्मिकोत्थानस्य कारणं भवेत्, तथा च संसारस्य आसक्ति क्षपयेत् । क्रमशः च धनमूर्छा गतप्रायिका भवेत्, तथा भगवन्तं गुरुं धर्मं च प्रति बहुमानः आदरः च चित्ते संजायेत । अन्यथा भक्तिशब्दः एव तत्र स्यात्, न तु तद्रहस्यम् । तदा च सा भक्तिः संसारोत्तारिणी न भवेत् ।
__ अद्य समाजे उत्कृष्टधर्मरूपा सर्वविरतिः दीक्षा बहुभिः गृह्यते । जननी-जनकभ्रातृ-भगिनी-गृह-आपण-सर्वसुखसाधन-पदप्रतिष्ठादिकं सर्वम् अपि सन्त्यज्य दीक्षा स्वीक्रियते । किन्तु तत्पश्चात् यदि पूर्वस्नेहिजनानाम् आसक्तिः न अल्पीभवेत्, पूर्वानुभूतसुखं न विस्मर्येत, पूर्वकालीनमानप्रतिष्ठायाः अहङ्कारः सदा चित्ते रमेत, मनसि ईर्ष्या-क्षुद्रताहङ्कारा-सूया महत्त्वाकाङ्क्षा-सहिष्णुतादिकं प्रतिक्षणं प्रादुर्भवेत्, अन्येषां जनानां प्रतिबोधाय एव सर्वदा औत्सुक्यं वर्तेत, भक्तजनानां हितार्थं शिष्यवृद्ध्यर्थं च स्वाचारात् भ्रष्टता भवेत्, एवंरीत्या मनः अतृप्तिवशात् सदा व्याकुलं च भवेत्, तथा बाह्यसंसारं विहाय अतीव विस्तृतं समृद्धिपूर्णम् आभ्यन्तरसंसारं विरचय्य केवलं बाह्याडम्बरे एव मग्नाः । भवेयुः, तर्हि दीक्षया किं प्रयोजनम् ? कः च लाभः ?
__ बन्धो ! संयमजीवनस्य वास्तविकाराधना तदा एव भवेत् यदा सा आराधना सज्ज्ञानपूर्विका स्यात् । तस्मिन् काले एव च संयमस्य यथार्थानुभूतिः स्यात् । एतादृशः जीवः "एतद् बाह्यक्रियया आत्मिकलाभः भवति न वा, मया स्वकल्याणार्थम् एव दीक्षा अङ्गीकृता, न तु केवलं परहिताय । ततः मत्संयमजीवनापकारिण्या आत्मिक
Lane
Raalee
७६
Page #90
--------------------------------------------------------------------------
________________
गुणोत्कर्षबाधकया च परकल्याणचेष्टया अलम्" इति चिन्तयति ।
वस्तुतः स्वकल्याणे स्वगुणवृद्धौ स्वस्वभावे च रमणम्, तस्मिन् एव संयमजीवनस्य यथार्थता अस्ति, तदेव श्रेयस्करम् अस्ति । तर्हि एव सत्यरूपेण संसारविसर्जनस्य प्रक्रिया भवेत् । एवं ज्ञानयुतायाः एव दीक्षास्वरूपक्रियायाः माहात्म्यम् अस्ति ।
एवं शासने ज्ञानस्य अतीव मूल्यम् अस्ति । ज्ञानशून्या सर्वा अपि क्रिया अकिञ्चित्करा आभासिकी आडम्बररूपा च एव ज्ञेया । प्रथमं ज्ञानेन हेय-ज्ञेय - उपादेयस्य विवेक: जायेत, तदनु च या क्रिया क्रियते सा एव क्रियात्वेन व्याख्यायते । सङ्घं शासनं च केन्द्रीकृत्य या का अपि आराधना क्रियते सा एव वस्तुतः क्रिया, अन्यथा तु क्रियायाः व्याजेन प्रपञ्चः एव ज्ञेयः । ततः एतादृशी क्रिया एव धर्मत्वेन निरूपयितुं
शक्या ।
अद्य जैनसमाजे जैनेतरसमाजे च पूर्ववर्णितस्य बाह्यधर्मस्य आडम्बरस्य च एव वृद्धिः दृश्यते, न तु वास्तविकरूपस्य धर्मस्य । अद्य समाजे क्रियायाः उदरे दुष्टावकरः विशेषतः वृद्धिं गतः अस्ति । धर्मे इयत्तायाः माहात्म्यं विस्तृतम् अस्ति । एतेन एवं कृतं, एवं कृतं, एतेन इयत् धनं व्ययीकृतम् । हन्त ! अद्य तु धर्मस्थानेषु धनव्ययेन एव धर्मः भवति, इति स्थितिः वर्तते । ततः यः बहु धनं व्ययीकरोति सः धर्मी इति ख्याप्यते, किन्तु सः तु आभासः एव । तथा अपि इदानीं समाजे बाह्यक्रियायाः एव साम्राज्यं दरीदृश्यते । ततः एव वयं सर्वे अपि सज्ज्ञानक्रियायाः शनै: शनै: अतीव दूरं गच्छन्तः स्मः । कदाचित् तादृश्या बाह्यक्रियया समाजे पूजा - मान-प्रतिष्ठा - प्रशंसादिकं सर्वम् अपि प्राप्यते, किन्तु मूलतः तु तत्सर्वम् आत्मोन्नतौ बाधकम् अस्ति । एवं सज्ज्ञानस्य अभावात् तादृशी धर्मरूपा क्रिया एव प्रेरणादातुः कारकस्य च दुर्गुणपोषकरूपा भवति । ततः एव प्राचुर्येण धर्मक्रियायां सत्याम् अपि सर्वत्र समाजे सङ्खे च क्लेशः असहिष्णुता असूयावृत्तिः ईर्ष्या च वरीवृत्यन्ते । सर्वस्याम् अपि धर्मसंस्थायां पदाकर्षणवृत्तिः अहङ्कारसाम्राज्यं च दरीदृश्यते । अहो ! खलु धर्मस्य व्याजेन एवं वर्तते । 'बाबरी मस्जिद' नाम्ना देशे नैकेषां जनानां हिंसा: भवन्ति । मुस्लिमजनै: 'जेहाद' नाम्ना आतङ्कवादः प्रसारितः । पाश्चात्यजनाः धर्मस्य व्याजेन मायाप्रपञ्चादिकं कुर्वन्ति । एवं
७७
pk por
Page #91
--------------------------------------------------------------------------
________________
AN
Ramarohi
धर्मस्य व्याजेन सर्वत्र क्लेशः एव प्रसृतः अस्ति । सूक्ष्मदृष्ट्या तन्मूलं निरीक्ष्यते तदा ज्ञायते यत्'ज्ञानस्य नितराम् अभावः एव वर्तते, अपात्रजनानां हस्ते एषः चिन्तामणिरत्नोपमः सर्वोत्तमधर्मः आपतितः अस्ति' । यदि एतज्जनानां चित्ते ज्ञानरूपस्य द्वारस्य उद्घाटनं भवेत् तर्हि स्वतः एव क्लेशः विनश्येत्, तथा च शान्तिः प्रसरेत् ।
एवं ज्ञानं-बोधः एव सर्वस्य मूलम् अस्ति । यथा यदि गृहस्य मूलं दृढं न स्यात् तर्हि तद् उपरि गृहरचना न सम्यक् जायते । कदाचिद् भवेत् तथा अपि भीतिः संभवेद् एव, यत् कदाचिद् अपि नश्येत् । तथा एव ज्ञानरूपं मूलं विना क्रियमाणस्य अपि बाह्यधर्मस्य न मूल्यम्, न कः अपि लाभः । एवं सर्वत्र ज्ञानयुतायाः क्रियायाः एव प्राधान्यम् अस्ति ।
अन्ते ज्ञानशून्यां क्रियां कुर्वतां जनानाम् अनुमोदनं न कुरुत, किन्तु वास्तविकधर्मस्य स्वरूपं बोधयतु । तथा वयं सर्वे अपि यां यां क्रियां कुर्याम, तां क्रियां ज्ञानपूर्विकां कुर्याम । एवम् आत्मिकधर्मोन्नतिः सिद्ध्येत्, इति मे स्पृहा ।
||
Pane
गुणानामेव दौर्जन्याद् , धुरि धुर्यो नियोज्यते । असञ्जातकिणस्कन्धः , सुखं जीवति गौर्गलिः ॥
शीलाङ्काचार्यकृतायाम्- आचाराङ्गवृत्तौ
७८ For Private Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
स्वभावदर्शनम्
मुनिकल्याणकीर्तिविजयः
यदा मनुष्यस्य मनसि क्रोध: जागर्ति तदा सः क्रोधेन सह एव तदेकरूपः भवति । यदा च तन्मानसे कामनाः प्रकटन्ति तदा सः ताभिः कामनाभिः सह अपि तादात्म्यम् अनुभवति । निजं शुद्धं निर्मलं च अस्तित्वं विस्मरति । किन्तु यदि सः तदानीं क्षणम् अपि निजचित्तभ्रामके अस्मिन् झञ्झावाते स्थिरतया स्थातुं प्रयत च तर्हि तस्य अन्यः एव कश्चिद् विलक्षणः अनुभवः भवति बाई - इत्यस्य कथनं स्मृतिपटे आलेखनीयम् ।
अत्र विषये झेन - गुरोः
एकदा बान्केई -पार्श्वे कश्चिद् आगत्य निवेदितवान्
गुरो ! मम स्वभावः अतीव कोपनशीलः । तं वशीकर्तुं किं कर्तव्यं मया ? कर्तुं कि व कृपया मे उपायान् प्रदर्शयतु ।
अनुवाद:
गुरुणा उक्तम् - ननु विचित्रम् एतत् । परन्तु प्रथमं दर्शय तावत् तव स्वभावः कीदृश: अस्ति इति ?
अधुना तु न अहं तद् भवते दर्शयितुं समर्थः ।
तर्हि कदा दर्शयिष्यसि ?
यदा मम क्रोधाग्निः प्रज्वलिष्यति.....
ननु तर्हि सः न ते स्वभावः भवितुम् अर्हति । यतः, यदि सः तव स्वभाव: एव स्यात् तर्हि त्वं यदा कदा अपि तं मे दर्शयितुं शक्नोषि । किञ्च यदा त्वं जातः तदा अपि तव अयं स्वभावः न आसीत् । तथा तव मातापितृभ्याम् अपि ते न अयं प्रदत्त: । अत: प्रशान्तचित्तेन एतद्विषये विचारं कुरु । स्वयमेव तव समाधानं भविष्यति ।
[गूर्जरभाषायां मूललेखक: श्रीमकरन्द- दवे "सूर्यनी आमन्त्रणपत्रिका' इति पुस्तके ]
७९
Page #93
--------------------------------------------------------------------------
________________
अनुवादः प्राज्ञपुरुषस्य उत्तराः
ISSUNNY
('मिलिन्द-पन्हा' तः)
मुनिकल्याणकीर्तिविजयः
(१) आर्यनागसेन ! यस्य पुनर्जन्मग्रहणं न अस्ति, तादृशस्य पूर्णपुरुषस्य कदाचित् 7 किञ्चिद् अपि दुःखं भवति किल ?
तस्य एकप्रकारकं दुःखं कदाचित् स्याद् अपि । परन्तु द्वितीयप्रकारकं दुःखं तु न कदाचित् कथञ्चिद् अपि सम्भवेत् ।
कृपया स्पष्टीकरोतु ।
तस्य शारीरिकं दुःखं तु स्याद् अपि महाराज ! किन्तु मानसिकं दुःखं न एव भवेत् ।
कथम् ?
शारीरिकदुःखस्य दवीयांसि नेदीयांसि वा कारणानि न अद्य अपि तस्य सर्वथा प्रणष्टानि । अतः तस्य शरीरसम्बन्धि दुःखं तु भविष्यति । किन्तु मानसिकदुःखस्य तु - सर्वाणि अपि निमित्तानि तेन सर्वथा विनाशितानि । अतः तस्य मनोनिमित्तकं दुःखं तुम न कदाचिद् अपि भविष्यति । भगवता बुद्धेन अपि कथितम् - "स: दैहिकं दुःखम् अनुभवति न तु मानसिकम्" इति ।
ननु तहि कथं सः देहत्यागं न करोति ?
महाराज ! तस्य न का अपि आसक्तिः ईर्ष्या वा काचित् विद्यते । तथा सः अपक्वानि फलानि अवचेतुं न इच्छति किन्तु तेषां पाककालं प्रतीक्षते । अत एव भिक्षुसङ्घस्य धर्मसेनापतिना ‘सारिपुत्त' इत्यनेन कथितम् -
___ 'न अस्ति मे मृत्योः स्पृहा, न च अपि जीवनस्य लालसा । केवलं निःस्पृहतया सावधानतया च अहं कालं गमयामि ।' इति ।
सुष्ठ स्पष्टीकृतम् आर्य ! ॥
स
THE
८०
Page #94
--------------------------------------------------------------------------
________________
(२)
ANANE
-3500-
treaministration
आर्यनागसेन ! युष्मादृशाम् एकान्तवासिनां विरक्तानां च किं शरीरे रागः भवेत् कदाचित् ?
नहि महाराज !, विरक्ताः शरीरे आसक्ताः न भवन्ति ।। ननु तर्हि किमिति ते शरीरं पोषयन्ति ? किमर्थं च तस्य रक्षणादिकं कुर्वन्ति ?
भवन्तः यदा युद्धं गच्छन्ति युध्यन्ते च शत्रुभिः तदा किं कदा अपि शस्त्रप्रहारैः व्रणिताः भवन्ति वा ?
आम् ! नैकधा भवामः ।
तदात्वे महाराज ! भवतां व्रणानि औषधैः सज्जीकृत्य तैलादिभिः च आर्दीकृत्य पट्टिकासु बध्यन्ते न वा ?
अवश्यं बध्यन्ते, तद्रक्षणम् अपि क्रियते ।।
तर्हि किं भवतां व्रणाः प्रियाः भवन्ति ? येन भवन्तः तेषाम् अति जागरूकतया रक्षणं कुर्वन्ति ?
न एवम् आर्य ! व्रणाः तु न एव प्रियाः अस्माकम् । किन्तु एवंकरणेन ते शीघ्रतया सज्जाः भवेयुः तथा तत्स्थाने नूतना त्वक् आविर्भवेद् इति एव एतत् सर्वं FA क्रियते ।
तर्हि महाराज ! अयम् एव न्यायः विरक्तैः अपि आश्रीयते । न हि ते शरीरे विलग्नाः आसक्ताः भवन्ति । किन्तु निर्मलस्य निरामयस्य च जीवनस्य कृते एव शरीरं पा पोषयन्ति । भगवता बुद्धेन इदं शरीरं व्रणोपमं वर्णितम् । भिक्षवः हि अतः एव शरीरं सहन्ते पोषयन्ति रक्षन्ति च, किन्तु सर्वथा अनासक्तभावेन ।
शोभनम् उक्तं भवता आर्य ! ।।
८१
Page #95
--------------------------------------------------------------------------
________________
(३) आर्यनागसेन ! किं भवन्तः भिक्षवः अतीतकालीनं शोकं विनाशयितुं प्रयत्न
कुर्वन्ति वा ?
SHARMA
न एव महाराज ! तर्हि भाविनं शोकं व्यपगमयितुं प्रयस्यन्ते वा ? नहि महाराज ! तर्हि वर्तमानं शोकं दूरीकर्तुं प्रयतन्ते वा ? न, तम् अपि न !
ननु भूतकालीनस्य भविष्यतः साम्प्रतस्य च शोकस्य विनाशाय भवन्तः न यतन्ते तर्हि किं कर्तुं भवन्तः प्रयतन्ते ?
_ महाराज ! भवान् अपि कीदृशं प्रश्नं पृच्छति ? वयं हि शोकाख्यं यद् वस्तु । अस्ति, तत् सर्वथा यथा विनश्येत पुनः च कदाचिद् अपि न उत्पद्येत इति एतदर्थम् एव प्रयतामहे ।
ननु नागसेनार्य ! अधुना अस्मिन् क्षणे भाविकालीनस्य शोकाख्यवस्तुनः अस्तित्वं विद्यते वा ?
नहि महाराज ! तत् तु अहम् अपि स्वीकरोमि ।
तर्हि यद् न अस्ति एव तद् दूरीकर्तुं प्रयतमाना भवन्तः अतिशयेन चतुराः - दृश्यन्ते ।
महाराज ! भवतः प्रतिस्पर्धिनः राजानः भवतः नगरं कदाचिद् आक्रामन्ति वा? - नूनम् आक्रामन्ति ।
ननु तदात्वे एव, मन्ये अहं यद्, भवान् प्राकारं प्रगुणीकुर्याद् वा, परिखादिकं खनयेद् वा नगराद् बहिः, शत्रुनिरीक्षार्थं कूटादिकं कारयेद् वा, धान्यसञ्चयं कुर्याद् वा? स
न एव आर्य ! नहि एव । तत् सर्वं तु पूर्वम् एव प्रगुणीभूतं स्यात् ।।
तर्हि तदा एव भवान् भवतः सैनिकाः च गजाङ्कशनम् अश्वारोहणं रथचालनं शस्त्रक्षेपणं च इत्यादिकम् अभ्यस्यन्ति वा ?
२
Page #96
--------------------------------------------------------------------------
________________
।
नहि नहि आर्य ! तत् सर्वं तु पूर्वम् एव सम्यक्तया अभ्यस्तं भवेत् ।। किमर्थं ननु तत् सर्वम् ? आयतिभयं दूरीकर्तुं खलु !
कथम् एवम् ? अधुना अस्मिन् क्षणे 'आयति'नामकं किञ्चित् वस्तु विद्यते वा?
न एव आर्य ! एतत् तु स्वीकरोमि अहम् । तर्हि यद् न अस्ति एव तद् दूरीकरणाय प्रयतमानः भवान् अतीव दक्षः खलु !
सत्यम् उक्तं भवता आर्य ! किन्तु अन्यद् अपि एकम् उदाहरणं यदि दीयेत तदा सन्तोषः भवेत् ।
महाराज ! कथयतु मां यद् यदा भवन्तं पिपासा बाधते तदा एव भवान् कूपखननं तडागनिर्माणं वा कारयति खलु ? । नहि आर्य ! कूप-तडागादिकं तु पूर्वम् एव कृतं भवति । किमर्थं ननु ? भाविकालीन-तर्षस्य अपगमार्थम् । कथम् एवम् ? अधुना अस्मिन् क्षणे ‘भावि-तर्ष'नाम किञ्चित् वस्तु विद्यते
व
वा
न एव भगवन् !
तर्हि महाराज ! यद् न अस्ति एव तादृशम् अपि भाविपिपासादिकं दूरीकर्तुं प्रयतमानाः भवन्तः अतीव चतुराः दृश्यन्ते ।।
अवगतं नागसेनार्य ! अवगतं भवतां जीवनसाधनायाः तात्पर्यम् ।
(स्थूलजीवनसाधनावत् आत्मिकजीवनसाधना अपि अनिवार्या एव साधकानाम् । इति सम्यग् ज्ञात्वा तत्साधनायाः च रहस्यम् अपि अवबुध्य मिलिन्दस्य चित्तं सुप्रसन्नम् अभवत् ।)
[गूर्जरभाषायां मूललेखकः श्रीमकरन्द-दवे "सूर्यनी आमन्त्रणपत्रिका" इति पुस्तके |] ।
Page #97
--------------------------------------------------------------------------
________________
कथा
F
महा।लादमता
विजयसूर्योदयसूरिः
V
KKKKKRXXXXXXXXXXX||
प्राचीनकालस्य इयं कथा । शकटद्वारेण तदा व्यापारः चलन् आसीत् । कः अपि एक: व्यवहारी आसीत् । सः शकटान् भृत्वा व्यापाराय चलति स्म।
शकटवाहकेन कथितम् - "चौरवृन्दैः भयानकः अयं मार्गः अस्ति, अत: आरक्षकान् सह आनयतु" इति ।
"त्वं मा भैषीः, व्यापारकारिणं न कः अपि उपलक्षयति" इति व्यवहारी - अवोचत् । ततः शकटाः चलिताः । सञ्जातः अन्धकारः । तदा एव लुण्टाकाः आगताः । ANA त्वरितम् एव तैः लुण्टिताः शकटाः ।
इतः सः व्यवहारी तु लुण्टाकान् निरीक्ष्य एव शकटात् उत्तीर्य दूरं गतः । तत्र ANK आत्मानं विगोप्य स्थितः सः । लुण्टाकेषु गतेषु सः निरगात् बहिः ।।
शकटवाहकेन गदितम् - मया पूर्वम् एव कथितम् आसीत् - आरक्षकान् सह गृह्णातु, इति । अधुना तु गतं सर्वस्वम् ।
तदा व्यवहारिणा विहस्य भणितम् - "किमर्थं त्वं चिन्तां करोषि ? गतं चेत् भवतु ! किं तेन ? यतः तेषां वस्तूनां मूल्यपत्रिकाम् आदाय एव दूरं गत्वा अहम अतिष्ठम् ।
शकटवाहकः आह - "वस्तुभ्यः अपि किम् इयं मूल्यपत्रिका अर्ध्या" ?
आम्, आम् । यतः ते तां विना केन मूल्येन वस्तूनां विक्रयं करिष्यन्ति ? इति उक्त्वा सः व्यवहारी उच्चैः हसितवान् ।
NK * एताः कथाः पूज्याचार्यश्रीविजयसूर्योदयसूरिमहाराजैः स्वविद्याथिकाले लिखिताः आसन् ।
४
Page #98
--------------------------------------------------------------------------
________________
कथा
श्रुतिव्यसनम्
हरिदास: नाम एकः श्रेष्ठी आसीत् । सः च परमविष्णुभक्तः । सः आद्वादशवर्षात् 'भागवतं' शृणोति स्म । प्रतिदिनं व्यासः कथार्थम् आगच्छत् ।
एकदा हरिदासः व्यासाय अकथयत्- "कल्ये अहं बहिः गमिष्यामि । कथायाः श्रवणं कथं करिष्यामि ? यतः नियमस्य भङ्गः भविष्यति" इति ।
व्यासः आह कथां करिष्यामि अहम्, भवत्पुत्रः श्रवणं करिष्यति । ततः न नियमभङ्गः भवेत् ।
1
विजयसूर्योदयसूरिः
तत् श्रुत्वा विस्मितः सन् हरिदास: उवाच - प्रभो ! न एवम् सः तु बालः, सः च सरलहृदयः । ततः कथां श्रुत्वा संसारात् विरक्तः भवेत् कदाचित् ।
व्यासः अवाक् भवान् एतां कथां द्वादशवर्षात् शृणोति, न च तथा अपि विरक्त: जात: । तर्हि अयं तु कथम् एकदिनेन एव कथां संश्रुत्य विरक्तः भविष्यति ? तदा श्रेष्ठिना व्याकृतम् - अयं बालः अस्ति । " श्रुते कुत्र प्रवर्तितव्यं कुत्र न" इति न जानाति एषः ।
00-00-0
अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
अर्थं हितमहितं वा न वेत्ति येनाssवृतो लोकः ॥ [ शीलाङ्काचार्यकृतायाम् - आचाराङ्गवृत्तौ ।]
८५
Page #99
--------------------------------------------------------------------------
________________
द्वयोः द्वन्द्वे सफलः तृतीयः
कथा)
विजयसूर्योदयसूरिः
आसीत् कः अपि एकः क्षत्रियपुत्रः । सः सुखी वीरः च आसीत् ।
एकदा तस्य गृहे चौरः आगतः । कृतं चौर्यम् । तदा एव उत्थितः क्षत्रियः । तत् चौरं बद्ध्वा राजपुरुषाय अदात् सः । राजपुरुषः तम् आदाय न्यायसभायाम् अगात्।
तत्र चौरेण गदितम् - "एतेन क्षत्रियेण मे धनम् अपहृतम् " इति । एतत् श्रुत्वा त्वरितम् एव क्षत्रिय आह- "मम धनम् एतेन चोरितम्" इति ।
अन्ते "गृहप्रवेशापराधं चौरे निश्चित्य चौरः अयं द्विमासं यावत् कारागारे तिष्ठतु" इति न्यायाधिकारिणा आज्ञापितम् ।
"मम धनं दीयताम्" इति क्षत्रियेण कथितम् ।
तदा न्यायाधीशः अवदत् - "इदं धनं भावत्कम् इति साक्षिणं विना कथं निश्चेतुं शक्यम् ? अतः गत्वा साक्षिणम् आनयतु । यदि ते कथयिष्यन्ति 'धनम् अस्य अस्ति' इति तदा दापयिष्यामि" ।
तदा क्षत्रियः अवक् - यत्, महाचौरः आगतः, चोरितं च धनम्, तदा कुतः साक्षी ?
न्यायाधीशः उवाच - "साक्षिणं विना कथं धनं दीयते ?" __ ततः क्रुद्धः सन् क्षत्रिय: चौराय चपेटां दत्त्वा कथितवान् - "रे ! मूर्ख ! त्वं चौर्याय आगतः तदा घोटके उपविश्य आगतः चेत् तर्हि तम् अपि साक्षीकृत्य धनं मम का स्वाधीनं कर्तुं शक्यम् अभविष्यत्, किन्तु अधुना तु न धनं मम अभूत्, न तव" इति ।
८६
Page #100
--------------------------------------------------------------------------
________________
कथा
চরফুদি
मुनिरत्नकीर्तिविजयः
प्रातःकालीनः समयः आसीत् । गृहे सर्वेऽपि सुखनिद्रायाः उत्सङ्गम् आश्रिताः o आसन् । सामान्यतः अपि तस्मिन् गृहे त्रयः एव सदस्याः आसन् - पिता चीमनलाल: to तस्य पुत्रः मनुः, पुत्रवधूः रमा च इति ।
__ लघुः अपि शब्दः अप्रीतिकरः स्यात् एतादृशः समयः आसीत् सः । सहसा ? Eo एव महानसे भाण्डानां पतनेन वातावरणं क्षणं शब्दमयं सञ्जातम् ।
'ओह....सुखेन शयनम् अपि अस्मिन् गृहे न भवति' - निद्राभङ्गात् सरोषम् उक्तवती रमा । सम्मुखम् एव उत्थितं श्वसुरं सा दृष्टवती । सः किञ्चिद् भीतः विलक्षः इव च सञ्जातः आसीत् ।
___वधु ! सम्यक्तया द्रष्टुं न शक्नोमि । उपनेत्रं परिवर्तितव्यम् इति प्रतिभाति । अनेन काष्ठफलकेन स्खलितः अहम्' - सः उवाच । एवं श्रुत्वाऽपि रमा किमपि अनुक्त्वा मुखं विवर्ण्य कार्ये मग्ना जाता । किन्तु एतादृशेन व्यवहारेण सः- 'किमर्थम् एतादृशः उपेक्षापूर्णः व्यवहारः क्रियते मया सार्द्धम् ? किम् अहम् एतस्मिन् गृहे अनुपयोगी वा अतिरिक्तः वा अस्मि ?' - इति विचिन्त्य खिन्नः जातः । एवमेव कतिचिद् दिनानि यावत् तेन उपनेत्रस्य वार्ता अपि न पुनः उच्चारिता ।।
किन्तु गच्छता दिनेन तस्य नेत्रस्य व्याधिः अपि वृद्धि गतः । अतः एकदा पुत्रम् उद्दिश्य उक्तवान् - वत्स ! मम नेत्रयोः चिकित्सा यथाशीघ्रं करणीया प्रतिभाति । सम्यक्तया द्रष्टुं न पारयामि, अन्धः इव अनुभवामि । कथाश्रवणार्थं गमने अपिकदाचित् स्खलनं प्राप्य पतिष्यामि - इत्येव भयं वर्तते सततम् ।
किमपि प्रत्युत्तरं पुत्रः यावद् ददाति तावद् एव रमा उक्तवती-सामान्यतः तु गृहे
८७
Page #101
--------------------------------------------------------------------------
________________
FO एव स्थातव्यं भवति भवता खलु । कञ्चित् कालं कथाश्रवणं यदि न स्यात् तहि तत्र F का नाम हानि: भवतः ?
एतादृशं वचनं श्रुत्वा पिता स्तब्धः अभवत् । किन्तु मनुः वार्तातन्तुं हस्तेकृत्य EY उक्तवान् - आगामिनि रविवासरे अस्माकं महाविद्यालयात् अजंता-इलोरा-दोलताबादादीनां स्थलानां प्रवास: आयोजितः अस्ति । सर्वेऽपि प्राध्यापकाः पत्नीभिः सह आगमिष्यन्ति.....
भवतु, भवतु । तर्हि त्वं रमा चाऽपि अवश्यं गच्छताम् - तस्य वार्तायाः भावार्थम् अवबुध्य मध्ये एव पिता अवदत् ।
किन्तु तत्र व्ययः अधिकः भविष्यति । एतेन च भवतः उपनेत्रस्य कार्येऽपि विलम्बः भविष्यति । किं तावद् धैर्यं शक्यम् अस्ति ? - अपराधभावेन मनुः उक्तवान्।
पिता तु सहसा आम् आम् इति स्वसम्मतिं सूचयित्वा कथमपि स्वस्थतां | प्राप्तवान् । किन्तु तूष्णीं स्थातुम् अशक्ता रमा पुनरपि तत्र स्वाभिप्रायं दत्तवती - 'मासपर्यन्तं प्रतीक्षाकरणात् तु महाजनसञ्चालिते चिकित्सालये यदि अगमिष्यत् तर्हि विना मूल्यम् एव कार्यम् अभविष्यत् इत्येव शोभनम्' इति । पित्रा तु सर्वम् अपि एतत् स्वस्थतया श्रुतं सोढं च ।
___ मनुः रमा च मित्रपरिवारेण सह प्रवासार्थम् अगच्छताम् । प्रवासं कुर्वन्तः | सर्वेऽपि दोलताबादम् प्राप्तवन्तः । तत्रत्यं प्राचीनं प्राकारं निरीक्ष्य सर्वेऽपि चर्चा कुर्वन्तः
उपविष्टाः आसन् । प्राकारस्य भग्नां जीर्णाम् उपेक्षितां च अवस्थां दृष्ट्वा सर्वेषां खेदः जातः । तदा एव एकः विद्यार्थी अवदत् - "यथा वयम् अस्माकं वृद्धानां मातापितृचरणानां परिचर्यां सप्रेम कुर्मः तथैव किम् एतादृशां पुरातनानाम् ऐतिहासिकदृष्ट्या च महत्त्वपूर्णानां स स्थलानां रक्षण-संवर्धनादिकम् अस्माकं कर्तव्यं नास्ति खलु ?"
एषा चर्चा तु दीर्घ प्रवृत्ता । किन्तु 'मातापितृचरणानां सप्रेम परिचर्या' इति विद्यार्थिना सहजम् आर्द्रभावेन उच्चारिताः शब्दा: मनोः हृदये व्यथाम् उत्पादयन्त: आसन् । सः शून्यमनस्कः जातः । कस्याम् अपि चर्चायां सः भागं वोढुं न अशक्नोत् । तस्य हृदयसमक्षं स्वकीयः भूतकालः उपस्थितः अभूत्-'स्वविकासार्थं पिता किं किं न
980363
८
Page #102
--------------------------------------------------------------------------
________________
Ko किन्न
FO कृतवान् ? शालायां तु सः शिक्षकः आसीत् । बहुकष्टेन आजीविका निर्वहति स्म सः। कि Ko एवं सत्यपि मम अभ्यासार्थं तेन कियान् श्रमः निर्वोढः ! स्वकीयाम् आवश्यकताम् र
अपि सङ्कोच्य मम अभ्यासार्थं धनव्ययः कृतः । एकेन एव वस्त्रयुगलेन कथम् अपिल
स: वर्षं यापयति स्म । एतावत्पर्यन्तं तेन स्वकीया आवश्यकता गौणीकृता आसीत् । हो। पश्चात मम विवाहादि कार्यम अपि तेन निर्वर्तितम । पश्चाच्च रमायाः आभरणविषयकायाः Fol अभिरुचे: पोषणार्थम् आजीवनं श्रमं कृत्वा सञ्चितं धनम् अपि निःसङ्कोचं दत्तवान् ।
| किञ्च, अहं तु कीदृशः ? अद्यावधि कदापि काऽपि इच्छा तेन मम पुरतः न प्रकटिता। For मम प्रसन्नतायाम् एव स्वप्रसन्नतायाः समावेशः तेन कृतः । अद्य तु प्रथमम् एव अहम् । उपनेत्रार्थं सूचितः । तदपि नेत्रयोः व्याधेः कारणात् न तु स्वरुचिपोषणार्थम् । तादृशी सामान्या अपि आवश्यकता तस्य मया न पूरिता ? अनिवार्ये अपि तत्कार्ये व्याजाः प्रदर्शिताः मया ? कीदृशः कृतघ्नः अहम् ?" इति । एवं विचारयतः तस्य समक्षं विना उपनेत्रम् इतः ततः स्खलतः पततः व्यथां च अनुभवतः स्ववृद्धपितुः मूर्तिः आगता । प्रवासादिकात् मनोरञ्जकात् कार्यक्रमात् तस्य मन: प्रतिनिवृत्तम् । अथ लघुः अपि प्रसङ्गः सहजम् एव पितुः एव साक्षात्कारं जनयति स्म । तस्य हृदयम् एव तं पीडयति स्म । प्रवासं समाप्य कदा गृहं प्राप्नुयाम् - इति अधैर्यं जातं तस्य । स्वकृत्यार्थं ग्लानिम् अनुभवति स्म सः । अतः 'गृहं गत्वा सर्वप्रथमं पितुः नेत्रयोः चिकित्साम् एव कारयिष्यामि' इति अचिन्तयत् ।
अस्मिन् चिन्तने एव गृहं प्राप्य तेन विद्युद्धण्टिका वादिता । स्वस्य अपराधात् मुक्त: भवितुं तस्य आकाङ्क्षा उद्दीप्ता जाता आसीत् । क्षणेन द्वारम् उद्घटितम् । 2 वात्सल्यं वर्षयन् पिता एव तस्य समक्षम् उपस्थितः आसीत् । परन्तु किम् एतत्....? - नवीनम् अपनेत्रं तस्य मुखे शोभमानम् आसीत् । तद् दृष्ट्वा तस्य चित्तं पुनः विचारचके पतितम् ।
पिता तु तम् आगतं दृष्ट्वा एव प्रसन्नीभूय कुशलवार्ता प्रष्टुं लग्न: - 'अहो ! म - अहो ! आगतः त्वम् ? आगच्छतु आगच्छतु । कीदृशः जातः प्रवास: ? काऽपि
प्रतिकूलता तु न अनुभूता खलु ? इदानीं शीतकाल: प्रवर्तते अतः ततः रक्षणार्थं पर्याप्त F, वस्त्रादिकं नीतं न वा ?' इत्यादि । किन्तु एकः अपि तस्य शब्दः तस्य कर्णम् उल्लङ्घ्य
८९
Page #103
--------------------------------------------------------------------------
________________
FO चित्ते न प्रविष्टः एव । तस्य दृष्टिः तु नवीने उपनेत्रे एव स्थिरा जाता आसीत् । - on विचारमग्नः स जातः यद् - 'किं पिता महाजनसञ्चालिते चिकित्सालये गतः अभविष्यत् ? -
किन्तु न एतत् शक्यम्, यतः तत्र एतावत् मूल्यवत् उपनेत्रं न उपलभ्यते'- इति । KO एवं विचिन्त्य अपि तदर्थं सः पृष्टवान् - किं भवान् महाजनस्य चिकित्सालये गतः आसीत् ?
'अरे ! नैव नैव । एतत् तु.... तदा प्रकाशजोशी नामकः विद्यार्थी आसीत् । | भवतः अग्रिमायां कक्ष्यायां सः पठन् आसीत् । उपलक्षितः खलु त्वया ?'
एवं संश्रुत्य विद्यार्थिकालः तस्य स्मृतिपथम् आगतः । सः चिन्तितवान् यत् 'एकः प्रकाशनामक: विद्यार्थी आसीत् । सः दरिद्रः आसीत् किन्तु अध्ययने तु कुशलः
मेधावी च आसीत् । पितुः सः स्नेहपात्रम् अपि आसीत् । पिता अपि तस्य अभ्यासे र सदा सप्रेम साहाय्यं विदधाति स्म ।' एवं स्मृत्वा सहसा सः उवाच
'आम् आम् ! उपलक्षितः । किन्तु किं तेन ?'
'प्रातः एव सः गृहम् आगतवान् आसीत् । सः प्रतिष्ठितः नेत्रचिकित्सकः जातः अस्ति । एतावती महतीं प्रतिष्ठां लब्ध्वा अपि तस्य स्वभाव: पूर्ववत् विनम्रः एव
अस्ति । तत्र किमपि परिवर्तनं न जातम् । आगमनेन सह एव प्रथमं मम पादसंस्पर्शनं - कृतवान् । तत्क्षणं तु मया स: न उपलक्षितः किन्तु क्षणेन सर्वं स्मृतिपथम् आगतम् । | पश्चाच्च भिन्न भिनं कुशलवार्तादिकं प्रवृत्तम् । तत्र मध्ये मम नेत्रयोः रोगस्य अपि वार्ता
सञ्जाता । सः मम नेत्रे निरीक्षितवान् । पश्चात् तु हठात् मां नवीनोपनेत्रार्थं नीतवान् । - मया बहुशः वारितः किन्तु एकम् अपि मम निषेधवचनं सः न अङ्गीकृतवान्' – एवम् र उक्तवतः पितुः स्वरः गद्गदः जातः । नेत्रे अपि क्लिन्ने जाते । o अनेन प्रसङ्गेन तु पितुः दृष्टिः तु स्पष्टा जाता एव किन्तु तेन सह एव पुत्रः है अपि सम्यक्तया बोधं प्राप्तवान् ।
१०
Page #104
--------------------------------------------------------------------------
________________
आचरणेन सिद्धिः
कथा
मुनिधर्मकीर्तिविजयः
एकेन साधकेन पृष्टम् - प्रभो ! जीवने कीदृशी साधना करणीया ?
तथागतः आह- आन्तरदृष्ट्या जीवने निर्दोषता उदारता च अभ्यसनीया । तथा बाह्यदृष्ट्या व्यवहारे सर्वान् जीवान् प्रति दयाभावना करणीया । तथा च मुख्यतः सत्यम् आचरणीयम् ।
साधकः उवाच- अहो ! एतत् तु सप्तवर्षीयः बालः अपि जानाति ।
तथागतः अब्रवीत् - सत्यं ते कथनम् । सत्यस्य आचरणं करणीयम्, निर्दोषम् उदारं च जीवनं जीव्यम्, सर्वेषां जीवानां दया पालनीया, इत्यादिकं सर्वं सप्तवर्षीयः बालः जानाति । किन्तु वृद्धजनाः अपि तस्य आचरणे तु न प्रभवन्ति । अतः वस्तुतः आचरणम् एव मुख्यम् । न तु ज्ञानमात्रम् ।
..
% 3
EMENTHREAi
Page #105
--------------------------------------------------------------------------
________________
-
कथा
देवधनभक्षणदोष
मुनिधर्मकीर्तिविजयः
इन्द्रपुर नाम नगरम् आसीत् । तत्र देवसेनाभिधः श्रेष्ठी वसति स्म । परिवारेण सह सः श्रेष्ठी सानन्दं ससुखं च कालं गमयति स्म ।
अथ तस्य गृहे प्रत्यहम् एका उष्ट्रिका आयान्ती आसीत् । तस्याः स्वामी गोपालः अपि नित्यं तत्र आगत्य तां कुट्टयित्वा स्वस्थानं प्रति नयन् आसीत् । तथा अपि सा पुनः पुनः स्वस्वामिनं वञ्चयित्वा देवसेनश्रेष्ठिनः सदनम् एव उपाविशती आसीत् । एषः तस्याः नित्यक्रमः आसीत् ।
एकदा नगरे पूज्यपादाः सूरिपुङ्गवाः समवासरन् । सः श्रेष्ठी तान् वन्दितुं गतः । तेन पृष्टम् - प्रभो ! एका उष्ट्रिका मद्भवने एव प्रतिदिनम् आगच्छति, तत्र एव च रतिं प्राप्नोति, किम् अत्र कारणम् ?
सूरीश्वराः आहुः - पूर्वभवे एषा तव माता आसीत् । सा पूर्वभवे प्रतिदिनं जिनेश्वरस्य अग्रे स्थितेन दीपेन एव स्वगृहस्य दीप प्रज्वाल्य सर्वाणि अपि कार्याणि कुरुते स्म, तथा च तत्रत्येन एव धूपाङ्गारेण चुल्लीम् अपि प्रज्वालयति स्म । तत्कारणेन मृत्वा अधुना सा उष्ट्रिका जाता। एवं पूर्वजन्मनः स्नेहात् भवादृशः स्नेहिजनान् संदृश्य इदानीम् आनन्दं प्राप्नोति ।।
एतत् श्रुत्वा एव श्रेष्ठी उद्वेगीबभूव । पश्चात् तेन पृष्टम् - प्रभो ! किं कः अपि उपाय: अत्र अस्ति?
तदा गुरवः ऊचुः - 'त्वं तस्याः समीपं गत्वा पूर्वभवनाम्ना आह्वय, तथा कर्णयोः मध्ये देवधनभक्षणस्य वृत्तान्तं श्रावय, तेन सा बोधं प्राप्स्यति" ।।
तेन श्रेष्ठिना अपि गुर्वादेशानुसारेण सर्वं कृतम् । ततः सा बोधं जातिस्मृति च प्राप्तवती। अन्ते सा अपि सज्ज्ञानम् अवाप्य सचित्तभक्षणादित्यागनियमं गृहीत्वा, मनसः अनुतापेन पूर्वभवकृतं पापं विनाश्य च देवत्वं : |
For Private Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
व्यङ्गकथा
मुनिरत्नकीर्तिविजयः
दिल्लीनगरे संसदभवनस्य पुरोभागे भिक्षुकः एकः पत्न्या सह उपविष्टः आसीत् । भिक्षुकाणां भिक्षास्थानानि प्राय: नियतानि भवन्ति । सः अपि नित्यं तत्र एव आगत्य उपविशति स्म । तत्र अनेकराजकीयपुरुषाणां विभिन्नानाम् अधिकारिजनानाम् आरक्षकगणस्य च गमनागमनं सततं प्रवर्तते स्म । सः अपि तेषां यातायातं दृष्ट्वा मनसि किम् अपि विचारयन् उपविशति स्म । तेऽपि जनाः तस्मै न्यूनाधिकं किम् अपि ददति स्म । एवं च तस्य स्वस्थित्यनुरूपं सुखेन दिनानि गच्छन्ति ।
नित्यम् इव प्रधानमन्त्रिमहोदयः अन्यैः मन्त्रिभिः आरक्षकगणैः च परिवृतः अद्याऽपि आगतः । तस्य तादृशं वैभवं प्रभावं च दृष्ट्वा किम् अपि विचार्य सः स्वपत्नीम् अवदत्
*
भोः ! कदाचित् एवं स्यात् यत् अहम् अपि एतादृश: प्रधानमन्त्री स्याम्, तर्हि ..... * किम् ? किम् ? तं वाक्यमध्ये एव तूष्णीं कृत्वा पत्नी अवदत् - किम् ? प्रधानमन्त्री ? सः अपि भवान् भवेत् ? तूष्णीं तिष्ठतु, तूष्णीम् ! गगनविहारं त्यक्त्वा पृथिव्याम् एव चलतु !
* शृणु रे तावत् ! अहं तु केवलं मम विचारं श्रावयामि यत्....
अरे ! किन्तु कः अर्थः एतस्य अशक्यविचारस्य ?
अयि मुग्धे ! अहम् अपि जानामि यत् एतत् न शक्यम् । किन्तु, एतत् तु काल्पनिकम् एव केवलं यत् कदाचित् एवं स्यात्..... । तस्य श्रवणे तव का नाम हानि: ? समययापनम् अपि भविष्यति ।
भवतु नाम, श्रावयतु ।
मन्यस्व यत् यदि अहं प्रधानमन्त्री स्याम्, तर्हि किं स्यात् तत् जानासि ?
९३
Page #107
--------------------------------------------------------------------------
________________
शृणु, तदा, यावत् धनम् एषः प्रधानमन्त्री अद्य प्राप्नोति ततोऽपि अधिकं धनम्
अहं प्राप्नुयाम् । * कथम् ? कथम् ?
अत्यन्तं सुकरम् एतत् । पश्यतु, यदि अहम् एतादृशः स्याम् तर्हि यावत् धनम्
एषः प्राप्नोति तत् तु अहम् अपि प्राप्नुयाम् ! सत्यम् ? * सत्यम्, किन्तु अधिकं कथम् ? ।
तत् एव कथयामि, कथम् अधीरा भवसि ? शृणु, एतेन तुल्यं धनं तु प्राप्स्यामि एव, अपरं च पार्श्ववृत्ति (Side business)रूपेण एषा अस्माकं प्रवृत्तिः (भिक्षाप्रवृत्तिः) अपि प्रचलिष्यति एव ! ज्ञातम् ?.....
दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थित रागान्धस्तु यदस्ति तत् परिहरन् यन्नाऽस्ति तत् पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याऽशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ।।
(शीलकाचार्यकृतायाम्- आचाराङ्गवृत्ती)
९४
Page #108
--------------------------------------------------------------------------
________________
रड्मश्वः
धनेन दानवः दयया मानवः
स्वामी श्रीब्रह्मानन्देन्द्रसरस्वती योगवेदान्तमहाविद्यापीठम्, मत्तीकोप्प पो. कल्मने ता. सागर जि. शिवमोग्ग कर्णाटक - ५७७४०१
पात्राणि अण्टोनियः वेनिसनगरनिवासी वणिक् बेस्सानियः तस्य सखा पोर्षिया
बेस्सानियस्य प्रियवधूः शैलाकः
यहूदी कुसीदकः जेस्सिका
तस्य पुत्री
तस्याः कामी मोरक्को-राजकुमारः] पोषिया-पाणिग्रहणकाङ्क्षिणौ आरगेन्द्रः ड्यूक्-नरेशः
वेनिस्-प्रभुः
लोरेन्जः
Page #109
--------------------------------------------------------------------------
________________
(भूमिका : पुरा इटलीदेशस्य विश्रुते वेनिस्-नगरे अण्टोनियः नाम वणिग्वर्यः 6 निवसति स्म । सः च दूरविदूरदेशीयैः सह समुद्रयानमुखेन बृहन्नौकासु खाद्यवस्त्राभरणादिबहुमूल्यानां सामग्रीणाम् आयात-निर्यातवाणिज्यं प्रचालयति स्म । धनिकः अपि स सरलजीवी उदारस्वभाव: बहुजनप्रियः च आसीत् ।
अण्टोनियस्य प्रियसुहृत् बेस्सानियः नाम योध: निकटवर्तिनि बेल्माण्ट-नामनगरे निवसन्त्यां पोर्षिया-नाम्न्यां सुरूपलावण्यवत्यां ललनायां गाढानुरक्तः आसीत् । परं तस्याः सुन्दरीमण्याः पाणिग्रहणाय अवश्यमुपपादयितव्यस्य कन्याशुल्कस्य स्वर्णमुद्राणां सहस्रस्य उपपादने सः असमर्थः आसीत् । अतः सुहृत्सखाय अण्टोनियाय धनसाहाय्यं । याचितुकामः सः कदाचित् राजोद्याने तेन सह विहरन् स्वोद्दिष्टं तस्मै प्रास्तवीत् ।)
- प्रथमं दृश्यम्
: बेस्सानियः मित्र ! कश्चिद् युवा सर्वथा समर्थः तेजस्वी मेधावी शीलसम्पन्नः च .
लावण्यवती कोट्यधिपतिदुहितरं श्रीमती प्रीणाति । तां च परिणेतुम् उत्सुकः अस्ति । परं सः असौ युवा यद्यपि न दरिद्रः तथा अपि न धनिकः अपि । तेन हि परिणयसिद्ध्यै किं वा करणीयम् ? इति
जिज्ञासामि । अण्टोनियः सखे ! सुष्ठ जानासि यत्
ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ अपि च, सा युवती यदि धनपतिम् एव परिणिनीषति, क्व अस्ति ।
पृथग्जनस्य त्वादृशस्य अवकाशः ? बेस्सानियः यदि सा न केवलं लावण्यवती, अपि तु शीलवती बुद्धिमती च भवेत् 0
तदा नूनं सा न कोट्यधिपतिं परिणिनीषेत् । किन्तु विवेकिनं शीलसम्पन्न च कञ्चित् परिणिनीषेत् खलु ?
Page #110
--------------------------------------------------------------------------
________________
अण्टोनियः तर्हि कृतं धनेन । निर्धनः अपि युवा तादृशीं युवतीं परिणेतुं प्रभवति । बेस्सानियः आम् आम् सखे !, तथा अपि सुविदितम् इदम्
“रिक्त: सर्वो भवति हि लघुः पूर्णता गौरवाय" ॥
किं च, निकटवर्तिनि बेल्माण्ट्नगरे निवसन्तीम् अतिलावण्यवतीं कोट्यधिपतिकुमारीम् अहं परिणेतुम् उत्सुकः अस्मि । तत्र विवाहोत्सव-निर्वहणाय न्यूनातिन्यूनं स्वर्णमुद्राणां सहस्रम् अवश्यम् अपेक्ष्यते । किं वा करवाणि सखे ! ? केन उपायेन तत् लभेय ? नूनं त्वम् अत्र मे शरण्य इति मन्ये ।
अण्टोनियः धननिमित्ता चिन्ता कुत: ? सखे ! उपगच्छ तं वेनिस्-नगरे विश्रुतं शैलाक - नाम - कुसीदकं, यः अवश्यं त्वदपेक्षितं धनम् ऋणरूपेण ते दास्यति। निवेदय तस्मिन् यत् मासत्रयेण एव मम वाणिज्यनौका: प्रतिनिवर्त्स्यन्ते तदा च ऋणम् अपाकरिष्यते ।
बेस्सानियः असंशयं मित्र !, शैलाकः हि प्रभूतधनवान् अस्ति । धनं च मे उपपादयितुं सर्वथा समर्थः अस्ति । किन्तु सः असौ गृध्रापसदः त्वां नितरां द्वेष्टि । यत: हि पुरा त्वं तस्य गृध्रतां लुब्धतां च कटुतया 'निर्घृणी रक्तपिपासुः' इत्यादिकठोरशब्दैः निन्दितवान् असि । सः असौ त्वयि प्रतिकर्तुं सदा प्रयतमानः अस्ति । एवं सति अहं कथं तं धूर्तापसदं धनसाह्याय याचेयम् ? अण्टोनियः मा एवं सखे !, मा अस्तु चिन्ता । लोके सर्वथा दोषरहितान् न एव पश्यामः । तेजस्वी अग्निः अपि धूमेन समावृतः । कान्तम् अपि सुवर्णं कल्मषात् न एव मुक्तम् । राकाचन्द्रमाः अपि कलङ्कं धत्ते । एवं सति कुसीदवृत्तिम् अनुसन्दधत्सु निर्धनेभ्यः स्वार्थलाभाय द्रुह्यत्सु निर्घृणेषु निर्दोषता कथं वा संभवेत् ? न एव खलु ? तत् तम् उपगच्छ शीघ्रम् । इष्टं च साधय ।
९७
Page #111
--------------------------------------------------------------------------
________________
द्वितीयं दृश्यम्
[बेस्सानियः धनसाहाय्यार्थं वेनिसनगरनिवासिनं विश्रुतं कुसीदकं शैलाकम् उपगच्छति । ] बेस्सानियः भो: शैलाक ! देहि मे स्वर्णमुद्राणां सहस्रं धनं ऋणरूपेण । शैलाकः
दास्यामि अवश्यं दास्यामि यद् अपेक्षितं धनम् । कन्याशुल्कनिमित्तं धनम् इष्यते इत्यतः अहं गृहीतस्य धनराशिमात्रस्य मासत्रयावधौ प्रत्यर्पणम् अपेक्षे । न तु वृद्धि(Interest ) सहितस्य । मासत्रयावधौ यदि धनं मे न प्रतिनिवर्तयिष्यते तर्हि तस्य ऋणग्रहीतुः शरीरात् एकपौण्ड्-मितं मांसपिण्डं छित्त्वा ग्रहीष्यामि । एतत्समर्थकं लिखितं प्रमाणपत्रं तेन अण्टोनियन स्वहस्ताक्षरैः अङ्कितव्यम् । अपि एतत् तव सम्मतम् ?
[ एतदुग्रं प्राणघातकं प्रमाणपत्रं कथं वा देयम् इति बहुधा चिन्तयन् परिणयातुरः बेस्सानियः सख्युः अण्टोनियस्य गृहं प्रति धावति । तमुपगम्य ]
बेस्सानियः सखे ! यद्यपि मम धनावश्यकता उत्कटा वर्तते तथा अपि तेन कुसीदकेन यहूदिना शैलाकेन ऋणप्रत्यर्पणविषये य: निर्बन्ध: विधित्स्यते यत् मासत्रयावधौ धनप्रत्यर्पणस्य वैफल्ये जाते तव शरीरात् एकपौण्डमितं मांसपिण्डं छित्त्वा ग्रहीष्यते इति यत्, तत् मे न एव रोचते । कर्तव्यं किम् अत्र ? इति भ्रान्तः अस्मि मित्र ! |
अण्टोनियः अत्र चिन्ता मा अस्तु मित्र ! | शैलाकेन यद् अपेक्ष्यते तत् पूरयिष्यते
- इति तं वद । यतः मच्छरीरात् मांसपिण्डच्छेदनादिकं तु औपचारिकम् एव भविष्यति । तद् गच्छ शीघ्रम् । मद्धस्ताक्षरैः अङ्कनीयं प्रमाणपत्रं गृहीत्वा प्रत्यागच्छ । अन्यथा पोषिया हस्तान्तरिता भवेत् । नूनं मासत्रयावधेः पूर्वम् एव षड् अपि मम वाणिज्यनौकाः प्रतिनिवर्त्स्यन्ते । इत्यतः ऋणप्रत्यर्पणविषये न अस्ति का अपि चिन्ता । तद् गच्छ, कार्यं च
साधय ।
-
९८
Page #112
--------------------------------------------------------------------------
________________
[ अचिराद् एव शैलाकम् उपगम्य यथानिगदितं प्रमाणपत्रम् आनीय अण्टोनियस्य हस्ताक्षरैः अङ्कयित्वा तदाधारेण च शैलाकसकाशात् धनं गृहीत्वा बेस्सानियः अण्टोनियम् उपसर्पति । अनन्तान् च धन्यवादान् तस्मै सुहृत्सखाय व्याहरति ।]
बेस्सानियः सखे ! मयि तव सौहार्द कैः वा शब्दैः वर्णयेयम् ? सत्यम् उक्तं हि
बुधजनै:
पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति । इष्टं प्रयच्छति च कामधुगेव नूनं
किं किं न साधयति कल्पलतैव सख्यम् ॥
तृतीयं दृश्यम्
1
[बेल्माण्ट्नगरम् । पोषियायाः पाणिग्रहणाय संभावितानां बहूनां स्पर्धा उपस्थिता अस्ति । यत: हि तस्याः पोषियायाः दिवङ्गतः पिता कोट्यधिपतिः स्वलिखिते मृत्युपत्रे (will) स्वार्जितं सर्वस्वं धनकनकादिद्रव्यं पोषियायै स्वस्य एकमात्रप्रियपुत्र्यै उत्तराधिकारिण्यै प्रादात् । तस्याः पोषियायाः प्रचुरधनस्वाम्यं परिलक्ष्य तस्याः पाणिग्रहणापेक्षया समागच्छत्सु अयोग्यान् कन्यापेक्षिणः निवारयितुकामः मृत्युपत्रलेखनसमये विचित्रम् एकं निबन्धनं विहितवान् आसीत्, यत् - " विवाहमण्डपे स्वर्णमयी रजतमयी अयोमयी च इति तिस्रः पेटिका: लाक्षामुद्रया पिहिताः स्थापयितव्याः । तत्र एकस्याम् एव पेटिकायां पोषियायाः भावचित्रं निक्षेप्तव्यम् । ततः यः कः अपि कन्यार्थी वध्वाः भावचित्रं दधतीं पेटिकां वृणुयात् सः एव तस्याः पतिः भवति ।" इति ।
अथ तत्र पाणिग्रहणसमारोहे प्रवृत्ते प्रप्रथमं मोरक्को - नाम - आफ्रिकीयराष्ट्रस्य राजकुमारः धनपतिसदृशः कोटीश्वरः अभ्यागच्छति । तत्र च प्रतिष्ठापितासु तिसृषु पेटिकासु सः सुपरीक्ष्य स्वेच्छया स्वर्णमयीं पेटिकां वृणोति यस्याः उपरि लिखितम्
९९
Page #113
--------------------------------------------------------------------------
________________
6. अस्ति यत् 'यः मां गृह्णाति सः सर्वं स्ववाञ्छितं प्राप्नोति' इति । अथ उद्घाटितायां ? ल तस्यां पेटिकायां मृतकस्य भग्नकपालकपरं (Skull) 'न खलु कान्तं सर्वं काञ्चनं के
भवति' इति लिखितपत्रसहितम् उपलभ्य राजकुमारः हताश: खिन्नचित्तः यथागतं प्रतिनिवर्तते । सा च पेटिका पुन: पिधाय यथापूर्वं संस्थाप्यते ।
अथ अन्यः राजकुमारः आरगेन्द्रः नाम कन्याकाङ्क्षी तत्र उपस्थितः । सः असौ सर्वत: निपुणं समीक्ष्य रजतमयीं पेटिकां वृणोति यस्याः उपरि लिखितम् अस्ति यत् 'यो मां वरयति सः यद् अर्हति तद् गृह्णाति' इति । उद्घाटितायां च तस्यां पेटिकायां 'लोके बहुशः दृश्यते यत् रजतकवचस्य अभ्यन्तरे मूर्खः तिष्ठति' । इति लिखितेन पत्रेण सह विदूषकस्य एकस्य कृत्रिमं शिरः (मुखपट) सम्प्राप्य भग्नस्वाभिमानः लोकै: च अपहसितः सन् खिन्नः खिन्न: स: असौ राजकुमारः प्रतिनिवर्तते । सा च पेटिका पिधाय पुनः अपि यथास्थानं स्थाप्यते ।
अथ तदनु बेस्सानिय: कन्याकाङ्क्षी तत्र समभ्यगात् । तदा-] पोर्षियाः (सखीमुद्दिश्य) पश्य सखि ! मम शोचनीयां स्थितिम् । यतः हि मत्पित्रा
विहितेन अनेन निर्बन्धेन न अहम् अत्र मदिष्टं मदभिलषितं च वरं वरयितुं
लब्धावकाशा अस्मि । सखी मा एवं सखि ! । त्वत्पित्रा तव हितैषिणा नूनं तव अभिलषितवरस्य सम्पादनाय साधकतमा व्यवस्था विहिता अस्ति ।
..... [इतः बेस्सानियः सर्वतः अवलोक्य W
A
. सहजसरलजीवनपरायणस्वभावत्वात् अयोNET
मयीं पेटिकां वरयति यस्याः उपरि 'य: मां काङ्क्षति सः स्वायत्तं सर्वस्वं त्यजेत् - समर्पयेत्' इति लिखितम् अस्ति । पेटिकाम्
उद्घाट्य तत्र च पोर्षियायाः भावचित्रम् म्य
उपलभ्य हर्ष पुलकितः सः तत्र एव
पोर्षियायाः पाणिग्रहणं करोति । ततः बेस्सानियः सर्वतोऽवलोक्य अयोमयीं पेटिकामवत । नूतनवध्वा समेतः सः वेनिसनगरं
१००
Page #114
--------------------------------------------------------------------------
________________
समागच्छति।
बेस्सानियः स्वर्णपुत्थलीसदृश्या पोर्षियया सह सुखं निवसति । अथ एकदा कुतश्चित् आगतं पत्रम् एकं पठित्वा सः दिग्भ्रान्तः निस्तेजस्कः स्तब्धः च सञ्जातः । तादृशं तं वीक्ष्य-] पोर्षिया (सकुतुकं) नाथ ! अहं ननु तव सहधर्मिणी । अतः यद् अपि स्यात् नाम
तत्र पत्रे, मह्यम् अपि तत् श्रावय । या भर्तुः सुखे दुःखे च समानम् एव सहभागित्वं वहति सा एव सहधर्मिणी भवितुम् अर्हति । आवयोः मध्ये परस्परं गूहनीयः विचारः संभवेत् वा कदाचित् ? अतः आवेदय
पत्रलिखितम् ।' बेस्सानियः प्रिये ! अत्र पत्रे काचित् अनिष्टतमा वार्ता पठिता । यत् - अण्टोनियस्य
षड् अपि वाणिज्यनौकाः बहुमूल्यसामग्रीभृताः समुद्रमध्ये चक्रवातग्रस्ताः सन्त्यः निमग्नाः । ताभिः सह अण्टोनियस्य धनादिसर्वस्वम् अपि विनष्टम् । इदानीं कथम् अहं गृध्रकुसीदकं शैलाकं निभालयानि ? स: हि निघृणः निष्ठुरस्वभावः अण्टोनियस्य प्रतीकारसाधनाय नितरां प्रयत्नरतः अस्ति । अण्टोनियं सः परमशत्रु मन्यते । यतः पूर्वं तस्य शैलाकस्य एकमात्रपुत्री जेस्सिकानाम्नी तेन कृच्छ्रेण सञ्चितं धनकनकादिकं यथेच्छम् अपहृत्य अण्टोनियस्य सखायं लोरेन्जो इत्यने परिणीय तेन सह लोकविहाराय निर्जगाम । तत्प्रभृति शैलाक: उन्मत्तः इव वेनिस्-नगरवीथिषु सोद्वेगं अश्रूणि मुञ्चन् स्वोरसि प्रहरन् विकीर्णकेशः पथिकान् उद्दिश्य 'अन्वेषयत गृह्णीत तां मे दुष्टपुत्री, प्रापय मे ततः मम कृच्छ्राजितं धनम्' इत्यादि प्रलपन् परिभ्रमति । तथा इतः जेस्सिकाः लोरेन्जोदम्पत्योः अण्टोनियेन सह स्नेहसम्बन्धः सर्वथा विजृम्भते । एवं सति कथं वा शैलाक: अण्टोनियं क्षमते ? न एव खलु?
वैरेण तस्मै मन्मित्रस्य अण्टोनियस्य प्रतीकारम् एव साधयिष्यति सः । धिङ् मां मित्रविश्वासघातिनम् । तथा मम परमसुहृत्सखम् अण्टोनियम् एवं दुःखसागरे निमज्जय्य कथं वा जीवेयं प्रिये !? [दूयमानचित्तः सः तिष्ठति । पोर्षिया च तं यथामति सान्त्वयति ।]
0818eeeeeeeee181eeee18e81eeee
Page #115
--------------------------------------------------------------------------
________________
चतुर्थं दृश्यम् ।
वेनिस्-नगरे राजसौधः ।।
ड्यूक्-नरेशः सिंहासनारूढः ॥ [शैलाकः अण्टोनियस्य नौकादुरन्तम् आवेदितः भृशम् उद्विग्नः, अण्टोनियेन ॐ नष्टसर्वस्वेन ऋणप्रतिनिवर्तनं सर्वथा अशक्यम् अतः वैरस्य निर्यातनं साधयिष्यते मया ल
इति हृष्टः च अण्टोनियं विरुद्ध्य न्यायालये न्यायदानाय ड्यूक्-नरेशम् अभ्यर्थयितुं मनः . कृत्वा-] शैलाकः प्रभो ! सम्राजम् अभिवादये । अण्टोनियः मत्तः गृहीतं स्वर्णमुद्रासहस्रमितं
धनं प्रतिश्रुतानुसारं मासत्रयावधौ न एव प्रत्यार्पयत् । अतः प्रभो ! प्रमाणपत्रे
प्रतिज्ञातानुसारं तस्य शरीरात् पौण्डमितं मांसपिण्डं छित्त्वा जिघृक्षामि ।। ड्यूक्नरेशःभोः भोः शैलाक ! न एतद् युक्तं भवदध्यवसितं क्रूर-निघृणकृत्यम् ।
कृपया काञ्चित् दयां धेहि तस्मिन् निःसहाये वराके । ननु प्रकृतिकोपनिमित्तं , ऋणप्रत्यर्पणासामर्थ्यं तस्य अण्टोनियस्य समापन्नं, एतावता न असौ महान् ल. अपराधः भवति । तथा त्वं सुष्ठ जानासि यत् 'धनेन दानवः दयया ] मानवः' इति बुधजनबोधितां शीलसंहिताम् । धनं नाम भोगस्य साधनमात्रं न तु तद् एव मानवस्य परमपुरुषार्थः । अतः यत् किञ्चित् धनं तेन प्रत्यर्पयिष्यमाणं गृहीत्वा सन्तुष्टः भव । किन्तु तस्य वराकस्य शरीरात्
मांसपिण्डच्छेदनेन तस्य प्राणहरणात् विरम् भोः ! शैलाकः न प्रभो ! न एव । न अहं द्विगुणं त्रिगुणं वा, शतगुणं सहस्रगुणं वा अपि
धनम् अभिलषामि । केवलं मद्वैरिणः शरीरात् पौण्डमितं मांसपिण्डं विहाय
न अन्यत् किञ्चिद् वरये । ड्यूक्नरेशःभोः ! आत्मा हि सर्वान्तर्यामी, एकः एव विभिन्न इव दृश्यमानेषु प्राणिदेहेषु,
मणिगणेषु सूत्रम् इव, वृक्षस्य विभिन्नशाखा-पर्ण-पल्लव-प्रसूनेषु रसः इव, तरङ्ग-फेन-बुद्बुदादिषु सलिलम् इव विराजते । यथा शरीरहिंसनं प्राणघातनं
Page #116
--------------------------------------------------------------------------
________________
च मम अप्रियतया अनुभूयते तथा एव तद् अन्येषाम् अपि । 'यत् च मम अप्रियं तत् अहं कस्य अपि उपरि न एव कुर्याम्' इति हि शीलसंहितायाः ? स्वर्णनियमः । स्वान्तःशान्ति कामयमानः हि सर्वेषु-यावद्-अपकारिषु अपि
प्रियम् एव समाचरेत् न तु वैराणि साधयेत् । शैलाकः प्रभो ! भवदुक्तं सर्वम् अपि सत्यम् एव । किन्तु अहं मद्वैरिणः शरीरात्
मांसपिण्डच्छेदनाद् ऋते न अन्यत् किम् अपि इच्छामि । अयं हि मदर्थं सुवर्णावसरः अस्ति । तं कथम् अहं विफलीकुर्याम् ?
[ड्यूक्-नरेशः एवं दुरध्यवसायिनं शैलाकं दृष्ट्वा खिन्नः किञ्चित् 6 . विचिन्तयति । ततः स्वीयान् अधिकारिणः आज्ञापयति यत्- 'कञ्चित् दक्षं न्यायनिर्णयनिपुणं
न्यायमूर्तिपदनिर्वहणसमर्थं न्यायवादिनं विचिन्वन्तु' इति । अधिकारिणः सर्वत्र नगरे
तादृशं विचक्षणम् अन्वेषयितुम् आरब्धाः तावद् एव कश्चन वार्ताहरः सेवकः ड्यूक्र नरेशाय 'कश्चित् समर्थः न्यायवादी नगरान्तरात् समागतः एतत्कार्यार्थं समुपस्थितः अस्ति' के इति न्यवेदयत् । ड्यूक्-नरेशेन तत्क्षणम् एव सः अन्तः आकार्य न्यायमूर्तित्वेन चितः ।
सः च तौ उभौ अपि वादि-प्रतिवादिनौ शैलाक-अण्टोनियौ उद्दिश्य 'युवयोः यत् किञ्चिद् वक्तव्यम् अस्ति तत् निवेदयतम्' इति कथयित्वा स्वयम् एव तावत् शैलाकस्य
हस्ते स्थितं प्रमाणपत्रं अण्टोनियशरीरात् मांसच्छेदनाय अपेक्षितां छुरिकां तुलादण्डं च र परिलक्ष्य वदति-] न्यायमूर्तिः हे शैलाक ! इदानीम् अपि अवकाशः अस्ति अण्टोनियं संकटग्रस्तं क्षन्तुम् ।
यद्यपि त्वं न्यायदानम् एव वाञ्छसि तथा अपि श्रेष्ठः मार्गः तु क्षमायाः एव । दयया एव मानवः भवति निर्दयः तु दानवः एव इति बुध्यस्व । दया हि दयालु दयापात्रं च इति उभौ अपि नन्दयति । साक्षात् करुणाघनः ईश्वरः स्वयम् एव दयालुं क्षमाशीलं च सर्वसम्पदा अनुगृह्णाति । तदभीष्टं च सर्वं प्रदत्ते । अतः तस्मिन् श्रद्धत्स्व सौम्य !, जहि निष्ठुरतां दयां च भजस्व अण्टोनिये । न्यायदानं (Justice) सर्वैः अपेक्ष्यते इति अत्र न काचित् विप्रतिपत्तिः अस्ति तथा अपि दया (mercy) तु ततः अपि ज्यायसी । (तावता-)
१०३
Page #117
--------------------------------------------------------------------------
________________
बेस्सानियः न्यायमूर्तिमहोदय ! इदम् इह गृह्णातु तत्प्रदत्तस्य दशगुणं धनं मन्मित्रं च मोचयतु सः ।
न्यायमूर्तिः पश्य पश्य भोः शैलाक !, बेस्सानियः त्वया दत्तस्य दशगुणितं धनं प्रयच्छति । तत् स्वीकुरु । येन प्रकरणम् इदम् अत्र एव समाप्यताम् । उभयोः समाधानं च जायताम् । तत् प्रतिज्ञापत्रम् एतत् छित्त्वा शकलीकुरु प्रक्षिप च । अधुना तेन पत्रेण किम् अपि कृत्यं न अस्ति । मैत्री दया प्रेम विश्वासः च यत्र विद्यन्ते तत्र पत्रेण किम् ? प्रमाणेन च अपि किम् ? ( शैलाकः तु सर्वथा न अनुमन्यते समाधानार्थम् । तदा)
न्यायमूर्तिः (अण्टोनियम् उद्दिश्य) भोः ! त्वया हस्ताक्षरै: अङ्किते प्रमाणपत्रे यत् प्रतिश्रुतं तद् अनिवार्यतया तावत्याम् अवधौ त्वया दातव्यम् एव भवति । तत्र तव अशक्तौ तु शैलाक: यदि त्वां क्षान्त्वा विमोचयितुं न अपेक्षते न च अनुमन्यते तर्हि प्रतिश्रुतानुसारं छिन्नशरीरस्य तव पौण्डमितं मांसं त्वया अवश्यं प्रदेयम् । न अन्यं मार्गं एतेन विना न्यायमार्गे पश्यामि ।
शैलाकः ( छुरिकां भ्रामयन्) हं हो ! देवसदृशः अयं न्यायमूर्तिः कथं कैः वा शब्दैः अभिनन्द्यताम् ? नूनं मदनुग्रहाय एव अवतीर्णः अस्ति अयम् । न अत्र विद्यते सन्देहलेशः अपि । (हर्षेण केकायते ।)
न्यायमूर्तिः (अण्टोनियम् उद्दिश्य) भोः ! सिद्धः भव, अपसारय तव परिधानम् । सुष्ठु प्रदर्शय तव वक्षःस्थलं यस्मात् शैलाकः यथाभिलषितं पौण्डमितं मांसपिण्डं छित्त्वा गृह्णीयात् । (एतच्छ्रवणेन)
शैलाक: हं हो ! मम भाग्यविधात्रे न्यायमूर्तये भूयांसि नमांसि हार्दिकानि च अभिनन्दनानि !
न्यायमूर्ति: ( एतावता अपि धीरं हसन्मुखं तथा ईषद् अपि अविचलितम् अण्टोनियं पुनः अपि उद्दिशन् - ) कुतः विलम्बः भोः अण्टोनिय! ? प्रदर्शय एतस्मै तव वक्षः येन यथाभिमतं मांसखण्डं छिनत्तु एषः ।
१०४
Page #118
--------------------------------------------------------------------------
________________
(अण्टोनियः परिधानम् अपसार्य वक्षःस्थलं प्रदर्शयति ।) * न्यायमूर्तिः (शैलाकम्) वक्षःस्थले कस्मात् स्थानात् त्वं मांसं जिघृक्षसि शैलाक ! ?
वद तावत् ।
(पार्श्वस्थे दृषदि छुरिकां निशातयन् तुलां च तोलनाय समीकुर्वाणः) शैलाकः हुं ! तस्य हृदयस्य निकटतमवर्तिनः स्थानात् एव छित्त्वा मांसं जिघृक्षामि ।
(मांसच्छेदनाय अण्टोनियम् उपसर्प्य बद्धवैरं तं द्वेषपूर्णनेत्राभ्यां वीक्षते ।) न्यायमूर्तिः शैलाक ! तिष्ठ तावत् । अपि त्वं वैद्यवर्यम् अपि अत्र उपस्थापितवान् असि
वा ? यतः हि मांसच्छेदनेन असौ रुधिरनिःसरणेन प्राणान् मा जह्यात् । शैलाकः (उत्तेजितः सन्) न न ! वैद्यवर्यस्य उपस्थितिम् आश्रित्य प्रमाणपत्रे न
किञ्चित् अपि लिखितम् अस्ति । अतः वैद्येन किम् ?
वा 2 रात
CHOOratoleranolorotocolate CNCHCHOCHOOCHON
CS
शैलाकः - प्रमाणपत्रे न किञ्चित् लिखितमस्ति । अतो वैद्येन किम ?
१०५
Page #119
--------------------------------------------------------------------------
________________
ॐ न्यायमूर्तिः अण्टोनिय ! सन्निहितः तव अन्तिमः क्षणः । इति अतः त्वां पृच्छामि यत्
'अपि अस्ति तव किञ्चित् निवेदयितव्यम् ?'
(अण्टोनियः सुहृन्मित्रं बेस्सानियं प्रेमप्लावितहृदयः समालिङ्ग्य आपृच्छन्) अण्टोनियःस्वस्ति अस्तु ते सखे ! अनुजानीहि माम् । त्वदर्थं तव कल्याणाय प्राणान्
समर्पयितुं सानन्दं सिद्धः अस्मि । परोपकारार्थम् इदं शरीरं खलु ? न्यायमूर्तिः आगच्छ शैलाक ! गृहाण अपराधिनः शरीरात् तव अभीप्सितं मांसपिण्डम् ।
न्यायसंहिता इदम् अनुशास्ति न्यायालयः च तद् अनुमन्यते । (शैलाकः छुरिकां तुलादण्डं च गृहीत्वा झटिति अण्टोनियस्य अभिमुखं
गच्छति । तावता न्यायमूर्ति तं सहसा निरुन्धन् ) न्यायमूर्तिः तिष्ठ तावत् शैलाक ! अत्र किञ्चिद् अवधेयम् अवशिष्यते । प्रमाणपत्रे तु
मांसपिण्डस्य केवलस्य ग्रहणम् अनुज्ञातम् अस्ति, न तु रुधिरस्य बिन्दुमात्रस्य अपि । मांसम् अवश्यं गृहाण किन्तु यदि नाम त्वं तस्य अपराधिनः शरीरात् बिन्दुमात्रम् अपि रुधिरं नि:स्रावयिष्यसि तर्हि तव सर्वम् अपि धनं स्वायत्तं च द्रव्यसर्वस्वं राज्यकोशस्य स्वायत्तीभविष्यति, अतः त्वया अत्र
सावधानेन भाव्यम् । To बेस्सानियः (हृष्टः सन् केकायते) अहो ! मे भाग्यदेवता अद्य न्यायमूर्तिरूपेण उपस्थिता।
न्यायमूर्तिः त्वं न्यायम् एव अपैक्षिष्ठाः शैलाक !, न्यायं गृहाण अधुना । शैलाकः (स्तब्धीभूतः दिङ्मूढः च सन्) भोः भोः बेस्सानिय ! मा अस्तु मत्तः
गृहीतस्य धनस्य दशगुणितं धनम् । त्रिगुणितेन एव संतुष्ये, अत: देहि
तावद् एव धनम् । न्यायमूर्तिः त्वरा मा अस्तु यहूदिवर्य ! यदा बेस्सानियेन धनम् उपहृतं तत् त्वं तदा
एव निराकार्षीः । अतः त्वं न्यायमात्रम् एव ग्रहीतुम् अनुज्ञास्यसे । न्यायं मुक्त्वा न किञ्चिद् अपि अन्यद् द्रव्यं ते लप्स्यते ।
FolorOHDCHOCHOCHOOOOOOOOOOCHCHColoral
१०६
Page #120
--------------------------------------------------------------------------
________________
ॐ
शैलाकः (भयभ्रान्तः) मा अस्तु त्रिगुणम् अपि भोः !, देहि मे गृहीतमात्रं मद्धनम् । ॐ
तेन एव सन्तुष्टः अस्मि । न्यायमूर्तिः सकृत् निराकृतस्य धनस्य पुनः ग्रहणाय न अस्ति न्याये अवकाशः । अतः
तत् न अनुज्ञायते । अपरं च अपि किञ्चिद् अत्र कर्तव्यम् अवशिष्यते शैलाक ! । वेनिस्-राज्यशासनानुसारं यदि कश्चित् स्वयं वेनिस्-राज्यस्य प्रजाजनः न भवति किन्तु विदेशीयः भवति, यदि च स: वेनिस्-राज्यसत्कस्य कस्यचित् प्रजाजनस्य प्राणान् अपजिहीर्षति तर्हि असौ मृत्युदण्डम् अर्हति । के अपि च तस्य धनं सर्वा अपि सम्पत् च राज्यकोशस्य हन्यमानस्य च समभागेन वितीर्यते । त्वं हि न वेनिस्-राज्यस्य प्रजाजनः । तथा त्वं वेनिस्-प्रजाजनं अण्टोनियं हन्तुम् उद्यतः असि । [न्यायवितरणं वीक्षमाणं न्यायाध्यक्षं ड्यूक्सम्राजम् उद्दिश्य] प्रभो ! अत्र प्रकरणे अपराधस्य दण्डसंहितानुसारं विधातव्यं दण्डम् अहं निरूपितवान् अस्मि । किन्तु निर्णयः तु भवता एव देयः । भवत्सम्मतः दण्डः एव अस्मै दीयताम् ।
(एतच्छ्रवणेन भयभीतं शैलाकम्-) ड्यूक्-नरेशः भोः भोः शैलाक ! मा भैषीः, सम्भावितस्य सज्जनस्य अण्टोनियस्य ल
विषये या दया त्वया निदर्शिता ततः अपि अधिकां दयाम् अहं त्वद्विषये निदर्शयामि । अतः मृत्युदण्डनात् मया त्वं विमोचितः असि । परं तव सर्वस्वं स्वायत्तं धनं त्वया अण्टोनियाय राज्यकोशाय च समर्पयितव्यम् । (एतत् श्रुत्वा हृतसर्वस्वः शैलाकः स्तब्धः सर्वथा निहतप्रायः च भवति । धनजीवी कुसीदकः धनं विना किं वा करोति ? सः अयं जीवच्छव
एव ।) शैलाकः (उच्चैः आक्रन्दन्) समतिष्ठत । किम् अनेन मे जीवनेन ? नष्टधनस्य मम
१०७
Page #121
--------------------------------------------------------------------------
________________
प्राणैः किं वा साधनीयम् ? मम प्राणान् अपि गृह्णीध्वम् । न्यायमूर्तिः (अण्टोनियम् उद्दिश्य) भोः ! सद्यः तस्य यहूदिनः शैलाकस्य
धनकनकादिसर्वस्वं त्वदधीनं भविष्यति । सः अयं क्रूरः निष्करुणः अधुना नष्टसर्वस्वः सञ्जातः । किन्तु त्वं यदि इच्छसि तहि अस्मिन् दयां विधातुम् 6
अर्हसि । ॐ अण्टोनियः (खिन्नं दीनं च शैलाकं दृष्ट्वा करुणया) प्रभो ! न अहं तस्य धनकनकादिकं
द्रव्यं वाञ्छामि । तत् मया अयं तस्मात् निर्णयात् प्रतिनिवर्त्यते यदि असौ मत्कृतं समयम् एकं सम्मंस्यते । यथा- स्वजीवितकाले कामं स: नैजं सर्वस्वं स्वायत्तम् उपभुज्यताम् । किन्तु स्वस्य मरणशासने (will) तेन "सर्वस्वं मम धनं मम मरणानन्तरं मत्पुत्र्यै जेस्सिकायै तत्पतये लोरेन्जो
इत्यस्मै च प्रदातव्यम्" इति सुस्पष्टं लेखितव्यम् । न्यायमूर्तिः अपि तुष्टः असि शैलाक ! ? अपि सम्मतः तव अयं समय: ? शैलाकः आम् आम्, सर्वथा सम्मतः अयं समयः मम । अथ कृपया इतः अहं
निर्गन्तुम् अनुज्ञायताम् । अन्यत् किञ्चिद् अपि न अपेक्षे । यतः अधुना 0 ज्वरतापः मां किञ्चिद् बाधते । अतः विश्रान्तिम् इच्छामि । तथा यद् अपि मया लेखितव्यं मम मरणशासने (will) तद् अहम् अवश्यं लेखिष्यामि । कृपया प्रेष्यन्तां मे तत्सम्बन्धिपत्राणि । [शैलाकः सत्वरं न्यायालयात् निर्गच्छति ।]
पञ्चमं दृश्यम्
[अण्टोनिय-बेस्सानियौ तस्मै सर्वापदाम् अपहत्रे, सर्वसम्पत्प्रदात्रे, सङ्कटमोचकाय, भाग्यविधात्रे च न्यायमूर्तये भूयः भूयः नमांसि अभिनन्दनानि
च व्याहरन्तः ।] ॐ बेस्सानियः स्वामिन् ! दयालो ! आपृच्छन्तौ आवाम् अनुज्ञायेताम् । पुनः मिलामः ।
तथा गृह्यतां धनम् इदं यद् अण्टोनियः शैलाकाय अधारयत् ।
Page #122
--------------------------------------------------------------------------
________________
[धनम् उपहरति ।] 6 न्यायमूर्ति (निराकुर्वन्) मा मा एवम् । भोः ! न अहं निर्धनः । विपुलं धनं मम
विद्यते । बेस्सानियः तथा अपि यत् किञ्चित् यथाशक्ति उपायनं भक्त' समर्पयितुकामः अहं
प्रभो! [न्यायमूर्तिः तस्य बेस्सानियस्य प्रसारितहस्ताङ्गलीनिबद्धां मुद्रिकां दृष्ट्वा ताम् एव मुद्रिकाम् अवमुच्य जिघृक्षति । तेन चकित: बेस्सानियः झटिति स्वहस्तं प्रतिसंहरन्] मा एवं भोः ! कृपया क्षम्यताम् । सा इयं मुद्रिका अत्यल्पीयसी । ततः
अपि अधिकमूल्यम् उपायनं भवते उपपादयिष्यामि । न्यायमूर्तिः भोः ! न अहम् अन्यम् उपायनम् ईहे । यदि नैजां कृतज्ञतां मयि सूचयितुम्
अभिलषसि तर्हि एतद् एव उपायनम् उपहर । बेस्सानियः (अनन्यगतिकतया) गृहाण भोः ! अभीष्टम् उपायनम् । (मुद्रिकां ददाति ।)
(बेस्सानियः अण्टोनियः च प्रतिनिवर्तेते ।)
_ षष्ठं दृश्यम्
[बेस्सानियः स्ववध्वाः पोर्षियायाः विरहेन आकुल: यावच्छीघ्रं तां द्रष्टुकामः अण्टोनियेन सह स्वगृहं प्रविशति । पोर्षिया गृहद्वारि एव तौ अभिनन्द्य अन्तर्गृहं प्रवेशयति । तावता पत्युः मुद्रिकाविहीनां रिक्ताम् अङ्गुली निपुणं वीक्ष्य-] पोर्षिया नाथ ! क्व सा मुद्रिका या विवाहसमये ते मया उपहृता आसीत् ? क्व तद्
अमूल्यम् अङ्गुलीयकं अस्मत्प्रियदाम्पत्यस्मारकम् ?
[दिग्भ्रान्तं निरुत्तरं यथार्थं च वदितुम् अशक्तं मित्रं बेस्सानियं परिलक्ष्य] अण्टोनियः श्रीमति ! अन्यथा मा भावयेथाः । अद्य न्यायालये आवयोः बहूपकारिणे
न्यायवादिने तद् अङ्गलीयकं बेस्सानियेन उपहारीकृतम् अस्ति । तद् अल्पम् ॐ
१०९
Page #123
--------------------------------------------------------------------------
________________
अपराधं तस्य क्षन्तुम् अर्हसि ।
पोर्षिया (अङ्गुलीयकं पत्ये प्रयच्छन्ती अण्टोनियम् उद्दिश्य - ) इदम् अङ्गुलीयकं तव मित्राय प्रयच्छ । तथा एनत् प्रणष्टाद् अङ्गुलीयकात् अधिकं सावधानतया रक्षणीयम् इति तं सुष्ठु प्रबोधय ।
[बेस्सानिय: अङ्गुलीयकं निपुणं वीक्ष्य 'अहो ! एतत् तु तद् एव यत् न्यायालये न्यायवादिने उपहारीकृतम्' इति प्रत्यभिज्ञाय च विस्मयापन्नः पोषियायाः मुखं निरीक्षते । पोर्षिया तं समादधती -]
पोर्षिया पश्य पश्य नाथ ! इदं पत्रं, यस्मिन् अहं अण्टोनिय-शैलाकप्रकरणे न्यायवादित्वेन नियुक्ता इति निर्दिष्टम् अस्ति ।
-
बेस्सानियः (साश्चर्यम्) अहो ! तत्र न्यायालये उपस्थिता मन्मित्रस्य प्राणदात्री सङ्कटविमोचयित्री, तथा माम् अपि विश्वासघातमहापातकात् रक्षित्री छद्मवेषधृतवती सा त्वम् एव वा ? नूनं सम्भ्रान्तः अस्मि । अहो ! वेषधारणकौशल्यं समयस्फूर्तिसामर्थ्यं च स्त्रीणाम् !!
[ हर्षपुलकिता: सर्वे निष्क्रामन्ति । ]
" धनेन दानवः दयया मानव:" इति भावरूपकं समाप्तम् ॥
सर्वेऽपि सुखिन: सन्तु सर्वे सन्तु निरामयाः । लोकोऽयं भयमुक्तोऽस्तु सर्वं भवतु मङ्गलम् ॥
दुःखात्मकेषु विषयेषु सुखाभिमानः
सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः ।
उत्कीर्णवर्णपदपङ्क्तिरिवाऽन्यरूपा
सारूप्यमेति विपरीतगतिप्रयोगात् । (शीलाङ्काचार्यकृतायाम्-आचाराङ्गवृत्तौ)
११०
Page #124
--------------------------------------------------------------------------
________________
मर्म - नर्म
रमेशः किं तव पत्न्याः कासरोगः निवृत्त: ? परेशः अरे ! एकेन एव वाक्येन मया सः निवारितः ।
रमेशः भवान् किम् उक्तवान् ? परेशः अहम् उक्तवान् यत् 'वार्धक्ये प्राप्ते एव कासरोगः जायते' इति ।
-
निकुञ्जः अद्य सायंकाले मया सार्द्धं भोजनग्रहणे. भवतः काऽपि आपत्तिः नास्ति इति मन्ये ।
निलयः
निकुञ्जः
लघुवयस्कः चिन्टुः गृहस्य विद्युद्घण्टिकां रणयितुं वारं वारं प्रयत्नं कुर्वन् आसीत् । किन्तु तत्र सः सफलः न जातः । मार्गेण गच्छता एकेन सज्जनेन तत् दृष्टम् । स तस्य समीपं गतवान्, तं च हस्ताभ्याम् ऊर्ध्वं कृतवान् । तथा च सः बालकः घण्टिकाम् अवादयत् । तदन्तरं च सः बालकः उक्तवान्– “चलतु, अधुना झटिति पलायनं कुर्याव, अन्यथा, कोऽपि ताडयिष्यति" इति ।
कीर्तित्रयी
नैव नैव । प्रत्युत आनन्दः भविष्यति । अत्यन्तं शोभनम् । तर्हि अष्टवादनसमये अहं भवतः गृहम् आगमिष्यामि ।
१११
FO
Page #125
--------------------------------------------------------------------------
________________
भृत्यः प्रभो ! भवता मह्यम् अतीव मूर्खसेवकः
अर्पितः, तेन सह कथं कार्यं करणीयम् ? स्वामी 'यथा अहं त्वया सह करोमि तथा' ।
mamaee
पुरुषः कथम् अद्यकालीनस्त्रियः पुरुषेभ्यः ।
अधिकबलवत्यः सन्ति ? ___ स्त्री तत्र स्त्रियः प्रति पुरुषस्य दुर्बलता एव .
कारणम् ।
FA शिक्षकः "आदेशं विना न केन अपि प्रवेशनीयम्"
इति बहिः स्पष्टतया लिखितम्, तथा अपि
कथं त्वम् अन्तः आगतः ? विद्यार्थी प्रभो ! भवतः आज्ञां ग्रहीतुम् एव आगतः
अहम्
,
स्त्री भोः ! भोः ! वैद्यराज ! द्रुतं कुरु, मम
पतिः मृत्युशयने वर्तते ।। वैद्यराजः श्रीमति ! चिन्तां मा कुरु । अधुना एव
अहं तं मृत्युशयनात् मोचयिष्यामि ।।
११२
Page #126
--------------------------------------------------------------------------
________________
(कविः एकदा विद्वत्पर्षदि काव्यं पठन् आसीत् ।
तदा तत्र आगत्य कश्चित् युवा अवदत्)युवा तव पिता लवणादिकं विक्रीणाति स्म,
किन्तु इदानीं त्वया किम् एतत् क्रियते ? कविः भो ! तव पिता अतीव सज्जनः आसीत्,
इति अहं जानामि । तथा अपि भवान् । कथम् एतादृशः खलु ?
महिला (आपणिकम्) भोः ! किमिति
भवतः आपणे सर्वाणि अपि फलानि अम्लानि एव
विक्रीयन्ते ? आपणिकः महोदये ! कृपया भवत्याः
अधरप्रसाधनं (lipstic) प्रमृज्य एव तानि स्वादयतु !!
मद्यपः
पुत्रक ! मद्यं हि अतीव कुत्सितं वस्तु । पश्य, पुरतः यौ द्वौ स्तम्भौ दृश्येते न वा ? तौ मद्यपानानन्तरं चत्वारः दृश्यन्ते ! किन्तु पितः ! तत्र एक एव स्तम्भः अस्ति !!
NRN
" पुत्रः
.
११३
Page #127
--------------------------------------------------------------------------
________________
WATCH CO
Cook
ग्राहकः मम क्षत्या इयं घटिका स्थगिता इति मन्ये ।
आपणिकः का क्षतिः भवता कृता ?
'ग्राहकः मम हस्तात् प्रमादवशेन इयं घटिका पतिता । इयं मम एव क्षतिः न वा ? आपणिकः न अयं प्रमादः क्षतित्वेन गण्यते । यतः भवान् स्वयम् एव तां न पातितवान् । किन्तु पतनानन्तरं यद् भवता सा गृहीता- तत् तु क्षति: एव !!
न्यायवादी भवता उक्तं यत् "अहम् अशिक्षितः अस्मि" इति । तथा अपि भवान् मम प्रश्नानाम् उत्तराणि सम्यक्तया ददाति । एतत् कथम् ?
साक्षी
अथ किम् ? भवतः प्रश्नानाम् उत्तरदाने शिक्षायाः का अपि आवश्यकता एव न अस्ति |
११४
Page #128
--------------------------------------------------------------------------
________________
(पातामा
धम्मो न विक्रय
मुनिकल्याणकीर्तिविजयः के
रयणपुरे नयरे सुमुहो सेट्ठी निवसइ । धणवंतो वि सो कयाइ दइवजोगा निद्धणो जाओ । भोयणमेत्तं पि नत्थि तस्स गिहे । चिताउलो सो निलाडे हत्थं ठविऊण चिंतेइ ।
ताव तस्स भज्जा कहेइ - सामिय ! केणद्वेण चितं करेसि ? जाहि मे पिउगिहं । सो 10 मज्झ जणओ पभूयधणस्स सामी । जं मग्गिहिसि तं दाहिइ । सेट्ठी कहेइ - भो !
न गमिस्सं तत्थ । तुज्झ पिया खु अईव किविणो अत्थि । न किंचि वि दाहिइ मज्झ । १७ तया तीए अच्चग्गहेण कहियं जं - तत्थ चेव जाहि, एयाए अवत्थाए सो अवस्सं
दाहिइ। तो सेट्ठी तीए अच्चन्तं अग्गहेण कहं कहं पि तत्थ गंतुं अणुमन्नाविओ । 0 तओ पभाए कस्सइ गिहाओ किंचि अन्नं आणेऊण तीए सेट्ठिस्स संबलं दिन्नं पेसिओ य नियपिउगिहं पइ । सो वि य गच्छंतो अडविं पविट्ठो मज्झण्हे । चिंतइ यजं - एत्थ चेव कस्स वि रुक्खस्स हेट्ठा उवविसिऊण भोयणं करिस्सामि । जलमविर तत्थालवाले पाइस्सं ति । एवं चितेंतो जाव अच्छइ ताव तेण अट्ठमभत्तस्स पारणटुं नीहरिओ मुणी दिट्ठो । तं दटुं हरिसिओ एस मुणिं निमंतिऊण फासुयअन्नदाणेण । पडिलाभियवंतो । जइ वि तस्स छुहा नोवसंता तहा वि मुणिदाणस्स आणंदेण सोर छुहादुक्खं पि विम्हरिउं जलपाणेण चेव तित्तो ससुरगिहं पइ पत्थिओ ।।
एत्थंतरे ससुरस्स कुलदेवया नियनाणबलेण एयं वित्तंतं जाणिऊण ससुरं कहेइजं - तुज्झ जामाया निद्धणो होऊणं धणं मग्गेउं एत्थ आगमिस्सइ । तेण उ आगच्छंतेण पर अईव उत्तिमो धम्मो आयरिओ । अओ जया सो तुज्झ सयासे धणं मग्गेज्ज तया तं* कहेज्ज जं - "एत्थ आगच्छंतेण तए जो धम्मो कओ तं जइ मज्झ दाहिसि तो तुज्झ से
धणं दाहिमि" त्ति । जओ तेण धम्मेण तुज्झ पभूयं पुण्णं तप्पभावेण य विउलं धणं । * पाविस्सइ ।
११५
Page #129
--------------------------------------------------------------------------
________________
एयं ससुरस्स अईव रुइयं । अओ जया जामाया आगओ तया तं जहोचियं ...2 ( सक्कारिऊणं भोयणाइ कारावियं । तओ कहियं जं - "एत्थ आगच्छंतेण तए जो धम्मो • कओ तं मज्झ देसु जहिच्छियं धणं च गहेसु ।" - सो कहेइ जं - धणस्स अदाए धम्मो न चेव विक्केयव्वो । अहं किं पि. . नेच्छामि । तओ सो ससुरगिहाओ नीहरिऊण रित्तहत्थो चेव नियगिहं गंतुं पवुत्तो । मग्गे
गच्छंतो चिंतइ य जं - एमेव कहं गमिस्सं ? सा मज्झ भज्जा तज्जिस्सइ । अओ किं पि गहिऊण गम्मइ ।। - एत्थंतरे तेण नईतीरे पडिया विविहवण्णजुया उवलखंडा दिट्ठा । तो तेसिं चेवर उवलखंडाणं पोट्टलियं बंधेऊण गच्छंतो सो गिहं पत्तो । अह तेण जो मुणिदाणरूवो धम्मो कओ आसी तस्स पभावेण वणदेवयाए ते सव्वे वि उवलखंडा रयणत्तणेण परियट्टिया । एसो उ तं न जाणंतो पोट्टलियं भज्जाए समप्पेऊण सिणाणं काउं गओ। सा वि - "मह पियरेण अवस्सं किंचि धणं दिन्नं" ति चिंतेती तं पोट्टलियं उग्घाडिऊण - पेच्छइ ताव रयणाई दिट्ठाई ।
___ ताई दटुं अईव हिट्ठा सा पई आकारिऊण कहेइ - सामिय ! पेच्छ, मज्झ to जणओ खु न किविणो, अवि य उयारो वच्छलो य । ममं वयणं सच्चं जायं । तेण - , अम्हाणं बहुं धणं दिन्नं अत्थि । तुज्झ वीसंभो चेव नासी । तह वि एयं सच्चवियं ... ति ।
तो सेट्ठी ताई रयणाई पेच्छिऊण विम्हिओ नियदाणधम्मं सरंतो, हसिऊण - कहेइ-भो ! जइ तव जणयवयणं अणुसरंतो हं, तो एयप्पमाणं धणं कया वि न ,पावेतो।
सा पुच्छेइ - कहं तं ? तया सेट्ठिणा सव्वो वि मुणिदाणमाई वित्तंतो तीसे कहिओ कहियं च-जं
धम्मेण पाविया लच्छी धम्मेण पावियं सुहं । अणिच्चे एत्थ संसारे धम्मो परमबंधवो ॥
११६
Page #130
--------------------------------------------------------------------------
________________