SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ EHAR ji TO श्रुताभावान्न विरति-रविरत्या न संवरः । असंवात्तपो नैव, निर्जरा न तपो विना ૪૦ विना निर्जरया नैव, ह्यक्रियत्वं प्रजायते । अभावे चाऽक्रियत्वस्य, नाऽयोगित्वभवक्षयौ રાજી मानेनैतादृशा पूर्वं, भवभ्रमणहेतुना । यद् दुष्कृतं मया बद्धं, तत् त्रिधा क्षमयाम्यहम् ॥४२॥ अष्टमपापस्थानकालोचना सर्वानर्थप्रसूर्माया, पापस्थानकमष्टमम् । बहिर्या रम्यरूपापि, करालाऽभ्यन्तरे भृशम् ॥४३॥ अपराधमकुर्वाणो, गुणयुक्तोऽपि मायिकः । सर्पवन्नहि विश्वास-भाजनं जातु जायते ॥४४॥ रिपुभावं वहन् क्रोधी, प्रशस्तः प्रकटं न तु । मायी मित्रस्वरूपेण, शत्रुकार्यं करोति यः ॥४५॥ श्रीमलेः प्राग्भवे बद्ध-तीर्थकूनामकर्मणः ।। अपि स्त्रीत्वमभूत् तत्र, को हेतुर्मायया विना ॥४६॥ भवेऽस्मिन् यत् पुरा माया-वशादन्यभवेषु वा । उपार्जितं मया पापं, तन्मिथ्या मम जायताम् ॥४७॥ नवमपापस्थानकालोचना पापस्थानकमादिष्टं, नवमं लोभनामकम् । सर्वदा सर्वजन्तूनां, यत्परं प्रीतिकारणम् । ૪૮ यन्मुख्ने पतितः प्राणी, चक्री वा वासवोऽपि वा । प्राप्तलोकत्रयैश्वर्यः , सुखी न क्षणमप्यहो ? ॥४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy