SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अयं शराववन्मूले, लघुः पश्चान्महत्तरः । न सन्तोषं विना केऽपि, तं जना जेतुमीशते ॥५०॥ स्वयम्भूरमणाम्भोधिं, देवास्तरितुमीश्वराः । तेऽपि लोभाम्बुधिं नैव, कथञ्चित्तरितुं क्षमाः ॥५१॥ अर्जितं यन्मया पूर्वं, लोभेन दुष्कृतं हि तत् । मिथ्या कुर्व विधा पीत-सन्तोषपरमामृतः ॥५२॥ दशमपापस्थानकालोचना रागाख्यं दशमं पाप-स्थानकं बलवत्तरम् । संसारे यद्वशा जीवाः, पर्यटन्ति भवाद् भवम् ॥५३॥ अयमेव हि सर्वासा-मापदां मूलकारणम् । प्राप्नुयाद् दुःखकणिका-मस्याऽभावे कथं नरः ॥५४॥ निर्वर्णां दन्तुरां कुब्जा-मवटीटां च वामनाम् । रागवान् मनुते नारी, रतिरूपातिशायिनीम् ॥५५॥ विरागमार्गगान् पान्थान् , प्रच्छन्नोऽयं मलिम्लुचः । भटैर्विषयरागाथै-निःशङ्ख खलु लुण्टति કદ્દો फूत्कृत्याऽऽनुरिवाऽऽत्मानं, विदश्य यस्तुदत्यम् । तद् रागजनितं पापं, मिथ्या कुर्वे पुनः पुनः ॥७॥ एकादशपापस्थानकालोचना एकादशमतीवोग्रं, पापस्थानकमीरितम् । द्वेषाख्यं मुक्ति पूरि-परिघं प्रीतिनाशकम् ॥८॥ चित्रशाला यथा रम्या, भवेद् धूमेन धूसरा । तथा द्वेषेण निन्द्यं स्या-छुचि संयमजीवनम् । २२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy